ब्रह्मा सङ्कल्पमात्रात्मा निराकृतिर् इदं स्थितम् । जगद् इत्य् एव जातो मे निश्चयẖ कथयेतरत्
आदौ तावद् इदं नासन् न सद् आस्ते निरामयम् । चिन्मात्रपरमाकाशम् आशाकोशैकपूरकम्
तत् स्वाम् आकाशतां चैतच् चेत्यम् इत्य् अवबुध्यते । स्वरूपम् अजहन् नित्यं चित्त्वाद् भवति चेतनम्
विद्धि त्वं चेतनं जीवं स घनत्वान् मनस् स्थितम् । एतावति स्थिते जाले न किञ्चित् साकृति स्थितम्
शुद्धं व्योमैव चिद्व्योम स्थितम् आत्मनि पूर्ववत् । यद् एतत् प्रतिभातं तु तद् अनन्यच् छिवात् ततः
अथ तन् मन आभोगि भाविताहङ्कृति स्फुरत् । सङ्कल्पात्मकम् आकाशम् आस्ते तिमितम् अव्ययम्
तत् सङ्कल्पचिदाभासनभो ऽहम् इति भावितम् । असन्तम् एवानुभवत् सन्निवेशं खम् एव खे
वेत्ति भावितम् आत्मानं पश्यत्य् अनुभवत्य् अपि । सङ्कल्पकात्मकं शून्यम् एव देह इति स्थितम्
शून्यम् एव यथाकारि सङ्कल्पनगरं भवान् । पश्यत्य् एवम् अजो देहं खे खम् एवानुभूतवान्
संविदो निर्मलत्वात् स यावदिच्छं तथाविधम् । अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति
यदा त्व् अत्र परिज्ञानम् अस्मदादेस् तदाततम् । इदं संसरणं विद्धि शून्यं सत्यम् इव स्थितम्
यथाभूतपरिज्ञानाद् अत्र शाम्यति वासना । अद्वैतान् निरहङ्कारात् ततो मोक्षो ऽवशिष्यते
एवम् एष स यो ब्रह्मा स एवेदं जगत् स्थितम् । विराजो ब्रह्मणो राम देहो यस् तद् इदं जगत्
सङ्कल्पाकाशरूपस्य तस्य या भ्रान्तिर् उत्थिता । तद् इदं जगद् आभाति तद् ब्रह्माण्डम् उदाहृतम्
सर्वम् आकाशम् एवेदं सङ्कल्पकलनात्मकम् । वस्तुतस् त्व् अस्ति न जगत् त्वत्तामत्ते च न क्वचित्
क्व चिन्मात्रे ऽमले व्योम्नि कथं वा केन वा जगत् । किं जायते किम् अत्रास्ति कारणं सहकारि यत्
अतो ऽलीकम् इदं जातम् अलीकं परिदृश्यते । अलीकं स्वदते ऽलीकम् एव नश्यति शून्यकम्
जगदादिकया भासा चिन्मात्रं स्वदते स्वतः । आत्मनात्माम्बरे द्वैतं स्पन्दनेनेव मारुतः
इदं किञ्चिन् नकिञ्चिद् वा द्वैताद्वैतविवर्जितम् । चिदाकाशं जगद् विद्धि शून्यम् अच्छं निरामयम्
शान्ताशेषविशेषो ऽहं तेन राघव संस्थितः । सन्न् एवासन्न् इवातस् त्वम् एवम् एवास्स्व निर्ममः
निर्वासनश् शान्तमना मौनी विगतचापलः । सर्वं कुरु यथाप्राप्तं कुरु वा मात्र किं ग्रहः
अनादिनित्यानुभवो य एकस् स एव दृश्यं न तु दृश्यम् अन्यत् । सत्यानुभूतेर् अनुभूतयो यास् सुविस्तृता दृश्यमहादृशस् ताः
बन्धमोक्षजगद्बुद्धिर् न शून्या नापि सन्मयी । नास्तम् एति न चोदेति किम् अप्य् आद्यम् असौ किल
उपदिष्टम् इदं ब्रह्मंस् त्वया बुद्धम् अलं मया । भूयẖ कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम्
सर्गादिसम्भ्रमदृशश् शून्यतादिदृशस् तथा । न काश्चन विभो सत्या असत्या न च काश्चन
एवं स्थिते तु यत् सत्यं तत् सर्वं बुद्धवान् अहम् । तथापि भूयो बोधाय सर्गानुभव उच्यताम्
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत्
तस्य नाशे महानाशे महाप्रलयनामनि । ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि
शिष्यते शान्तम् अत्यच्छं किम् अप्य् अजम् अनादिमत् । यतो वाचो निवर्तन्ते किम् अन्यद् अवगम्यते
सर्षपापेक्षया मेरुर् यथातिवितताकृतिः । तथाकाशम् अपि स्थूलं शून्यं सद् यदपेक्षया