चेत्यासम्भवतस् तस्मिन् पदे केव चिदर्थता । आस्वादकासम्भवतो मरिचे केव तीक्ष्णता
सत्येवेयम् असत्यैव चितेश् चित्तोदिता परे । अभावात् प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः
परमाणोर् अपि परं तद् अणीयो ऽप्य् अणीयसः । शुद्धं सूक्ष्मं परं शान्तं तद् आकाशोदराद् अपि
दिक्कालाद्यनवच्छिन्नरूपत्वाद् अतिविस्तृतम् । तद् अनाद्यन्तम् आभासं भासनीयविवर्जितम्
चिद्रूपम् एव नो यत्र लभ्यते तत्र जीवता । कथं स्याच् चित्तताकारा वासनानिलरूपिणी
चिद्रूपानुदयाद् एव तत्र नास्त्य् एव जीवता । न बुद्धिता न चित्तत्वं नेन्द्रियत्वं न वासनाः
एवं स्थितं लयारम्भपूर्णम् अप्य् अजरं पदम् । अस्मद्दृष्ट्या स्थितं शान्तं शून्यम् आकाशतो ऽधिकम्
परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः । पुनर् एतत् समाचक्ष्व निपुणं बोधवृद्धये
महाप्रलयसम्पत्तौ सर्वकारणकारणम् । शिष्यते यत् परं ब्रह्म तद् इदं वर्ण्यते शृणु
नाशयित्वा स्वम् आत्मानं मनसो वृत्तिसङ्क्षये । यद् रूपं यद् अनाख्येयं तद् रूपं तस्य वस्तुनः
नास्ति दृश्यं जगद् द्रष्टा दृश्याभावाद् विलीनवत् । भातीति भासनं यत् स्यात् तद् रूपं तस्य वस्तुनः
चितेर् जीवस्वभावो यो यदि चेत्योन्मुखो वपुः । चिन्मात्रं विमलं शान्तं यत् तत् कारणकारणम्
अङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति । जीवतश् चेतसो रूपं यत् तद् परमम् आत्मनः
अस्वप्नाया अनन्ताया अजडाया घनस्थितेः । यद् रूपं चिरचिन्तायास् तत् तदानघ शिष्यते
यद् व्योम्नो हृदयं यद् वा शिलायाः पवनस्य च । तस्याचेत्यस्य चिद्व्योम्नस् तद् रूपं परमात्मनः
अचेत्यस्यामनस्कस्य जीवतो या क्रियावतः । स्यात् स्थितिस् सा परा शान्ता सत्ता तस्याद्यवस्तुनः
चित्प्रकाशस्य यन् मध्यं प्रकाशस्य घनस्य वा । दर्शनस्य च यन् मध्यं तद् रूपं परमात्मनः
वेदनस्य प्रकाशस्य दृश्यस्य तमसस् तथा । वेदनं यद् अनाद्यन्तं तद् रूपं परमात्मनः
यतो जगद् उदेतीव नित्यानुदितरूप्य् अपि । विभिन्नवद् इवाभिन्नं तद् रूपं पारमात्मनः
व्यवहारपरस्यापि यत् पाषाणवद् आसनम् । अव्योम्न एव व्योमत्वं तद् रूपं पारमात्मिकम्
वेद्यवेदनवेत्तृत्वरूपत्रयम् इदं पुनः । यत्रोदेत्य् अस्तम् आयाति तत् तत् परमम् उत्तमम्
वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति । अबुद्ध्यादौ महादर्शे तद् रूपं परमं स्मृतम्
मनष्षष्ठेन्द्रियोन्मुक्तं यद् रूपं स्यान् महाचितेः । जङ्गमे स्थावरे वापि तत् सर्गान्ते ऽवशिष्यते
स्थावराणां हि यद् रूपं तच् चेद् बोधमयं भवेत् । मनोबुद्ध्यादिनिर्मुक्तं तत् परेण समं भवेत्
ब्रह्मार्कविष्णुहरशक्रसदाशिवादिशान्तौ शिवं परमम् एतद् इहैकम् आस्ते । शिष्टं प्रदिष्टम् अविनष्टम् अकष्टम् इष्टं मिश्रं न मिश्रम् अणुनाश्रितम् आश्रितेन
इत्थंरूपम् इदं दृश्यं जगन् नामास्ति भासुरम् । महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति
कुत आयाति कीदृग् वा वन्ध्यापुत्रः क्व गच्छति । क्व याति कुत आयाति वद वा व्योमकाननम्
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति । कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन । जगदाद्य् अखिलं दृश्यं तथा नास्ति कदाचन
न चोत्पन्नं न च ध्वंसि यत् किलादौ न विद्यते । उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा