गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । कृतास्त्रम् अकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः
इक्ष्वाकुवंशजातो ऽपि स्वयं दशरथो ऽपि सन् । न पालयसि चेद् वाक्यं को ऽपरः पालयिष्यति
युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुम् इहार्हसि
एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष बुद्ध्याधिको लोके तपसां च परायणः
एषो ऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतद् अन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन
न च देवर्षयः केचिन् नामरा न च राक्षसाः । न नागयक्षगन्धर्वा अनेन सदृशा नृप
अस्त्रम् अस्मै भृशाश्वेन परैः परमदुर्जयम् । कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात्
ते हि पुत्राः भृशाश्वस्य प्रजापतिसुतोपमाः । एनम् अन्वचरन् वीरा दीप्तिमन्तो महौजसः
जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे । तयोस् तु यान्य् अपत्यानि शतं परमदुर्जयम्
पञ्चाशतस् सुताञ् जज्ञे जया लब्धवरा पुरा । वधायासुरसैन्यानां ते ऽक्षयाः कामरूपिणः
सुप्रभा जनयाम् आस पुत्रान् पञ्चाशतः परान् । सङ्घर्षान् नाम दुर्धर्षान् दुराक्रोशान् बलीयसः
एवंवीर्यो महातेजा विश्वामित्रो महामुनिः । न रामगमने बुद्धिं विक्लवां कर्तुम् अर्हसि
अस्मिन् महासत्त्वमये मुनीन्द्रे स्थिते समीपे पुरुषस् तु साधुः । प्राप्ते ऽपि मृत्याव् अमरत्वम् एति मा दीनतां गच्छ यथा विमूढः
तथा वसिष्ठे ब्रुवति राजा दशरथस् सुतम् । समुत्स्रष्टुमना रामम् आजुहाव सलक्ष्मणम्
प्रतीहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणम् अविघ्नेन मुन्यर्थं शीघ्रम् आनय
इति राज्ञा विसृष्टो ऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम्
देव दोर्दलिताशेषरिपो रामस् स्वमन्दिरे । विमनास् संस्थितो रात्रौ षट्पदः कमले यथा
आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः । न कस्यचित् स निकटे स्थातुम् इच्छति खिन्नधीः
इत्य् उक्ते तेन भूपालस् तं रामानुचरं जनम् । सर्वम् आश्वासयाम् आस पप्रच्छ च यथाक्रमम्
कथं कीदृक् स्थितो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यम् आह महीपतिम्
देहयष्टिम् इमां देव धारयन्त इमे वयम् । खिन्नाः खेदपरिम्लाने विभो रामे सुते तव
रामो राजीवपत्त्राक्षो यतः प्रभृति चागतः । सविप्रस् तीर्थयात्रायास् ततः प्रभृति दुर्मनाः
यत्नप्रार्थनयास्माकं निजव्यापारम् आह्निकम् । सायम् अम्लानवदनः करोति न करोति वा
स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् । प्रार्थितो ऽपि हि ना तृप्तेर् अश्नात्य् अशनम् ईश्वरः
लोलान्तःपुरनारीभिः कृतदोलाभिर् अङ्गने । न च क्रीडति लीलाभिर् धराद्भिर् इव चातकः
माणिक्यमुक्तासम्प्रोता केयूरकटकावली । नानन्दयति तं राजन् द्यौः पातविवशं यथा
क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्य् अतिविषादवान्
यद् रम्यम् उचितं स्वादु पेशलं चित्तहारि वा । बाष्पपूरेक्षण इव तेनैव परिखिद्यते
किम् इमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः । इति नृत्तविलासेषु कामिनीः परिनिन्दति
भोजनं शयनं स्नानं विलासं पानम् आसनम् । उन्मत्तचेष्टितम् इव नाभिनन्दति निन्दितम्