प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः । सपक्षपर्वताकारतरङ्गापूरिताम्बराः
महारवमरुद्भिन्नकलोलाचलचालिताः । चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः
उल्ललद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः । निमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः
दरीदलनसम्प्राप्तदृषद्दशनदन्तुराः । शृङ्गलम्बिदरीप्रोतमग्नवीचिजलेभकाः । व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः
यमेन्द्रवसुधावाहैर् उत्कर्णैर् भयविह्वलैः । श्रूयमाणपतच्छैलतटीकटकटारवाः
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः । नीलालूनवनव्यूहशेवालाशारवारयः
प्रज्वलद्वडवावह्निज्वालाचलमिलज्जलाः । स्वरसेन विभोर् नाशे विशन्तीव महानलम्
मिलच्छिखरिमातङ्गजलमातङ्गयोधिनः । नृत्यन्तीव तरङ्गौघैर् जलावलनवेधिनः
जलाचलाचलान्योऽन्यसङ्घट्टास्फोटपण्डिताः । वहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः
उड्डामररवेभेन्द्रभेरीरसनभासुरैः । आसुरैर् इव पातालाẖ कल्लोलैर् अलम् आकुलाः
अथोदपतद् उन्नासदिङ्नागवदनध्वनिः । पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः
चञ्चलाचलकीलोर्वी चचाल जलचालिता । लोलशेवालवल्लीव व्यालोलाम्भोधिलङ्घिता
अथ दुर्वारनिर्घोषनिर्घाताडम्बरान्विता । पुस्फोटेव पतन्तीव द्यौर् दिशाम् अमरारवैः
आवर्तवलनाकाराẖ केतवḫ पेतुर् अम्बरात् । हेमरत्नमहीमुक्तास् सिन्दूरभुजगा इव
ककुब्भ्यो नभसो भूमेर् उदगुर् दग्धदिक्तटाः । वलज्ज्वालाजटाटोपा विविधोत्पातपङ्क्तयः
पृथ्व्यादीन्य् अमरादीनि ब्रह्मोन्मुक्तानि सर्वतः । द्विविधानि महाभूतान्य् अलं सङ्क्षोभम् आययुः
चन्द्रार्कानिलशक्राग्निलोका हलहलाकुलाः । परिपातपरा आसन् ब्रह्मलोकगतेश्वराः
कम्पैẖ कटकटारावैḫ पतत्पादपपङ्क्तयः । भूमेर् अन्वभवन् भूरिदोलान्दोलनम् अद्रयः
भूकम्पलोलकैलासमेरुमन्दरकन्दराः । पेतुẖ कल्पतरून्मुक्तरत्नस्तबकवृष्टयः
लोकान्तराद्रिपुरवारिधिकाननानाम् उत्पातकल्पपवनेन मिथो हतानाम् । कोलाहलैर् जगद् अभूत् प्रविकीर्णशीर्णं पूर्णार्णवे त्रिपुरपूर इवाभिपाती
अथाकृष्टवति प्राणान् स्वयम्भुवि नभोभुवः । विराडात्मनि तत्याज वातस्कन्धस्थितिं स्थिराम्
ते हि तस्य किल प्राणास् तेनाक्रान्तेषु तेष्व् अपि । ऋक्षचक्रस्थितिं को ऽन्यश् चक्रे भूतैकधारिणीम्
वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते । शमं गन्तुं परित्यज्य संस्थितिं क्षोभम् आगते
निराधारास् सवाताग्निदेहोल्मुकवद् आपतन् । व्योम्नस् तारास् तरोḫ पुष्पनिकरा इव भूतले
कालपाकगलन्मूला जगत्षण्डफलादयः । प्रशान्तपवनाधारा विमानावलयो ऽपतन्
प्रशमोन्मुखतां याते ब्राह्मे सङ्कल्पनेन्धने । सिद्धानां गतयश् शेमुर् इद्धानाम् अर्चिषाम् इव
प्रभ्रमन्त्यो ऽम्बरे कल्पमारुतैस् तनुतूलवत् । स्वशक्त्यपचये मूकास् सिद्धसन्ततयो ऽपतन्
सकल्पद्रुमजालानि सेन्द्रादिनगराणि च । पेतुर् भूकम्पलोलस्य शिरांस्य् अमरभूभृतः
वक्षि सङ्कल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः । किम् अङ्गं तस्य भूलोकẖ किं स्वर्गẖ किं रसातलम्
कथम् एतानि चाङ्गानि ब्रह्मंस् तस्य स्थितानि वा । कथं वा सो ऽन्तरे तस्य स्वस्यैव वपुषस् स्थितः