इत्य् अस्य पार्थिवे धातौ ब्रह्मणो गतवेदने । पृथिवी पृथुवैधुर्या सम्पन्नासन्ननाशतः
अथ तत्संविदुन्मुक्तो जलधातुẖ क्षयोन्मुखः । यदा विक्षुभितात्मासीत् तदा नियतिलङ्घिनः
समुत्सार्यार्यमर्यादाम् अर्णवा विवृतार्णसः । प्रवृत्ता विकृतिं गन्तुम् उन्मत्ता इव राविणः
वीचिविक्षोभविन्यासैर् वेलाविपिनलावकाः । कल्लोलवलनावर्तविवर्तोद्वर्तिताद्रयः
शीकरौघमहारम्भघनसंवलिताचलाः । चलाचलवलद्वीरमकराघूर्णितान्तराः
उल्ललन्मकराक्रान्तद्रुमकाननितोदराः । दरीविदारणभ्रष्टसिंहाहतजलेचराः
उत्फालमकरच्छिन्ननभश्चरबृहद्घनाः । परस्परोर्मिसङ्घट्टडाक्कारकटुटाङ्कृताः
तरत्तरङ्गमातङ्गफूत्काराधौतभास्कराः । अन्योऽन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः
तटपर्वतलुण्ठाकतरङ्गकरमण्डलाः । गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः
भूपाḫ परपुराक्रान्तौ लग्ना इव हतारयः । तारारवरणद्रीढाविद्रावितनभश्चराः
प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः । सपक्षपर्वताकारतरङ्गापूरिताम्बराः
महारवमरुद्भिन्नकलोलाचलचालिताः । चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः
उल्ललद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः । निमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः
दरीदलनसम्प्राप्तदृषद्दशनदन्तुराः । शृङ्गलम्बिदरीप्रोतमग्नवीचिजलेभकाः । व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः
यमेन्द्रवसुधावाहैर् उत्कर्णैर् भयविह्वलैः । श्रूयमाणपतच्छैलतटीकटकटारवाः
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः । नीलालूनवनव्यूहशेवालाशारवारयः
प्रज्वलद्वडवावह्निज्वालाचलमिलज्जलाः । स्वरसेन विभोर् नाशे विशन्तीव महानलम्
मिलच्छिखरिमातङ्गजलमातङ्गयोधिनः । नृत्यन्तीव तरङ्गौघैर् जलावलनवेधिनः
जलाचलाचलान्योऽन्यसङ्घट्टास्फोटपण्डिताः । वहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः
उड्डामररवेभेन्द्रभेरीरसनभासुरैः । आसुरैर् इव पातालाẖ कल्लोलैर् अलम् आकुलाः
अथोदपतद् उन्नासदिङ्नागवदनध्वनिः । पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः
चञ्चलाचलकीलोर्वी चचाल जलचालिता । लोलशेवालवल्लीव व्यालोलाम्भोधिलङ्घिता
अथ दुर्वारनिर्घोषनिर्घाताडम्बरान्विता । पुस्फोटेव पतन्तीव द्यौर् दिशाम् अमरारवैः
आवर्तवलनाकाराẖ केतवḫ पेतुर् अम्बरात् । हेमरत्नमहीमुक्तास् सिन्दूरभुजगा इव
ककुब्भ्यो नभसो भूमेर् उदगुर् दग्धदिक्तटाः । वलज्ज्वालाजटाटोपा विविधोत्पातपङ्क्तयः
पृथ्व्यादीन्य् अमरादीनि ब्रह्मोन्मुक्तानि सर्वतः । द्विविधानि महाभूतान्य् अलं सङ्क्षोभम् आययुः
चन्द्रार्कानिलशक्राग्निलोका हलहलाकुलाः । परिपातपरा आसन् ब्रह्मलोकगतेश्वराः
कम्पैẖ कटकटारावैḫ पतत्पादपपङ्क्तयः । भूमेर् अन्वभवन् भूरिदोलान्दोलनम् अद्रयः
भूकम्पलोलकैलासमेरुमन्दरकन्दराः । पेतुẖ कल्पतरून्मुक्तरत्नस्तबकवृष्टयः
लोकान्तराद्रिपुरवारिधिकाननानाम् उत्पातकल्पपवनेन मिथो हतानाम् । कोलाहलैर् जगद् अभूत् प्रविकीर्णशीर्णं पूर्णार्णवे त्रिपुरपूर इवाभिपाती