अशङ्कितस्थलीमध्यसञ्जातागाधकूपका । वर्णसङ्करनारीणाम् आसक्तजनभूमिपा
अट्टशीलाखिलजना शवशीलचतुष्पथा । केशैकशीलवनिता पानशीलजनेश्वरा
दुẖखशीलसमाचारा द्वन्द्वशीलाखिलप्रजा । अधर्मशीलवनिता कुशास्त्रशतशीलिनी
दुर्जनाखिलवित्ताढ्या विपद्विहतसज्जना । अनार्यवसुधापाला तदनादृतपण्डिता
लोभमोहभयद्वेषरागरोगरजोरता । अगम्यगामिपुरुषा रुषाभिहतसद्द्विजा
अनारतघनाक्रन्दपरापर्यन्तपामरा । दस्यूत्सन्नपुरग्रामदेवद्विजसमाश्रया
आपातमधुरारम्भदुẖखदोदर्कभङ्गुरा । आलस्योल्लासविलसत्कार्यवैधुर्यधर्मिणी
सर्वापदुपतापार्ता क्रमेणोत्सन्नदिग्गणा । भस्मशेषपुरग्रामा निर्जनाखिलमण्डला
रोरूयमाणभस्माभ्रकुण्डलोड्डामराम्बरा । दुर्भगाडम्बरारम्भरोदनोरुरवोदरी
मुष्टिप्रमाणजनता जनतापानुषङ्गिणी । नीरसाशेषदेशान्ता सर्वर्तुगुणवर्जिता
इत्य् अस्य पार्थिवे धातौ ब्रह्मणो गतवेदने । पृथिवी पृथुवैधुर्या सम्पन्नासन्ननाशतः
अथ तत्संविदुन्मुक्तो जलधातुẖ क्षयोन्मुखः । यदा विक्षुभितात्मासीत् तदा नियतिलङ्घिनः
समुत्सार्यार्यमर्यादाम् अर्णवा विवृतार्णसः । प्रवृत्ता विकृतिं गन्तुम् उन्मत्ता इव राविणः
वीचिविक्षोभविन्यासैर् वेलाविपिनलावकाः । कल्लोलवलनावर्तविवर्तोद्वर्तिताद्रयः
शीकरौघमहारम्भघनसंवलिताचलाः । चलाचलवलद्वीरमकराघूर्णितान्तराः
उल्ललन्मकराक्रान्तद्रुमकाननितोदराः । दरीविदारणभ्रष्टसिंहाहतजलेचराः
उत्फालमकरच्छिन्ननभश्चरबृहद्घनाः । परस्परोर्मिसङ्घट्टडाक्कारकटुटाङ्कृताः
तरत्तरङ्गमातङ्गफूत्काराधौतभास्कराः । अन्योऽन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः
तटपर्वतलुण्ठाकतरङ्गकरमण्डलाः । गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः
भूपाḫ परपुराक्रान्तौ लग्ना इव हतारयः । तारारवरणद्रीढाविद्रावितनभश्चराः
प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः । सपक्षपर्वताकारतरङ्गापूरिताम्बराः
महारवमरुद्भिन्नकलोलाचलचालिताः । चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः
उल्ललद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः । निमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः
दरीदलनसम्प्राप्तदृषद्दशनदन्तुराः । शृङ्गलम्बिदरीप्रोतमग्नवीचिजलेभकाः । व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः
यमेन्द्रवसुधावाहैर् उत्कर्णैर् भयविह्वलैः । श्रूयमाणपतच्छैलतटीकटकटारवाः
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः । नीलालूनवनव्यूहशेवालाशारवारयः
प्रज्वलद्वडवावह्निज्वालाचलमिलज्जलाः । स्वरसेन विभोर् नाशे विशन्तीव महानलम्
मिलच्छिखरिमातङ्गजलमातङ्गयोधिनः । नृत्यन्तीव तरङ्गौघैर् जलावलनवेधिनः
जलाचलाचलान्योऽन्यसङ्घट्टास्फोटपण्डिताः । वहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः
उड्डामररवेभेन्द्रभेरीरसनभासुरैः । आसुरैर् इव पातालाẖ कल्लोलैर् अलम् आकुलाः