वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे । बोधैकतां गतास् त्व् आशु पश्यामस् तानि वीक्षणात्
घटे पटे वटे कुड्ये खे ऽनिले ऽम्भसि तेजसि । जगन्ति सन्ति सर्वत्र शिलायाम् इव सर्वदा
जगन् नाम मुधाभ्रान्तिẖ किल स्वप्नपुरोपमा । मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्य् अथ नास्ति वा
परिज्ञाता सती येषां सैषा चिन्नभसैकताम् । गता ते न विमुह्यन्ति शिष्टास् तु भ्रमभाजनम्
अथान्यधारणाभ्यासात् स्वविरागवशोदितम् । साधयन्त्यार्थम् आत्मीयं दृष्टस् त्वम् अनया मुने
इति मायेव दुष्पारा चिच्छक्तिḫ परिजृम्भते । इयम् आद्यन्तरहिता ब्राह्मी शक्तिर् अनामया
प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् । द्रव्यकालक्रियोद्द्योता चितिस् तपति केवलम्
देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्व् इदम् । चिच्छिलाङ्गकम् एवैकं विद्ध्य् अनस्तमयोदयम्
चिद् एवेयं शिलाकारम् इव तिष्ठति बिभ्रती । अङ्गम् अस्या जगज्जालं मरुतस् स्पन्दनं यथा
विज्ञानघनम् आत्मानं जगद् इत्य् अवबुध्यते । अनाद्यन्तापि साद्यन्तं चित्त्वाद् अतिगतापि चित्
चिच्छिलेयम् अनाद्यन्ता साद्यन्तास्मीति बोधतः । साकारापि निराकारा जगदङ्गेति संस्थिता
यद्वत् स्वप्ने चिद् एव स्वं रूपं व्योमैव पत्तनम् । वेत्ति तद्वद् इयं वेत्ति पाषाणं जगदङ्गकम्
न सरन्तीह सरितो न चक्रं परिवर्तते । नार्थाḫ परिणमन्त्य् अन्तẖ कचत्य् एतच् चिदम्बरम्
न महाकल्पकल्पान्तसंविदस् संविदम्बरे । सम्भवन्ति पृथग्रूपाḫ पयसीव पयोऽन्तरम्
जगन्ति सन्त्य् एव न सन्ति शान्ते चिदम्बरे सर्वगतैकमूर्तौ । नभोऽन्तराणीव महानभोऽन्तश् चेत् सन्ति तत् तानि पराम्बराणि
वसिष्ठ तद् गच्छ मुने जगत् स्वं त्वं वासने सम्प्रति शान्तिम् एहि । बुद्ध्यादिरूपाणि परं व्रजन्तु वयं बृहद्ब्रह्मपदं व्रजामः
इत्य् उक्त्वा भगवान् ब्रह्मा ब्रह्मलोकजनैस् सह । बद्धपद्मासनो ऽनन्तसमाधानगतो ऽभवत्
ओङ्कारोर्ध्वार्धमात्रान्तश् शान्तनिश्शेषमानसः । लिपिकर्मार्पिताकार आसीद् आशान्तवेदनः
तम् एवानुसरन्ती सा तथैव ध्यानगा सती । वासनासीद् अशेषाशाशान्ता वाकाशरूपिणी
परमेष्ठिन्य् असङ्कल्पे तस्मिंस् तानवम् ईयुषि । सर्वगानन्तचिद्व्योमरूपो ऽपश्यम् अहं तदा
यावत् सङ्कल्पनं तस्य विरसीभवति क्षणात् । यथैवाशु तथैवोर्व्यास् साद्रिद्वीपपयोनिधेः
तृणगुल्मलताशालिसमुद्भवनशक्तता । समस्तैवास्तम् आगन्तुम् आरब्धा सा शनैश् शनैः
किल तस्य विराडात्मरूपस्याङ्गैकदेशताम् । सा बिभर्ति मही तेन तदसंवेदनोदयात्
विचेतना सा विरसा बभूव परिजर्जरा । मार्गशीर्षान्तवल्लीव जराविधुरतां गता
यथास्माकम् असंवित्तेर् अङ्गाली विरसा भवेत् । तथा विरिञ्चासंवित्तेर् धरा वैधुर्यम् आगता
सम्पन्नसंहतानेकमहोत्पातभरावृता । दुष्कृताङ्गारनिर्दग्धनरकोन्मुक्तमानवा
दुर्भिक्षाकाण्डदौस्स्थित्यदैन्यदारिद्र्यदुर्भगा । दुश्शीलाशेषवनितानिर्मर्यादनरावृता
पांसुप्रतर्दनीहारधूलिधूसरसूर्यभाक् । द्वन्द्विमूर्खमहादुẖखव्यसनिव्याधिताकुला
अग्निदाहजलापूरयुद्धप्रोच्छिन्नमण्डला । अवृष्ट्यवग्रहोन्नष्टकष्टचेष्टितपामरा
अशङ्कितमहोत्पातपतत्पर्वतपत्तना । शिशुश्रोत्रियपुण्यार्यगुणिनाशरुदज्जना