पदवीम् असि सम्प्राप्त इमाम् अतिदवीयसीम् । दूराध्वसु परिश्रान्त इदम् आसनम् आस्यताम्
इत्य् उक्ते तेन भगवन्न् अभिवादय इत्य् अहम् । वदन् मणिमये पीठे निविष्टो दृष्टिदर्शिते
अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः । प्रस्तुतास् स्तुतयḫ पूजा नतयस् स्थितिनीतयः
ततो मुहूर्तमात्रेण सर्वभूतगणोत्थिते । शान्ते प्रकृतसंरम्भे तस्योक्तं ब्रह्मणो मया
किम् इदं भूतभव्येश यद् इयं माम् उपागता । वक्ति ज्ञानगिरास्मांस् त्वं बोधयेति प्रयत्नतः
भवान् भूतेश्वरो देवस् सकलज्ञानपारगः । इयं च का मम च किं ब्रूते ब्रूहि बृहद्द्युते
कथम् एषा त्वया देव जायार्थं जनिता सती । नेह जायापदं नीता नीता विरसतां पुनः
मुने शृणु यथावृत्तम् इदं ते कथयाम्य् अहम् । यथावृत्तम् अशेषेण कथनीयं यतस् सताम्
अस्ति तावद् अजं शान्तम् अजरं किञ्चिद् एव सत् । ततश् चित्कचनैकान्तरूपिणẖ कचितो ऽस्म्य् अहम्
आकाशरूप एवाहं स्थित आत्मनि सर्वदा । भविष्यति स्थिते सर्गे स्वयम्भूर् इति नाम मे
वस्तुतस् तु न जातो ऽस्मि न च नश्यामि किञ्चन । चिदाकाशश् चिदाकाशे तिष्ठाम्य् अहम् अनावृतः
यद् अयं त्वं ममाहं ते यद् इदं कथनं मिथः । तत् तरङ्गस् तरङ्गाग्रे रणत्य् एवेति मे मतिः
एवंरूपस्य मे कालवशतो विशदाकृतेः । सौकुमार्याच् चिदाभासमात्रस्यान्तस् स्वभावतः
ममानन्या तवान्यस्य चान्येवेह विभाति या । सोदितानुदितैवान्तर् ममाहम् इति वासना
अनाशसत्तामुदितस् त्व् अहम् आत्मनि संस्थितः । स्वभावाद् अच्युताकारस् स्वात्मारामस् स्वयंप्रभः
तस्या अहम् इति भ्रान्तेर् वासनाया जगत्स्थितेः । सम्पन्नेयम् अधिष्ठातृदेवता देहरूपिणी
वासनाया अधिष्ठातृदेवतैवम् इयं स्थिता । न तु मे गृहिणी नापि गृहिण्यर्थेन मत्कृता
स्ववासनावेशवशेन भावं गृहिण्य् अहं ब्रह्मण इत्य् उपेत्य । एषा स्वयं व्यर्थम् इतातिदुẖखं यस्मात् किलैषैव हि वासनान्तः
अद्याहं चिन्मयाकाशस् त्व् अन्याकाशमयीं स्थितिम् । परां ग्रहीतुम् इच्छामि तेनेहोपस्थितẖ क्षयः
महाप्रलयकाले ऽस्मिंस् त्यक्तुम् एषा मयाधुना । मुनीन्द्र नूनम् आरब्धा तेन वैरस्यम् आगता
आकाशत्वाद् यदाद्यायं पराकाशो भवाम्य् अहम् । तदा महाप्रलयता वासनायाश् च सङ्क्षयः
तेनैषा विरसीभूता मन्मार्गम् अभिधावति । नानुगच्छति को नाम निर्मातारम् उदारधीः
इहाद्यायं कलेर् अन्तश् चतुर्युगविपर्ययः । प्रजामन्विन्द्रदेवानाम् अद्यैवान्तो ऽयम् आगतः
अद्यैव चायं कल्पान्तो महाकल्पान्त एव च । ममायं वासनान्तो ऽद्य देहव्योमान्त एव च
तेनेयं वासना ब्रह्मन् क्षयं गन्तुं समुद्यता । क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम्
यथा जलाब्धिलेखाया जायते लहरी चला । वासनायास् तथैवेच्छा मुधोदेत्य् अपकारणम्
आभिमानिकदेहाया वासनायास् स्वभावतः । अस्या आत्मावलोकेच्छा स्वयम् एवोपजायते
आत्मतत्त्वं त्व् अपश्यन्त्या धारणाभ्यासयोगतः । दृष्टो ऽनया भवत्सर्गो वर्गव्यग्रानिरर्गलः
अनयाम्बरसञ्चारपरयाद्रिशिरश्शिला । दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका
एतद् अस्मज्जगद् यत्र तद् दृषत् त्वज्जगद्गिरौ । अस्मज्जगत्पदार्थेषु सन्त्य् अन्यानि जगन्त्य् अपि