प्रत्यक्षेणैवम् अध्यक्षं प्रत्यक्षं प्रविचार्यताम् । यद् आद्यं यत् सद् अध्यक्षं तत् प्रत्यक्षेण दृश्यताम्
लोकद्वयानुभवदं त्यक्त्वा प्रत्यक्षम् ऐहिकम् । मायात्मकं यो गृह्णाति नास्ति मूढतमस् ततः
आतिवाहिकम् एवैषां भूतानां विद्यते वपुः । तत्राधिभौतिकभ्रान्तिर् असत्यैव पिशाचिका
अजातसङ्कल्पमयं प्रत्यक्षं सत् कथं भवेत् । स्वयम् एव न यत् सत्यं तत् सत्कार्यकरं कथम्
यत्र प्रत्यक्षम् एवासद् अन्यत् किं तत्र सद् भवेत् । क्व तत् सिद्धं भवेद् वस्तु यद् असिद्धेन साध्यते
प्रत्यक्ष एव भावत्वे नष्टे क्वेवानुमादयः । उह्यन्ते वारणा यत्र तत्रोर्णायुषु का कथा
अतḫ प्रमाणसंसिद्धेर् दृश्यं नास्त्य् एव कुत्रचित् । अन्यद् यद् इदम् अस्तीव तत् तद् ब्रह्मघनं घनम्
स्वप्ने द्रष्टुẖ खम् एवाद्रिर् गेहे नान्यस्य वै यथा । तथा तद्भावनवतोर् आवयोस् सा शिलैव चित्
अयं शैल इदं व्योम जगद् एतद् इदं त्व् अहम् । इति चिन्मय आत्मान्तẖ खं चमत्कुरुते स्वयम्
पश्यत्य् एतत् प्रबुद्धात्मा नाप्रबुद्धẖ कदाचन । श्रोतुẖ कथार्थसंवित्तिर् नाश्रोतुर् भवति क्वचित्
अप्रबुद्धमतेर् भ्रान्तिर् एवेयं सत्यतां गता । क्षीवस्य सुस्थिता एव नृत्यन्ति तरुपर्वताः
सर्वत्राप्रतिहतरूपम् एकबोधं प्रत्यक्षं शिवम् अवबुध्य चित्स्वरूपम् । प्रत्यक्षान्तरम् इह पेलवं श्रयन्ते ये मूढास् तृणतनुभिश् शठैर् अलं तैः
जगदङ्गम् अनाभासम् अदृश्यं दृश्यवत् स्थितम् । परया दृश्यते दृष्ट्या तद् ब्रह्मैव निरामयम्
तत्र शैलसरित्स्रोतोलोकलोकान्तरभ्रमाः । भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः
सा प्रविष्टा ततस् सर्गम् अनर्गलम् अचेष्टिता । अहम् अप्य् अविशं तत्र सङ्कल्पेन तया सह
यावत् सा तत्र वैरिञ्चं लोकम् आसाद्य सोद्यमा । उपविष्टा विरिञ्चस्य पुरḫ परमशोभना
वक्तव्यो मुनिशार्दूल पतिर् मे पाति माम् इमाम् । विवाहार्थम् अनेनाहं जनिताजरसा पुरा
पुराणḫ पुरुषो ऽप्य् एष माम् अद्यापि जरां गताम् । न विवाहितवांस् तेन विरागम् अहम् आगता
विरागम् एषो ऽप्य् आयातो गन्तुम् इच्छति तत् पदम् । यत्र न द्रष्टृता नैव दृश्यता न च शून्यता
महाप्रलयसम्पन्ने जगत्य् अस्मिंश् च सम्प्रति । ध्यानाच् च न चलत्य् एष शैलमौनाद् इवाचलः
तस्मान् माम् एनम् अपि च बोधयित्वा मुनीश्वर । आमहाकल्पसर्गादौ परमे पथि योजय
इत्य् उक्त्वा माम् असौ तस्य बोधायेदम् उवाच ह । नाथायं मुनिनाथो नस् सद्म सम्प्राप्तवान् इदम्
एषो ऽन्यस्मिञ् जगद्गेहे ब्रह्मणस् तनयो मुनिः । पूजयैनं गृहायातं गृहस्थगृहपूजया
बुध्यताम् अर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः । महन् महत्सपर्या हि महात्मभ्यो ऽभिरोचते
तयेत्य् उक्ते महाबुद्धिर् बुबुधे स समाधितः । स्वसंवित्तिद्रवात्मत्वाद् आवर्त इव वारिधौ
शनैर् उन्मीलयाम् आस नयने नयकोविदः । मधुश् शिशिरसंशान्ताव् अवनौ कुसुमे यथा
शनैḫ प्रकटयाम् आसुस् तान्य् अङ्गान्य् अस्य संविदम् । मधोḫ पल्लवजालानि नवानीव नवं रसम्
सुरसिद्धाप्सरस्सङ्घास् समाजग्मुस् समन्ततः । यथा हंसालयो लोलाḫ प्रातर् विकसितं सरः
ददर्शासौ पुरḫ प्राप्तं मां च तां च विलासिनीम् । उवाचाथ वचो वन्द्यḫ प्रणवस्वरसुन्दरम्
करामलकवद्दृष्टसंसारासारसार हे । ज्ञानामृतमहाम्भोधे मुने स्वागतम् अस्तु ते