अनुभूतापि नास्त्य् एव हेम्नẖ कटकता यथा । तथातिवाहिकस्याधिभौतिकत्वं न विद्यते
भ्रमम् अभ्रमतां यातम् अभ्रमं भ्रमतां गतम् । वेत्ति जीवो विचारेण विनाहो नु विमूढता
आधिभौतिकदेहो ऽयं विचारेण न लभ्यते । आतिवाहिकदेहस् तु किल लोकद्वये ऽक्षयः
आधिभौतिकचिद् रूढा स्वातिवाहिकदेहके । मरौ मरीचिकास्व् एव यथा मिथ्यैव वारिधीः
जाताधिभौतिकी संविद् आतिवाहिकवित्क्रमे । देहदृष्टिवशात् प्रौढा स्थाणौ पुरुषधीर् इव
शुक्तौ रजतता तापे जलतेन्दौ यथा द्विता । आधिभौतिकता तद्वन् मनोजैवातिवाहिके
यद् असत् तत् कृतं सत्यं यत् सत्यं तद् असत् कृतम् । अहो नु मोहमाहात्म्यं जीवस्यास्याविचारजम्
योगिप्रत्यक्षम् एवास्ति किञ्चिद् अस्ति तु मानसम् । यस्माल् लोकद्वयाचारस् ताभ्याम् एव प्रसिध्यति
आद्यं प्रत्यक्षम् उत्सृज्य यो ऽसत्ये ऽस्मिन् कृतस्थितिः । प्रत्यक्षे मृगतृष्णाम्बु पीत्वा स सुखम् आस्थितः
तत् सुखं दुẖखम् एवाहुẖ क्षणनाशानुभूतितः । अकृत्रिमम् अनाद्यन्तं यत् सुखं तत् सुखं विदुः
प्रत्यक्षेणैवम् अध्यक्षं प्रत्यक्षं प्रविचार्यताम् । यद् आद्यं यत् सद् अध्यक्षं तत् प्रत्यक्षेण दृश्यताम्
लोकद्वयानुभवदं त्यक्त्वा प्रत्यक्षम् ऐहिकम् । मायात्मकं यो गृह्णाति नास्ति मूढतमस् ततः
आतिवाहिकम् एवैषां भूतानां विद्यते वपुः । तत्राधिभौतिकभ्रान्तिर् असत्यैव पिशाचिका
अजातसङ्कल्पमयं प्रत्यक्षं सत् कथं भवेत् । स्वयम् एव न यत् सत्यं तत् सत्कार्यकरं कथम्
यत्र प्रत्यक्षम् एवासद् अन्यत् किं तत्र सद् भवेत् । क्व तत् सिद्धं भवेद् वस्तु यद् असिद्धेन साध्यते
प्रत्यक्ष एव भावत्वे नष्टे क्वेवानुमादयः । उह्यन्ते वारणा यत्र तत्रोर्णायुषु का कथा
अतḫ प्रमाणसंसिद्धेर् दृश्यं नास्त्य् एव कुत्रचित् । अन्यद् यद् इदम् अस्तीव तत् तद् ब्रह्मघनं घनम्
स्वप्ने द्रष्टुẖ खम् एवाद्रिर् गेहे नान्यस्य वै यथा । तथा तद्भावनवतोर् आवयोस् सा शिलैव चित्
अयं शैल इदं व्योम जगद् एतद् इदं त्व् अहम् । इति चिन्मय आत्मान्तẖ खं चमत्कुरुते स्वयम्
पश्यत्य् एतत् प्रबुद्धात्मा नाप्रबुद्धẖ कदाचन । श्रोतुẖ कथार्थसंवित्तिर् नाश्रोतुर् भवति क्वचित्
अप्रबुद्धमतेर् भ्रान्तिर् एवेयं सत्यतां गता । क्षीवस्य सुस्थिता एव नृत्यन्ति तरुपर्वताः
सर्वत्राप्रतिहतरूपम् एकबोधं प्रत्यक्षं शिवम् अवबुध्य चित्स्वरूपम् । प्रत्यक्षान्तरम् इह पेलवं श्रयन्ते ये मूढास् तृणतनुभिश् शठैर् अलं तैः
जगदङ्गम् अनाभासम् अदृश्यं दृश्यवत् स्थितम् । परया दृश्यते दृष्ट्या तद् ब्रह्मैव निरामयम्
तत्र शैलसरित्स्रोतोलोकलोकान्तरभ्रमाः । भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः
सा प्रविष्टा ततस् सर्गम् अनर्गलम् अचेष्टिता । अहम् अप्य् अविशं तत्र सङ्कल्पेन तया सह
यावत् सा तत्र वैरिञ्चं लोकम् आसाद्य सोद्यमा । उपविष्टा विरिञ्चस्य पुरḫ परमशोभना
वक्तव्यो मुनिशार्दूल पतिर् मे पाति माम् इमाम् । विवाहार्थम् अनेनाहं जनिताजरसा पुरा
पुराणḫ पुरुषो ऽप्य् एष माम् अद्यापि जरां गताम् । न विवाहितवांस् तेन विरागम् अहम् आगता
विरागम् एषो ऽप्य् आयातो गन्तुम् इच्छति तत् पदम् । यत्र न द्रष्टृता नैव दृश्यता न च शून्यता
महाप्रलयसम्पन्ने जगत्य् अस्मिंश् च सम्प्रति । ध्यानाच् च न चलत्य् एष शैलमौनाद् इवाचलः