तरन्ति सरितं स्फारां संसारीं सारसेविनः । त एवात्मविचाराख्यम् अभ्यासं न त्यजन्ति ये
अभ्यासभासो ऽभिमतं वस्तु प्रकटयन्त्य् अलम् । प्रापयन्ति च निर्विघ्नं घटं दीपप्रभा यथा
यथा कल्पद्रुमलतास् सुचिन्तामणयो यथा । फलन्ति शरदश् चैतास् तथैवाभ्यासभूमयः
इष्टवस्तु चिराभ्यासभास्वान् भासयति प्रजाः । तथेन्द्रियाख्यां देहोर्व्यां रात्रिं पश्यन्ति नो यथा
सर्वस्य जन्तुजातस्य सर्ववस्त्ववभासने । सर्वदैवैक एवोच्चैर् जयत्य् अभ्यासभास्करः
चतुर्दशविधायास् तु भूतजातेर् न कस्यचित् । सिध्यत्य् अभिमतं वस्तु विनाभ्यासम् अकृत्रिमम्
पौनḫपुण्येन करणम् अभ्यास इति कथ्यते । पुरुषार्थस् स एवेह तेनास्ति न विना गतिः
दृढाभ्यासविधानेन यत्ननाम्ना स्वकर्मणा । निजवेदनजेनैव सिद्धिर् भवति नान्यथा
अभ्यासभास्वति तपत्य् अवनौ वने च वीरस्य सिध्यति न यन् न तद् अस्ति किञ्चित् । अभ्यासतो भुवि भयान्य् अभयीभवन्ति सर्वासु पर्वतगुहास्व् अपि निर्जनासु
ततḫ प्रतीपम् अभ्यासं बोधे धारणयामले । कुर्वḫ प्रकटतां तेन जगद् एष्यति शैलगम्
युक्तियुक्ते तयेत्य् उक्ते विद्याधर्या धरोपरि । बद्धपद्मासनो ऽथाहं समाधाव् उदितो ऽभवम्
सर्वार्थभावनात्यागे चिन्मात्रैकान्तभावितः । अत्यजं तम् अहं पूर्वं कथार्थकलनामलम्
अथ चिद्व्योमतां प्राप्तḫ परां दृष्टिम् अहं गतः । शरत्समयसम्प्राप्तौ व्योम निर्मलताम् इव
ततस् सत्यावधानैकघनाभ्यासेन देहके । ममाधिभौतिकभ्रान्तिर् नूनम् अस्तम् उपागता
उदयास्तमयोन्मुक्ता सततोदयमय्य् अपि । महाचिद्व्योमता स्वच्छा प्रोदितेव तदाभवत्
अथ पश्याम्य् अहं यावत् खस्यैवोपलतेव सा । वस्तुतश् च न चाकाशं नोपलḫ परम् एव तत्
परमार्थघनं स्वच्छं तत् तथाभावि तादृशम् । तथाभावनया स्वात्मा मदीयो दृष्टवांस् तथा
यथा स्वप्ने सुमहती दृष्टा गेहगता शिला । व्योमैव केवलं तद्वत् सा शुद्धं चिन्नभश् शिला
स्वयं स्वप्नान्वितो ऽन्यस्य स्वप्नपुंस्त्वं गतो नरः । स्वप्ने ऽज्ञानप्रबुद्धस्य यादृक् तादृक् स सूपलः
स्वप्नस्थानां शिरश् छिन्नं येषां ते संसृतौ स्थिताः । कालेन ज्ञानलाभेन विना कुर्वन्ति किं किल
बोधẖ कालेन भवति महामोहवताम् अपि । तस्मान् न किञ्चिद् अप्य् अस्ति ब्रह्मतत्त्वाद् ऋते ऽक्षयम्
अतस् तच् चिद्घनं स्वच्छं ब्रह्माकाशं शिलाकृति । दृष्टं मया तथा तत्र न तु पृथ्व्यादि सत् क्वचित्
भूतानाम् आदिसर्गे यच् छुद्धं यत् पारमार्थिकम् । वपुस् तद् एवाद्य तेषां ध्यानलभ्यम् अवस्थितम्
ब्राह्मं वपुर् हि भूतानाम् आत्मीयं यत् पुरातनम् । तद् एवाद्य मनोराज्यं सङ्कल्प इति कथ्यते
स आतिवाहिको देहस् तत् परं परमार्थतः । प्रत्यक्षं प्रथमं तत् तत् तद् आद्यं कचनं चितः
तद् यत् प्रथमम् अध्यक्षं जीवस्य प्रथमं वपुः । मनḫप्रत्यक्षम् इत्य् उक्तं तत् तेनैवाद्य दुर्धिया
योगिप्रत्यक्षम् इत्य् उक्तं मनḫप्रत्यक्षम् इत्य् अपि । तत् स्वम् एव चिता रूपं गतयेवान्यतां मुधा
इदम् अद्यतनं नाम प्रत्यक्षम् असदुत्थितम् । असत्प्रत्यक्षम् एवेति विद्धि प्रत्यक्षम् अङ्ग तत्
अहो नु चित्रा माया यत् प्राक्प्रत्यक्षे परोक्षता । निर्णीतास्मिंस् त्व् अनध्यक्षे प्रत्यक्षकलनादृता
आतिवाहिकदेहित्वं प्रत्यक्षं प्रथमोदितम् । सत्यं सर्वगतं विद्धि मायैव त्व् आधिभौतिकम्