तदा मयोक्ता सा कान्ता क्व भवत्सर्गभूर् इति । क्व चन्द्रार्काग्नितारादि क्व लोकान्तरसप्तकम्
क्वार्णवाकाशककुभẖ क्वोन्मज्जननिमज्जने । क्व महाम्भोदसम्भारẖ क्व ताराम्बरडम्बरम्
क्व शैलशिखरश्रेण्यः क्व महार्णवभूमिकाः । क्व द्वीपावलयस् सप्त क्व तप्तकनकावनिः
क्व कार्यकालकलनाẖ क्व भूतभुवनभ्रमः । क्व विद्याधरगन्धर्वाẖ क्व नरामरदानवाः
क्वर्षिभूपालमुनयẖ क्व नयापनयक्रमः । क्व यामायामयामिन्यẖ क्व स्वर्गनरकभ्रमः
क्व पुण्यपापकलनाẖ क्व कलाकालकेलयः । क्वासुरामरवैराणि क्व द्वेषस्नेहरीतयः
वदत्य् एवं मयि वचस् सोवाच वरवर्णिनी । विस्मयाकुलम् आलोक्य शिलाम् अलिविलोचना
पश्याम्य् अखिलम् आत्मीयम् अहं सर्गम् इहोपले । मकुरप्रतिबिम्बस्थपुरान्यपुरवत् पुरः
नित्यानुभव एवात्र दर्शने कारणं मम । तदभावो मुने मन्ये ते कारणम् अदर्शने
अन्योऽन्यचिरकालैकद्वैतसङ्कथयानया । शुद्धातिवाहिकैकात्म्यदेहता विस्मृतावयोः
ममातिसुचिराभ्यस्तम् अपि श्यामलताम् इव । गतं निजं जगद् इदं यतḫ पश्यामि न स्फुटम्
अभूद् यत् स्वजगत् पूर्वम् अतिप्रकटम् एव मे । तत् पश्यामीदम् आदर्श इव बिम्बितम् अस्फुटम्
चिरव्यर्थोत्थया नाथसङ्कथाव्यथया मिथः । स्वास्थ्यं विस्मृतम् आत्मीयम् अवदाततमं ततम्
यो ऽभ्यासḫ प्रकचत्य् अन्तश् शुद्धचिन्नभसो रसात् । भवेत् तन्मयम् एवान्तर् आबालम् इति लक्ष्यते
न तच् छास्त्रं न सा सिद्धिर् न स न्यायो न सा कला । अस्त्य् अनस्तमितोद्योगाद् यद् अभ्यासान् न सिध्यति
स्वजगत्सन्तताभ्यासवशतो मां कथाभ्रमः । नूनम् आक्रान्तवान् एष द्वयोर् हि बलवाञ् जयी
इष्टवस्त्वर्थिनां तज्ज्ञसूपदिष्टेन कर्मणा । पौनḫपुण्येन करणान् नेतरच् छरणं मुने
अयम् इत्थम् इहाज्ञानभ्रमḫ प्रौढो ऽहमात्मकः । शाम्यति ज्ञानचर्चाभिḫ पश्याभ्यासविजृम्भितम्
अज्ञो ऽपि तज्ज्ञताम् एति शनैश् शैलो ऽपि चूर्ण्यते । घुणो ऽप्य् अत्ति महावृक्षं पश्याभ्यासविजृम्भितम्
अहं शिष्याबला बाला पश्यामि त्वं न पश्यसि । सर्वज्ञो ऽपि शिलासर्गं पश्याभ्यासविजृम्भितम्
इत्थं नाम परिप्रौढा मिथ्याज्ञानविषूचिका । शाम्यत्य् एव विचारेण पश्याभ्यासविजृम्भितम्
अभ्यासेन कटुद्रव्यं भवत्य् अभिमतं मुने । अन्यस्मै रोचते निम्बं त्व् अन्यस्मै मधु रोचते
अबन्धौ घनताम् एति नैकट्याभ्यासयोगतः । यात्य् अनभ्यासतो दूरात् स्नेहो बन्धुषु तानवम्
आतिवाहिकदेहो ऽयं शुद्धचिद्व्योम केवलम् । आधिभौतिकताम् एति भावनाभ्यासयोगतः
आधिभौतिकदेहो ऽसौ धारणाभ्यासभावनात् । विहङ्गवत् खम् अभ्येति पश्याभ्यासविजृम्भितम्
पुण्यानि यान्ति वैफल्यं वैफल्यं यान्ति मातरः । भाग्यानि यान्ति वैफल्यं नाभ्यासस् तु कदाचन
दुस्साधास् सिद्धिम् आयान्ति रिपवो यान्ति मित्रताम् । विषाण्य् अमृततां यान्ति सन्तताभ्यासयोगतः
येनाभ्यासḫ परित्यक्त इष्टे वस्तुनि सो ऽधमः । कदाचिन् न तद् आप्नोति वन्ध्या स्वतनयं यथा
यद् अत्यभिमतं वस्तु स्वभ्यासो न तदर्जनात् । तद्युक्तिपूर्वकं त्याज्य आ मृत्योर् जीवितं यथा
इष्टे वस्तुनि नाभ्यासं यẖ करोति नराधमः । सो ऽनिष्टानिष्टम् आप्नोति नरकान् नरकान्तरम्