मुने यथेदं भवतां जगत् स्फारं विराजते । तथास्माकं जगत् तत्र सर्गसंहारयुक् स्थितम्
यथेहेमास् तथा तत्र त्रैलोक्यस्थितयस् स्थिताः । वहन्ति सरितस् स्फारा निवसन्त्य् अम्बरे ऽमराः
स्फुरन्ति नागाḫ पाताले तिष्ठन्त्य् आत्मनि पर्वताः । आपश् छलच्छलायन्ते वहन्ति व्योम्नि वायवः
अर्णवा अर्णसा भान्ति यान्त्य् अन्तं शनकैḫ प्रजाः । भूतान्य् अजस्रं जायन्ते म्रियन्ते ऽविरतं तथा
वान्ति वाता वहन्त्य् आपो भान्ति चाभान्ति खे सुराः । तिष्ठन्त्य् अगास् समुद्यन्ति ग्रहाḫ पान्ति महीं नृपाः
देवासुरमनुष्याणां व्यवहारपरम्पराः । लोलाḫ प्रवृत्ता आकल्पम् आसमुद्रम् इवापगाः
दिनपद्मानि भूलोकसरस्य् आकल्पम् आनभः । लोलाभ्रालीनि फुल्लानि मीलितोन्मीलितान्य् अलम्
चन्द्रश् चर्चां चतुर्दिक्कं चन्दनेनात्मतेजसा । रचयन् रात्रिरोहिण्योस् तमो हन्त्य् अपि हृद्गतम्
स्वदशास्वादनरता वातयन्त्रप्रचारिता । रोदस्सद्मनि सूर्याख्या दीप्यते दिवि दीपिका
ब्रह्मसङ्कल्पितो ऽरुद्धो वातसञ्चारवारिभिः । खे ऽनिशं चक्रम् ऋक्षाणां घुणावर्तो विवर्तते
भूततण्डुलम् आ सृष्टेḫ पिनष्टि ध्रुवकीलकः । नियत्या चालितो रोदẖकवाटो ऽम्भोदघर्घरः
द्वीपाब्धिशैलैर् भूपीठं विमाननगरैर् नभः । दैत्यदानवनागौघैḫ पूर्णं पातालमण्डलम्
कुण्डलं त्रिजगल्लक्ष्म्या नीलं आकाशमण्डलम् । स्थितं चञ्चलम् आचारचञ्चलायास् स्फुरन्मणि
बुद्ध्यादिरहितां स्पन्दसंविदं वायवीम् इव । स्थावरं जङ्गमं चैव सूक्ष्माम् आदाय जायते
मुनिर् मौनैर् धरा वार्भिर् मारुतैẖ कपिचापलम् । आकाशैर् अवकाशित्वं तेजोभिर् भासनं श्रितम्
वृक्सोर्व्यब्ध्यद्रिखनॄणां प्राणिनो ऽन्तस् स्फुरन्त्य् अलम् । मृतिजन्मोन्मुखाẖ कीटसुरासुरजलौकसः
ससुरासुरगन्धर्वाẖ कालẖ कलयते प्रजाः । दोर्भिẖ कल्पयुगाब्दैश् श्वश् श्वḫ पशून् इव पालकः
अनन्तविपुलागाधगम्भीरे कालसागरे । उत्पत्योत्पत्य लीयन्ते ऋत्वावर्तविवृत्तयः
चतुर्दशविधा वातवेल्लिता भूतपांसवः । नाशाकाशे विलीयन्ते शरदम्भोदलीलया
भुवनं बोधयन्ती द्यौश् चन्द्रार्ककरचामरैः । स्थिताकाशांशुकाकल्पं तारकोत्करशेखरा
स्थिताḫ पवनभूकम्पमेघतापसहिष्णवः । स्वं प्रदेशम् अनुज्झन्त्यẖ ककुभस् स्तम्भिता इव
उत्पातमेघनिर्ह्रादभूमिकम्पग्रहग्रहैः । अज्ञातैर् अपि विज्ञातैर् भूतानां ज्ञायते गतिः
सप्तानां जलम् अब्धीनाम् और्वाग्निḫ पिबति ज्वलन् । लोकान्तराणाम् आकल्पं कालो भूतगणं यथा
पातालम् आविशति याति नभो विलङ्घ्य दिङ्मण्डलं भ्रमति भूतगणस् समन्तात् । पर्येति पर्वतमहार्णवमण्डलानि द्वीपान्तराणि च मरुत्सरणक्रमेण
यावस् तं सर्गम् आगच्छ प्रसादẖ क्रियतां मुने । आश्चर्येषूपपन्नेषु महान्तो ह्य् अतिकौतुकाः
तयेत्य् उक्ते मया सार्धं गन्तुम् आरब्धम् अम्बरे । वात्यया सौरभेणेव शून्ये शून्येन शून्यया
अथाहं दूरम् अध्वानं शून्यम् उल्लङ्घ्य नाभसम् । नाभसं भूतसञ्चारं तया सार्धम् अवाप्तवान्
तम् उल्लङ्घ्य चिरेणात्र भूतसञ्चारम् आम्बरम् । लोकालोकशिरोव्योम प्राप्तो ऽस्मि धवलाम्बुदम्
उत्तराशेन्दुशुभ्राभ्रपीठान् निर्गत्य तां शिलाम् । आनीतो ऽस्मि तयोत्तुङ्गां तप्तकाञ्चनकल्पिताम्
यावत् पश्याम्य् अहं शुभ्रां शिलाम् एव न तज्जगत् । कलधौतमयीम् उच्चैर् अग्निलोकतटीम् इव