सर्व एव जगद्भावा यथेच्छं गुणलेशतः । सन्त्यज्यन्ते ऽन्यम् आदातुं वर्जयित्वा पतिं स्त्रिया
स्थिरयौवनया दुẖखान्य् एतानि मुनिनायक । भुक्तानि वर्षवृन्दानि पश्य दौर्भाग्यजृम्भितम्
अथ क्रमेण तेनैव स रागो मे विरागताम् । आययौ हिमदग्धाया नलिन्या इव नीरसः
विरागवासनापास्तसर्वभावानुरञ्जना । तवोपदेशेनेच्छामि मुने निर्वाणम् आत्मनः
अप्राप्ताभिमतार्थानाम् अविश्रान्तधियां परे । मरणैर् उह्यमानानां जीवितान् मरणं वरम्
स मद्भर्ताद्य निर्वाणम् ईहमानो दिवानिशम् । राजा राज्ञेव मनसा मनो जेतुं प्रबुध्यते
ब्रह्मंस् तत् तस्य मद्भर्तुर् मम चाज्ञानशान्तये । न्यायोपपन्नया वाचा कुरु स्मारणम् आत्मनः
यदा माम् अनपेक्ष्यैव स मद्भर्तात्मनि स्थितः । तदा विरागवैरस्यम् अनयन् मे जगत्स्थितिम्
संसारवासनावेशवर्जितास्मि ततो ऽवशम् । निबध्याभिमतां तीव्रां व्योमसञ्चारधारणाम्
अर्जयित्वा तया व्योम्नि गतिं धारणया मया । अभ्यस्ता धारणा भूयस् सिद्धसङ्गफलप्रदा
ततस् स्वजगदाकाशपूर्वापरनिरीक्षया । स्थिताहं धारणां बद्ध्वा सापि मे सिद्धिम् आगता
अथ स्वजगतो दृष्ट्वा हृदयं तस्य बाह्यगा । अहं दृष्टवती स्थूलां लोकालोकशिरश्शिलाम्
एतावतापि कालेन दम्पत्योर् आवयोर् मुने । परं द्रष्टुम् अभूद् इच्छा न काचन कदाचन
मद्भर्ता केवलं शुद्धवेदार्थैकान्तचिन्तया । न च यातं न चायातं वेत्त्य् अहो विगतैषणः
तेनासौ मत्पतिर् विद्वान् अपि न प्राप्तवान् परम् । अद्य सो ऽहं च वाञ्छावḫ प्रयत्नेन परं पदम्
तद् एताम् अर्थितां ब्रह्मन् सफलीकर्तुम् अर्हसि । महताम् अर्थिनो व्यर्था न कदाचन केचन
भ्रमन्ती सिद्धसेनासु सदा नभसि मानद । त्वद् ऋते नेह पश्यामि घनाज्ञानबलानलम्
ब्रह्मन् विनैव करुणाकर कारणेन सन्तो यतो ऽर्थिजनवाञ्छितपूरणानि । कुर्वन्ति तेन शरणागतताम् उपेतां माम् अर्हसीह न तिरस्करणेन योक्तुम्
अथेत्य् उक्तवती पृष्टा सा मया कल्पितासना । सङ्कल्पितासनेनाशु स्थितेन नभसि स्थिता
कथं शिलोदरे बाले त्वद्विधानां भवेत् स्थितिः । कथं सञ्चलनं तत्र किमर्थं तत्र वास्पदम्
मुने यथेदं भवतां जगत् स्फारं विराजते । तथास्माकं जगत् तत्र सर्गसंहारयुक् स्थितम्
यथेहेमास् तथा तत्र त्रैलोक्यस्थितयस् स्थिताः । वहन्ति सरितस् स्फारा निवसन्त्य् अम्बरे ऽमराः
स्फुरन्ति नागाḫ पाताले तिष्ठन्त्य् आत्मनि पर्वताः । आपश् छलच्छलायन्ते वहन्ति व्योम्नि वायवः
अर्णवा अर्णसा भान्ति यान्त्य् अन्तं शनकैḫ प्रजाः । भूतान्य् अजस्रं जायन्ते म्रियन्ते ऽविरतं तथा
वान्ति वाता वहन्त्य् आपो भान्ति चाभान्ति खे सुराः । तिष्ठन्त्य् अगास् समुद्यन्ति ग्रहाḫ पान्ति महीं नृपाः
देवासुरमनुष्याणां व्यवहारपरम्पराः । लोलाḫ प्रवृत्ता आकल्पम् आसमुद्रम् इवापगाः
दिनपद्मानि भूलोकसरस्य् आकल्पम् आनभः । लोलाभ्रालीनि फुल्लानि मीलितोन्मीलितान्य् अलम्
चन्द्रश् चर्चां चतुर्दिक्कं चन्दनेनात्मतेजसा । रचयन् रात्रिरोहिण्योस् तमो हन्त्य् अपि हृद्गतम्
स्वदशास्वादनरता वातयन्त्रप्रचारिता । रोदस्सद्मनि सूर्याख्या दीप्यते दिवि दीपिका
ब्रह्मसङ्कल्पितो ऽरुद्धो वातसञ्चारवारिभिः । खे ऽनिशं चक्रम् ऋक्षाणां घुणावर्तो विवर्तते