उद्यानावलयस् सर्वाḫ पूर्णाẖ कुसुमवर्षणैः । सम्पन्नास् तप्तसिकताश् शून्या मे मरुभूमयः
जललोलोरुकल्हारकमलोत्करकोमलाः । सरस्यस् सारसारावसरसा मम नीरसाः
अहं पुष्करमन्दारकुमुदोत्करमालिता । भृशं दाहम् अवाप्नोमि कण्टकेष्व् इव दोलिता
कुमुदोत्पलकल्हारकदलीतल्पपालयः । मदङ्गसङ्गमाद् ग्रीष्ममर्मरा यान्ति भस्मताम्
यत् कान्तम् उदितं स्वादु विचित्रं चित्तहारि वा । तद् आलोक्य भवाम्य् अन्तर्बाष्पपूर्णायतेक्षणा
व्यसनानलसन्तप्ताḫ पतन्तो बाष्पबिन्दवः । छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु
कदलीकन्दलीस्कन्धदोलान्दोलनलीलया । ललितोद्यानषण्डेषु मुखम् आच्छाद्य रोदिमि
तुषारनिकराकीर्णं कदलीदलमण्डपम् । पश्याम्य् ऊष्माणम् उज्झन्तं खदिराङ्गारभीषणम्
नलिनीनालदोलासु सारसीं सारसाश्रिताम् । दीनानना विलोक्यान्तर् निन्दामि निजयौवनम्
रम्ये रोदिमि मध्यस्थे पदार्थे यामि सोम्यताम् । हृष्याम्य् अशोभने दीना न जाने किम् अहं स्थिता
दृष्टानि कुन्दमन्दारकुमुदानि हिमानि च । मया कामाग्निदग्धानां भस्मानीव दिशḫ प्रति
आनीलपल्लवमृणाललतोत्पलानां कल्हारकुन्दकदलीदलमालतीनाम् । शय्या ममाङ्गवलनेन विशोषयन्त्या व्यर्थं गतानि नवयौवनवासराणि
अथ कालेन महता सो ऽनुरागो विरागताम् । प्राप्तो मम शरच्छान्तौ विरसḫ पल्लवो यथा
वृद्ध एकान्तरसिको नीरसस् स्नेहवर्जितः । भर्ताजिह्ममतिर् मौनी किम् अन्यज् जीवितेन मे
वरं वैधव्यम् आ बाल्याद् वरं मरणम् एव वा । वरं व्याधिर् अथापद् वा नाहृद्यप्रकृतिḫ पतिः
एतावज् जन्मसाफल्यं सौभाग्यम् अविखण्डितम् । रसिकḫ पेशलाचारो यन् नार्यास् तरुणḫ पतिः
हता नीरसनाथा स्त्री हतासंस्कारिणी च धीः । हता दुर्जनभुक्ता श्रीर् हता वेश्या हृता ह्रिया
सा स्त्री यानुगता भर्त्रा सा श्रीर् यानुगता सता । सा तुर्या मदनोदारा सा धीर् या समदृष्टिता
नाधयो व्याधयो नैव नापदो न दुरीतयः । कुर्वन्ति मनसो बाधां दम्पत्योर् अनुरक्तयोः
उत्फुल्लाẖ कुसुमस्थल्यो नन्दनोद्यानभूमयः । धन्वायन्ते कुनाथानां विनाथानां च योषिताम्
सर्व एव जगद्भावा यथेच्छं गुणलेशतः । सन्त्यज्यन्ते ऽन्यम् आदातुं वर्जयित्वा पतिं स्त्रिया
स्थिरयौवनया दुẖखान्य् एतानि मुनिनायक । भुक्तानि वर्षवृन्दानि पश्य दौर्भाग्यजृम्भितम्
अथ क्रमेण तेनैव स रागो मे विरागताम् । आययौ हिमदग्धाया नलिन्या इव नीरसः
विरागवासनापास्तसर्वभावानुरञ्जना । तवोपदेशेनेच्छामि मुने निर्वाणम् आत्मनः
अप्राप्ताभिमतार्थानाम् अविश्रान्तधियां परे । मरणैर् उह्यमानानां जीवितान् मरणं वरम्
स मद्भर्ताद्य निर्वाणम् ईहमानो दिवानिशम् । राजा राज्ञेव मनसा मनो जेतुं प्रबुध्यते
ब्रह्मंस् तत् तस्य मद्भर्तुर् मम चाज्ञानशान्तये । न्यायोपपन्नया वाचा कुरु स्मारणम् आत्मनः
यदा माम् अनपेक्ष्यैव स मद्भर्तात्मनि स्थितः । तदा विरागवैरस्यम् अनयन् मे जगत्स्थितिम्
संसारवासनावेशवर्जितास्मि ततो ऽवशम् । निबध्याभिमतां तीव्रां व्योमसञ्चारधारणाम्
अर्जयित्वा तया व्योम्नि गतिं धारणया मया । अभ्यस्ता धारणा भूयस् सिद्धसङ्गफलप्रदा