पाषाणसङ्कटे तस्मिन् बद्धाव् आवां न केवलम् । बद्धो यावद् अशेषेण परिवारो ऽपि तत्र नः
पुराणḫ पुरुषो वृद्धो द्विजस् तत्रास्ति मे पतिः । एकस्थानान् न चलति जीवत्य् अब्दशतान्य् असौ
आ बाल्याद् ब्रह्मचारी च श्रोत्रियḫ पाठको ऽलसः । एकान्त एक एवास्ते ऽजिह्मवृत्तिर् अचापलः
अहं व्यसनिनी भार्या तस्य वेद्यविदां वर । न निमेषं समर्थास्मि तं विना देहधारणे
शृणु तेन कथं ब्रह्मन् भार्याहं समुपार्जिता । कथं वृद्धिम् अयं यातस् स्नेहो ऽस्माकम् अकृत्रिमः
तेन जातेन मद्भर्त्रा बालेनैव सता पुरा । किञ्चिज्ज्ञेन सतैकेन तिष्ठतात्मालये ऽमले
श्रोत्रियत्वानुरूपेह जाया मे जन्मशालिनी । कुतस् सम्भवतीत्य् एव निर्णीय चिरचिन्तया
स्वयम् एवानवद्याङ्गी तेन तामरसेक्षणा । उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनामला
मनसा मानसी भार्या मन्दारोदरसुन्दरी । ततो वृद्धिं प्रयातास्मि वसन्त इव मञ्जरी
सहजाम्बरसञ्छन्ना भूतानां चित्तहारिणी । पूर्णेन्दुबिम्बवदना द्यौर् इवामलतारका
कोरकोच्चस्तनभरा समग्ररसशालिनी । लता वरवने नेव करपल्लवलासिनी
सर्वस्य जन्तुजातस्य नित्यं हृदयहारिणी । हरिणीहारिनयना मदनोन्माददायिनी
लीलाविलासैकरता हेलावलितलोचना । गेयवाद्यप्रिया नित्यं नवनृत्तानुरागिणी
सौभाग्यभोगपरमा लक्ष्म्यलक्ष्म्योḫ प्रिया सखी । अनन्या मोहजालानाम् अखिन्ना सम्पदापदोः
न केवलम् अहं गेहं धारयामि द्विजन्मनः । यावत् त्रैलोक्यसदनम् इदम् अङ्ग बिभर्म्य् अहम्
अहं कुलकरी भार्या कलत्रभरणक्षमा । त्रैलोक्यगृहसम्भारधारणैकभरोद्वहा
अथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनी । लतोल्लसद्गुलुच्छेव विलासरसशालिनी
पतिर् मां दीर्घसूत्रत्वाच् छ्रोत्रियत्वात् तपोरतः । कयाप्य् अपेक्षयाद्यापि न विवाहितवान् इमाम्
तेन यौवनसम्पन्ना विलासरसशालिनी । तं विना व्यसनेनाहं दह्ये ऽग्नाव् इव पद्मिनी
शीतलानिललोलासु नलिनीषु निरन्तरम् । अङ्गदाहम् अवाप्नोमि पूताङ्गारस्थलीष्व् इव
उद्यानावलयस् सर्वाḫ पूर्णाẖ कुसुमवर्षणैः । सम्पन्नास् तप्तसिकताश् शून्या मे मरुभूमयः
जललोलोरुकल्हारकमलोत्करकोमलाः । सरस्यस् सारसारावसरसा मम नीरसाः
अहं पुष्करमन्दारकुमुदोत्करमालिता । भृशं दाहम् अवाप्नोमि कण्टकेष्व् इव दोलिता
कुमुदोत्पलकल्हारकदलीतल्पपालयः । मदङ्गसङ्गमाद् ग्रीष्ममर्मरा यान्ति भस्मताम्
यत् कान्तम् उदितं स्वादु विचित्रं चित्तहारि वा । तद् आलोक्य भवाम्य् अन्तर्बाष्पपूर्णायतेक्षणा
व्यसनानलसन्तप्ताḫ पतन्तो बाष्पबिन्दवः । छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु
कदलीकन्दलीस्कन्धदोलान्दोलनलीलया । ललितोद्यानषण्डेषु मुखम् आच्छाद्य रोदिमि
तुषारनिकराकीर्णं कदलीदलमण्डपम् । पश्याम्य् ऊष्माणम् उज्झन्तं खदिराङ्गारभीषणम्
नलिनीनालदोलासु सारसीं सारसाश्रिताम् । दीनानना विलोक्यान्तर् निन्दामि निजयौवनम्
रम्ये रोदिमि मध्यस्थे पदार्थे यामि सोम्यताम् । हृष्याम्य् अशोभने दीना न जाने किम् अहं स्थिता