अजम् अजरम् अजाड्यं शाश्वतं ब्रह्म नित्यं शिवम् अमलम् अनाद्यं वन्ध्यवेद्यैर् अनिन्द्यम् । सकलकलनशून्यं कारणं कारणानाम् अनुभवनम् अवेद्यं वेदनं वित्त्वम् अन्तः
महाप्रलयसम्पत्तौ यद् एतद् अवशिष्यते । भवत्व् एतद् अनाकारं नाम नास्त्य् अत्र संशयः
न शून्यं कथम् एतत् स्यान् न प्रकाशः कथं भवेत् । कथं वा न तमोरूपं कथं वा नैव खात्मकम्
कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् । कथं न बुद्धितत्त्वं स्यात् कथं वा न मनो भवेत्
कथं वा न नकिञ्चित् स्यात् कथं वा सर्वम् इत्य् अपि । अनया च वचोभङ्ग्या मम मोह इवोदितः
विषमो ऽयम् अति प्रश्नो भवता समुदाहृतः । भिनद्म्य् एनं त्व् अयत्नेन नैशं तम इवांशुमान्
महाकल्पान्तसम्पत्तौ यत् तत् सद् अवशिष्यते । तन् नाम न यथा शून्यं तद् इदं कथ्यते शृणु
अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका । तथा विश्वं स्थितं तत्र तेन शून्यं न तत् पदम्
अयम् इत्थं महाभोगो जगदाख्यो ऽवभासते । सत्यो भवत्व् असत्यो वा यत्र तत्र क्व शून्यता
यथा न पुत्रिकाशून्यस् स्तम्भो ऽनुत्कीर्णसालिकः । तथा तात जगद् ब्रह्म तेन शून्यं न तत् पदम्
सौम्याम्भसि यथा वीचिर् न चास्ति न च नास्ति च । तथा जगद् ब्रह्मणीदं शून्याशून्यपदं गतम्
देशकालादिशान्तत्वात् पुत्रिकारचनं द्रुमे । सम्भवत्य् अजधातौ तु केन नान्तर् विमुह्यते
तत् स्तम्भपुत्रिकाद्य् एतत् परमार्थजगत्स्थितेः । एकदेशेन सदृशम् उपमानं न सर्वतः
न कदाचिद् उदेतीदं परस्मान् न च शाम्यति । इत्थंरूपं केवलं सद् ब्रह्म स्वात्मनि संस्थितम्
अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना । अशून्यत्वासम्भवतश् शून्यताशून्यते कुतः
ब्रह्मण्य् अयं प्रकाशो हि न सम्भवति भूतजः । सूर्यानलेन्दुतारादि कुतस् तत्र किलाव्यये
महाभूतप्रकाशानाम् अभावस् तम उच्यते । महाभूताभावजं तु तेनात्र न तमः क्वचित्
स्वानुभूतिप्रकाशो ऽस्य केवलं व्योमरूपिणः । यो ऽन्तर् अस्ति स तेनैव न त्व् अन्येनानुभूयते
मुक्तं तमःप्रकाशाभ्याम् इत्य् एतद् अजरं पदम् । आकाशकोशम् एवैनं विद्धि कोशं जगत्स्थितेः
बिल्वस्य बिल्वसञ्ज्ञस्य यथा भेदो न कश्चन । तथेह ब्रह्मजगतोर् न मनाग् अपि भिन्नता
सलिले ऽन्तर् यथा वीचिर् मृदो ऽन्तर् घटको यथा । तथा यत्र जगत्सत्ता तत् कथं खात्मकं भवेत्
मृज्जलाद्युपमानश्रीस् साकारात्रा समा न सा । ब्रह्म त्व् आकाशविशदं तस्यान्तस्स्थं तथैव तत्
तस्माद् यादृक् चिदाकाशम् आकाशाद् अपि निर्मलम् । तदन्तस्स्थं तादृग् एव जगच्छब्दार्थभाग् अपि
मरिचे ऽन्तर् यथा तैक्ष्ण्यम् ऋते भोक्तुर् न लक्ष्यते । चिन्मात्रत्वं पराकाशे तथा चेत्यकलां विना
तस्माच् चिद् अप्य् अचिद्रूपा चेत्यरिक्ततयात्मनि । जगत्ता तादृश्य् एवेयं तादृङ्मात्रात्मतावशा
रूपालोकमनस्कारास् तन्मया एव नेतरत् । यथास्थितम् अतो विश्वं सुषुप्तं तुर्यम् एव वा
तेन योगी सुषुप्तात्मा व्यवहार्य् अपि शान्तधीः । आस्ते ब्रह्म निराभासं सर्वभासां समुद्गकम्
आकारिणि यथा सौम्ये स्थितस् तोये द्रवक्रमः । अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे
पूर्णात् पूर्णं प्रसरति निराकारान् निराकृति । ब्रह्मणो विश्वम् आभातं तद् विश्वार्थविवर्जितम्
पूर्णात् पूर्णं प्रसरति संस्थितं पूर्णम् एव तत् । अतो विश्वम् अनुत्पन्नं यच् चोत्पन्नं तद् एव तत्