साप्सरोऽमरसिद्धानां लीलाविहरणावनिः । सङ्कल्पमात्रसम्पन्नसर्वसम्भोगसुन्दरी
अन्ते तस्या भुवश् शैलो लोकालोको ऽस्ति विश्रुतः । भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत्
क्वचिन् नित्यं तमोव्याप्तो मूढबुद्धेर् इवाशयः । क्वचिन् नित्यं प्रकाशात्मा मनस् सत्त्ववताम् इव
क्वचिद् आह्लादजनकस् साधूनाम् इव सङ्गमः । क्वचिद् उद्वेगजनको मूर्खैर् इव समागमः
क्वचित् प्रकटसर्वार्थो मनो मतिमताम् इव । क्वचिद् अत्यन्तगहनो मूर्खश्रोत्रियचित्तवत्
क्वचिद् अप्राप्तसूर्यांशुः क्वचित् सम्प्राप्तसूर्यभाः । क्वचिल् लोकमयस् तेन क्वचिद् आशून्यदिक्तटः
क्वचिद् देवपुरव्याप्तẖ क्वचिद् दैत्यपुरान्वितः । क्वचित् पातालगहनẖ क्वचिच् छृङ्गोर्ध्वकन्दरः
क्वचिच् छ्वभ्रभ्रमद्गृध्रẖ क्वचित् सानुमनोहरः । क्वचिच् छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः
क्वचिच् छून्यमहारण्यवहत्कल्पान्तमारुतः । क्वचित् पुष्पवनोद्यानगायद्विद्याधरीगणः
क्वचित् पातालगम्भीरगुहाकुम्भाण्डभीषणः । क्वचिन् नन्दनसौन्दर्यमुन्याश्रममनोहरः
क्वचिद् अक्षयमत्ताभ्रẖ क्वचिद् दुर्लभवारिदः । क्वचिद् गर्भगुहाश्वभ्रगहनोपान्तमण्डलः
क्वचित् क्षुद्रजनाक्षेपसमुत्सादितभूतभूः । क्वचिद् वास्तव्यजनतासौन्दर्यजितविष्टपः
क्वचिन् नित्यं वहद्वाताज्ञातस्थावरजङ्गमः । क्वचिन् महामरुमरुन्मत्तभाङ्कारभीषणः
क्वचित् क्वणत्कमलिनीमत्तसारसभूषणः । क्वचित् सलिलकल्लोलजलदोल्लासघर्घरः
क्वचिन् मत्ताप्सरोदोलाविलासजनितस्मरः । क्वचित् पिशाचकुम्भाण्डचेष्टिताविष्टदिक्तटः
क्वचिद् विद्याधरीसिद्धगीतनृत्तलसत्तटः । क्वचिद् उद्वर्षदम्भोदसरिद्वाहलुठत्तटः
क्वचित् सततगानीतनीतनानाभ्रसत्पटः । क्वचित् कमलिनीकोशचक्रस्थध्यानिमण्डलः
क्वचित् सर्वाङ्गनासिद्धसुन्दरीदत्तमण्डनः । क्वचित् तपद्दिनकरजनिताचारसुन्दरः
क्वचिन् नैशतमोगेहनृत्तोन्मत्तनिशाचरः । क्वचिद् उत्पतदुत्पाततया नश्यज्जनावनिः
क्वचित् सौराज्यसम्पत्त्या प्रोद्भवत्पुरमण्डलः । क्वचिद् अत्यन्तनिश्शून्यẖ क्वचिज् जनपदावृतः
क्वचिच् छुभ्राभ्रगम्भीरẖ क्वचित् पातालभीषणः । क्वचिद् बृहत्कल्पतरुẖ क्वचिन् निर्जलजङ्गलः
क्वचिन् महाकरिकुलः क्वचिन् मत्तहरिव्रजः । क्वचिन् निर्भूतसूद्यानẖ क्वचिद् उन्मत्तराक्षसः
क्वचित् करञ्जगहनẖ क्वचित् सर्वर्तुकाननः । क्वचिद् व्योमोपमसराẖ क्वचिद् दीर्घमरुस्थलः
शिखरेषु शिलास् तस्य सामान्याचलसन्निभाः । सन्ति सुस्थितकल्पाभ्रा रत्नमय्यो ऽम्बरामलाः
क्षीरोदजार्कगौरीणां वातस्कन्धौकसाम् अपि । विश्राम्यन्त्य् अनिशं यासु हरयो हारियोनयः
तासाम् उत्तरदिग्भागे पूर्वशृङ्गशिलोदरे । निवसाम्य् अहम् अक्षीणवज्रसारसमत्वचि
विधिना तत्र बद्धास्मि नद्धास्म्य् उपलयन्त्रकैः । अत्रासङ्ख्या मुने याता मन्ये युगगणा मम
न केवलम् अहं बद्धा यावद् भर्तापि तत्र मे । बद्धस् सायन्तने पद्मकुट्मले षट्पदो यथा
तेन सार्धं मया भर्त्रा शिलाकोटरसङ्कटम् । अनुभूतं चिरं कालम् अत्र वर्षगणा गताः
अद्याप्य् आत्मैकदोषेण न हि मोक्षं लभावहे । चिरं तत्रैव तिष्ठावस् तथैवाबद्धभावनौ