ते स्वप्नपुरुषास् तेषां सत्या एवानुभूतितः । आत्मनो ऽपि परस्यापि सर्वगत्वाच् चिदात्मनः
यथा ते स्वप्नपुरुषास् सत्यम् आत्मन्य् अथापरे । तवापि स्वप्नपुरुषास् सत्यम् एव तथैव ते
स्वस्वप्नपुरपौरा ये त्वया दृष्टास् तथैव ते । स्थितास् तत्र तथाद्यापि ब्रह्म सर्वात्मकं यतः
प्रबोधे ऽपि हि विद्यन्ते स्वप्नभावा यथास्थिति । तया स्थित्यानुभूयन्ते परं ब्रह्मतयाथवा
सर्वं सर्वात्म सर्वत्र सर्वदास्ति तथा परे । यथा नकिञ्चिद् आकाशं न क्वचिन् न च हन्यते
निरन्ते परमाकाशे निरन्ते वेदनोदये । निरन्ते चित्तसङ्घाते निरन्तो जगतां गणः
प्रत्य् आकाशकलाकोशं प्रति संसारमण्डलम् । प्रति लोकान्तरागारं प्रति द्वीपं गिरिं प्रति
प्रति मण्डलविस्तारं प्रति ग्रामं पुरं प्रति । प्रति जन्तुं प्रति गृहं प्रति वर्षं युगं प्रति
यावन्तो ये मृताẖ केचिज् जीवा मोक्षविवर्जिताः । स्थितास् ते तत्र तावन्तस् संसाराḫ पृथग् अक्षयाः
तेषाम् अन्तर् जनास् सन्ति जनं प्रति पुनर् जनाः । पुनर् जनं प्रति जगज् जगत् प्रति पुनर् जनाः
एवम् आद्यन्तरहित एष दृश्यभ्रमो भ्रमः । ब्रह्मैव ब्रह्मवित्पक्षे नात्रेयत्तास्ति काचन
कुड्ये नभस्य् उपलके सलिले स्थले ऽन्तश् चिन्मात्रम् अस्ति हि यतस् तद् अशेषविश्वम् । तद् यत्र तत्र जगद् अस्ति कुतो ऽत्र सङ्ख्या तज्ज्ञेषु तत् परम् अथाज्ञमनस्सु दृश्यम्
ततẖ कुवलयोल्लासिमालती सालिलोचना । ललना ललितालोक्य लीलया लपिता मया
का त्वं कमलपत्त्राभे किमर्थं माम् उपागता । कस्यासि किं प्रार्थयसे क्वागतासि किमास्पदा
मुने शृणु यथावत् त्वम् आत्मोदन्तं वदाम्य् अहम् । प्रष्टुम् अर्हसि विस्रब्धम् आर्तां करुणयार्थिनीम्
परमाकाशकोशस्य कस्मिंश्चित् कोणकोटरे । युष्माकं संस्थितं किञ्चिद् इदं तावज् जगद्गृहम्
पातालभूतलस्वर्गा इहाववरकास् त्रयः । कल्पनैककुमार्यान्तẖ कृता धातृत्वम् आप्तया
तत्र द्वीपैस् समुद्रैश् च वलितं वलयैर् इव । पातालोत्थं जगल्लक्ष्म्याḫ प्रकोष्ठम् इव भूतलम्
अन्ते द्वीपसमुद्राणां सर्वदिक्कम् अवस्थिता । योजनानां सहस्राणि दश हेममयी मही
स्वयम्प्रकाशा सङ्कल्पफलदाम्बरनिर्मला । चिन्तामणिमयी स्वच्छा स्वच्छायाजितविष्टपा
साप्सरोऽमरसिद्धानां लीलाविहरणावनिः । सङ्कल्पमात्रसम्पन्नसर्वसम्भोगसुन्दरी
अन्ते तस्या भुवश् शैलो लोकालोको ऽस्ति विश्रुतः । भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत्
क्वचिन् नित्यं तमोव्याप्तो मूढबुद्धेर् इवाशयः । क्वचिन् नित्यं प्रकाशात्मा मनस् सत्त्ववताम् इव
क्वचिद् आह्लादजनकस् साधूनाम् इव सङ्गमः । क्वचिद् उद्वेगजनको मूर्खैर् इव समागमः
क्वचित् प्रकटसर्वार्थो मनो मतिमताम् इव । क्वचिद् अत्यन्तगहनो मूर्खश्रोत्रियचित्तवत्
क्वचिद् अप्राप्तसूर्यांशुः क्वचित् सम्प्राप्तसूर्यभाः । क्वचिल् लोकमयस् तेन क्वचिद् आशून्यदिक्तटः
क्वचिद् देवपुरव्याप्तẖ क्वचिद् दैत्यपुरान्वितः । क्वचित् पातालगहनẖ क्वचिच् छृङ्गोर्ध्वकन्दरः
क्वचिच् छ्वभ्रभ्रमद्गृध्रẖ क्वचित् सानुमनोहरः । क्वचिच् छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः
क्वचिच् छून्यमहारण्यवहत्कल्पान्तमारुतः । क्वचित् पुष्पवनोद्यानगायद्विद्याधरीगणः
क्वचित् पातालगम्भीरगुहाकुम्भाण्डभीषणः । क्वचिन् नन्दनसौन्दर्यमुन्याश्रममनोहरः