स्वप्नेषु खशरीराणां वर्णाẖ कचटतादयः । कदाचनापि नोद्यन्ति शवानाम् इव केचन
वर्णोच्चारो ऽभविष्यच् चेत् प्रकटार्थस् ततẖ क्वचित् । स्वप्नेष्व् अन्वभविष्यत् तं विनिद्रḫ पार्श्वगो जनः
तस्मान् न किञ्चित् स्वप्नेषु तत् सत्यं भ्रान्तिर् एव सा । चिन्मात्राकाशकचनं तथा तत् खे स्वभावजम्
यथेन्दुकार्ष्ण्यखतरुशिलागेयादितां गतः । इवाभाति चिदाकाशस् तथा यरलवादितां
तच् चिदाकाशकचनं यन् नाम स्वप्नवेदनम् । आकाशम् एव नभसẖ कचनं विद्धि नेतरत्
यथा स्वप्नस् तथैवेदं जाग्रद् अग्रे व्यवस्थितम् । आकाशम् अप्य् अनाकाशं यथैवेदं तथैव तत्
तथा कचति तच् चारु चेतनं चतुरं तदा । यथा स्थितं तद् एवेदं सत्यं स्थिरम् इव स्फुरत्
भगवन् स्वप्न एवेदं कथं जाग्रद् अवस्थितम् । असत्यम् एव सत्यत्वम् इव यातं कथं वद
शृणु स्वप्नमयान्य् एव कथं सन्ति जगन्त्य् अलम् । नान्यानि न च सत्यानि न स्थिराणि स्थितानि च
अनुभूतानि बीजानि बीजराशाव् इवाम्बरे । अन्यान्य् अन्यानि तान्य् एव समानि न समानि च
प्रत्येकम् अन्तर् अन्यानि तथैवाभ्युदितानि च । परस्परम् अदृष्टानि बहूनि विविधानि च
अन्योऽन्यं तानि सर्वाणि न पश्यन्त्य् एव किञ्चन । जडानीवैकराशीनि बीजानीव लगन्त्य् अपि
व्योमात्मकत्वाल् लगनं न विदन्ति परस्परम् । अपि चेतनरूपाणि सुप्तानीव निरन्तरम्
सुप्तास् स्वप्नजगज्जालस्वाचारव्यवहारिणः । असुरा निहता देवैस् ते स्वप्नजगति स्थिताः
अज्ञानान् न गता मुक्तिं नाजाड्याज् जडताम् इताः । न देहवन्तẖ किं सन्तु विना स्वप्नजगत्स्थितेः
सुप्तास् स्वप्नजगज्जालस्वाचारव्यवहारिणः । पुरुषा निहताḫ पुंभिस् ते तथैव व्यवस्थिताः
एवं ये निहता राम किं ते कुर्वन्तु कथ्यताम् । अज्ञत्वान् न गता मुक्तिं चेतनान् न दृषत्स्थिताः
साद्रिद्यूर्वीजनं दृश्यम् इदं सर्वं यथास्थितम् । चिरायानुभवन्त्य् एते यथेमे वयम् आदृताः
तेषां कल्पजगत्संस्था यथास्माकं तथैव ताः । अस्माकं जागती संस्था यथा तेषां तथैव च
ये तेषां स्वप्नपुरुषास् त एवेमे वयं स्थिताः । ये च ते राम संसारास् तेभ्य एकम् इमं विदुः
ते स्वप्नपुरुषास् तेषां सत्या एवानुभूतितः । आत्मनो ऽपि परस्यापि सर्वगत्वाच् चिदात्मनः
यथा ते स्वप्नपुरुषास् सत्यम् आत्मन्य् अथापरे । तवापि स्वप्नपुरुषास् सत्यम् एव तथैव ते
स्वस्वप्नपुरपौरा ये त्वया दृष्टास् तथैव ते । स्थितास् तत्र तथाद्यापि ब्रह्म सर्वात्मकं यतः
प्रबोधे ऽपि हि विद्यन्ते स्वप्नभावा यथास्थिति । तया स्थित्यानुभूयन्ते परं ब्रह्मतयाथवा
सर्वं सर्वात्म सर्वत्र सर्वदास्ति तथा परे । यथा नकिञ्चिद् आकाशं न क्वचिन् न च हन्यते
निरन्ते परमाकाशे निरन्ते वेदनोदये । निरन्ते चित्तसङ्घाते निरन्तो जगतां गणः
प्रत्य् आकाशकलाकोशं प्रति संसारमण्डलम् । प्रति लोकान्तरागारं प्रति द्वीपं गिरिं प्रति
प्रति मण्डलविस्तारं प्रति ग्रामं पुरं प्रति । प्रति जन्तुं प्रति गृहं प्रति वर्षं युगं प्रति
यावन्तो ये मृताẖ केचिज् जीवा मोक्षविवर्जिताः । स्थितास् ते तत्र तावन्तस् संसाराḫ पृथग् अक्षयाः
तेषाम् अन्तर् जनास् सन्ति जनं प्रति पुनर् जनाः । पुनर् जनं प्रति जगज् जगत् प्रति पुनर् जनाः