यथाहम् आकाशवपुस् तथैवासौ खरूपिणी । तेन दृष्टा न सा पूर्वदेहेन ललना मया
अहम् आकाशरूपात्मा सा खमात्रशरीरिणी । जगज्जालं खमात्रं तद् इति तत्र तदा स्थितम्
शरीरस्थानकरणप्रयत्नप्राणसम्भवैः । यद् उदेति वचो वर्णैस् तत् कुतस् तादृशाकृतेः
रूपालोकमनस्काराẖ कुतो व्योमात्मनाम् इति । ब्रूहि मे भगवंस् तत्र तथावृत्तस्य निश्चयम्
रूपालोकमनस्काराश् शब्दपाठवचांसि च । यथा स्वप्ने नभस्य् एव सन्ति तत्र तथाम्बरे
रूपालोकमनस्कारैस् स्वप्ने चिन्नभ एव ते । यथोदेति तथा तत्र तद् दृश्यं खात्मकं स्थितम्
न केवलं तु तद् दृश्यं यावत् त्वद्विषये वयम् । जगच् चेदं खम् एवाच्छं यथा तन् नस् तथाखिलम्
परमार्थमहाधातुर् वेद्यनिर्मुक्तचिद्वपुः । एवं नाम स्वयं भाति स्वभावस्यैष निश्चयः
शरीरस्थानकरणसत्तायां का तव प्रमा । यथैव तेषां देहादि तथास्माकम् इदं स्थितम्
यथैव तत् तथैवेदं यथैवेदं तथैव तत् । असत् सत्ताम् इव गतं सच् चासद् इव च स्थितम्
यथा स्वप्ने धराब्ध्यद्रिप्रजाव्यवहृतिर् नभः । तदाद्य चाहं त्वं सा च तद् इदं च तथा नभः
यथा स्वप्ने नृभिर् युद्धकोलाहलगमागमाः । असन्तो ऽप्य् अनुभूयन्ते संसारनिकरास् तथा
वक्षि चेत् स्वप्नदृश्या श्रीẖ कस्मात् तद् असमञ्जसम् । अवाच्यम् एतद् धेतुर् हि नान्यो ऽस्त्य् अनुभवस्थितेः
कथम् आलक्ष्यते स्वप्न इति प्रष्टुḫ प्रकथ्यते । यथैनं पश्यसीत्य् एव हेतुर् अत्रास्ति नेतरः
स्वप्नजन्तुर् इव व्योम्नि भाति प्रथमसर्गतः । प्रभृत्य् एव विराडात्मा खे खम् एव परापरे
स्वप्नशब्देन बोधार्थं तव व्यवहराम्य् अहम् । दृश्यं त्व् इदं न सन् नासन् न स्वप्नो ब्रह्म केवलम्
अथ राघव सा कान्ता मया कान्तानुषङ्गिणी । संविदं तन्मयीं कृत्वा पृष्टेदं दृष्टरूपिणी
व्यवहारो यथोदेति स्वप्ने स्वप्नजनैस् सह । तथा तदा तया सार्धं व्यवहारो ममोदितः
यथैव स्वप्नसङ्काशो व्यवहारẖ खम् एव सः । तथैव त्वम् इमं विद्धि ममात्मानं जगच् च खम्
यथा स्वप्ने जगद्रूपं खम् एवैवम् इदं जगत् । जाग्रदाख्यो महास्वप्नस् सर्गादौ वियदुद्भवः
स्वप्नो ऽयं जगदाभोगो नकिञ्चिद् वा खम् एव वा । निर्मलं ज्ञप्तितामात्रम् इत्य् असन्मात्रखं स्थितम्
स्वप्नस्य विद्यते द्रष्टा साकारो युष्मदादिकः । द्रष्टा तु सर्गस्वप्नस्य चिद्व्योमैवामलं स्वतः
यथा द्रष्टामलं व्योम दृश्यं तद्दृग्गतं तथा । स्वप्नरूपं कचत्य् उच्चैर् जगत् तेनामलं नभः
चिद्व्योम्नो ऽनाकृतेस् स्वप्नो हृदि स्फुरति यस् स्वतः । सर्गस् तस्य कुतस् तेन साकृतित्वं कथं भवेत्
साकारस्यैव यत् स्वप्नजगत् तद् व्योम केवलम् । निराकारस्य चिद्व्योम्नस् सर्गस्वप्नẖ कथं न खम्
निरुपादानसम्भारम् अभित्ताव् एव चिन्नभः । पश्यत्य् अकृतम् एवेमं जगत्स्वप्नं कृतं यथा
मृद्व्या चिदाकाशमृदा ब्रह्मणा ब्राह्मणेन खे । कृतो ऽपि न कृतस् सर्गमण्डपो ऽक्षगवाक्षकः
नो कर्तृता न च जगन्ति न भोक्तृतास्ति नास्तीति नास्ति न च किञ्चिद् अतो बुधस् सन् । पाषाणमौनम् अवलम्ब्य यथाप्रवाहम् आचारम् आचर शरीरम् इहास्तु मा वा
तव स्त्रिया खरूपेण देहेनाभूत् तया कथा । कथम् उच्चारितास् तत्र वर्णाẖ कचटतादयः
अथ चेत् स्वप्नवद् वक्षि तत् पृच्छामि तद् अप्य् अहम् । प्रोच्चरन्ति कुतस् स्वप्ने वर्णा यरलवादयः