चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ । कुतो भावविकारादिẖ कथं व्योम्नि निराकृतौ
महाकल्पादयो भावा रामैतानि जगन्ति च । ब्रह्मात्मकतयैवास्मिन् संविद्ब्रह्मणि संस्थितम्
निराकृत्य् अच्छचिन्मात्रं दृश्यं सङ्कल्प्य तद्वशम् । याति येनैव घटितो यक्षस् तं घट्टयेत् किल
अवयवावयविनोर् दृश्ययोर् वाप्य् अदृश्ययोः । एकात्मनोर् एव सदा न भेदो ऽस्ति कदाचन
इतो भाव इतो ऽभाव इतस् सर्ग इतẖ क्षयः । स्वभावम् एवानुभवद् इति ब्रह्माचलं स्थितम्
एवम्मये ऽपि परमे ब्रह्माकाशे न रञ्जनाः । काश्चिद् एवाङ्ग सन्तीन्दुबिम्बे विषलता यथा
निर्मले परमाकाशे क्व भावाभावरञ्जनाः । क्वादिमध्यान्तकलनाẖ क्व लोकान्तरविभ्रमः
अपरिज्ञानम् एवैकम् अत्र दोषवद् उत्थितम् । केवलं तत् परावृत्य प्रेक्षणात् परिशाम्यति
अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति । येनैवाभ्युत्थितं तेन पवनेनेव दीपकः
अज्ञानं सम्परिज्ञातं नासीद् एवेति बुध्यते । अबन्धमोक्षं ब्रह्मैव सर्वम् इत्य् अवगम्यते
एवम्बोधाद् धि यो राम मोक्ष उक्तस् स्वसंविदा । विचारयन्न् आलभते नात्र कश्चन संशयः
इदं जगज्जालम् अनाद्य् अजातं ब्रह्मेत्थम् आभातम् इतीह दृष्ट्वा । विचारदृष्ट्याष्टगुणेश्वरत्वं पश्यंस् तृणं स्वात्मनि जीव आस्ते
यद् एतद् भवता दृष्टं चिद्व्योमवपुषा तदा । तद् एकदेशसंस्थेन किम् उत भ्रमताम्बरे
सम्पन्नो ऽहम् अनन्तात्मा व्यापी व्योम तदा किल । स्यातां तस्याम् अवस्थायां कीदृशौ तौ गमागमौ
नैकस्थानस्थितिमयो नाहं गतिमयो ऽभवम् । तदा तेन ख एवास्मिन् दृष्टम् एतन् मयात्मनि
यथाङ्गानि शरीरे त्वं पश्यस्य् आपादमस्तकम् । चिन्नेत्रेणाप्य् अनेत्रेण तथैतद् दृष्टवान् अहम्
अनाकृतेर् निरवयवस्थितेस् तदा तथाभवन् विमलचिदम्बरात्मनः । जगन्ति तान्य् अवयवजालकानि मे यथा खता न हि गलिता न वस्तुता
प्रमाणम् अत्र ते स्वप्नदृष्टो भुवनविभ्रमः । स्वप्ने ऽनुभूयते दृश्यं न च किञ्चित् खम् एव तत्
यथा पश्यति वृक्षस् स्वं पत्त्रपुष्पफलादिकम् । स्वसंवेदननेत्रेण तथैतद् दृष्टवान् अहम्
यथाम्बुधिर् अनन्तात्मा वेत्ति सर्वाञ् जलेचरान् । तरङ्गावर्तफेनांश् च तथैतद् बुद्धवान् अहम्
अवयवान् अवयवी यथा वेत्ति निजात्मनि । अनन्यान् आत्मनस् सर्गांस् तथैतान् बुद्धवान् अहम्
अद्यापि तान् अहं देहे व्योम्नि शैले जले स्थले । तथैव सर्गान् पश्यामि राम बोधैकतां गतः
पुरो ऽस्माकम् इदम् यत् खं गृहस्यान्तर् बहिस् तथा । पूर्णम् एतज् जगद्वृन्दैर् वेत्ति बोधैकतां गतः
यथाम्भो रसतां वेत्ति शैत्यं वेत्ति यथा हिमम् । स्पन्दं वेत्ति यथा वायुस् तथैतद् वेत्ति शुद्धधीः
यो यो राम विवेकात्मा शुद्धबोधैकतां गतः । स स एवम्मयैकात्मा वेत्ति स्वात्मानम् ईदृशम्
अस्यां दृष्टौ परिणते वेत्तृवेदनवेद्यधीः । न काचिद् अस्त्य् अभ्युदिता विज्ञानैकात्मता यतः
दिव्या दृग् अद्रिसंस्थस्य यथा योजनकोटिगान् । भावान् वेत्ति बहिश् चान्तर् एवं तद् बुद्धवान् अहम्
यथा भूमण्डलं भावान् निधिधातुरसादिकान् । वेत्त्य् एवं तन् मया बुद्धम् अनन्यद् दृश्यम् आत्मनः
ब्रह्मन्न् अनुभवत्य् एवं त्वयि तामरसेक्षणा । सा किं कृतवती ब्रूहि कान्तार्यापाठपाठिनी
ताम् एवार्यां पठन्ती सा तथैवानुनयान्विता । मत्समीपे नभोदेहा व्योम्नि देवीव संस्थिता