कानिचिद् वर्जितान्य् एव नेत्रशब्दार्थसंविदा । व्यर्थदीप्तार्कतेजांसि भूतानीत्य् एकचिन्तया
घ्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् । मूकानि शब्दवैयर्थ्याच् छ्रुतिहीनानि कानिचित्
वाक्यसंविद्विहीनत्वात् प्रमूकान्य् एव कानिचित् । स्पर्शसंविद्विहीनत्वाद् अश्माङ्गान्य् एव कानिचित्
संविन्मात्रमयान्य् एव दृष्टान्य् अपि च कानिचित् । व्यवहारीण्य् अथाग्राह्याण्य् एव नित्यं पिशाचवत्
भूमयान्य् एकनिष्ठानि निष्पिण्डान्य् एव कानिचित् । जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे
कानिचिद् वारिपूर्णानि वह्निपूर्णानि कानिचित् । जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे
धरापीठैकपूर्णेषु तिष्ठन्त्य् अन्येषु देहिनः । भेका इव शिलाकोशे कीटा इव धरोदरे
जलैकपरिपूर्णेषु निरब्ध्युर्वीवनाद्रिषु । भ्रमन्त्य् अन्येषु भूतानि नित्यम् एवोग्रमीनवत्
अन्येष्व् अग्न्येकपूर्णेषु जलादिरहितान्य् अपि । भूतान्य् अग्निमयान्य् एव स्फुरन्त्य् अलम् अलातवत्
अन्येष्व् अनिलपूर्णेषु भूतान्य् अस्तेतराण्य् अपि । वातमात्रमयाङ्गानि स्फुरन्त्य् अर्जुनवातवत्
अन्येषु व्योममात्रात्मदेहेषु व्योमरूपिणः । प्राणिनस् सन्ति सर्गेष्व् अदर्शनव्यवहारिणः
पातालपातिषु तथाम्बरम् उत्पतत्सु तिष्ठत्सु विभ्रमपरेष्व् अथ दिङ्मुखेषु । नानाजगत्सु किम् इवास्ति मया न दृष्टं यन् नाम चिज्जलधिचञ्चलबुद्बुदेषु
चिदाकाशाश् चिदाकाशे पयसीव पयोरयाः । चित्त्वाज् जीवास् स्फुरन्त्य् एते ये त एव मनांसि नः
विशदाकाशरूपाणि तान्य् एव च मनांसि नः । जगन्ति तान्य् अनन्तानि सम्पन्नान्य् अभितस् स्वयम्
सर्वभूतगणे मोक्षं महाकल्पक्षये गते । पुनẖ कस्य कथं सर्गसंवित्तिर् उपजायते
तस्मान् न कस्यचित् किञ्चित् कदाचिन् नश्यति क्वचित् । न चैव जायते ब्रह्म शान्तं दृश्यम् अजं स्थितम्
वपुर् जगद् इदं तस्या ननु नाम महाचितेः । कथं नश्यत्य् अनष्टायां तस्यां सा च न नश्यति
संविदो हृदयं स्वप्ने यथा भाति जगत्तया । व्योमात्मैव तथैवादिसर्गात् प्रभृति भासते
चिद्व्योमावयवस् सर्गस् सर्गस्यैता दशाः क्षयाः । उदयाश् चेति खं सर्वं किं नाशि किम् अनाशि वा
यद् यद् यदात्मकं तत्त्वं तद् विनाशं विनाक्षयि । तस्माद् ब्रह्मात्मकं दृश्यं विद्धि ब्रह्मवद् अक्षयम्
चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ । कुतो भावविकारादिẖ कथं व्योम्नि निराकृतौ
महाकल्पादयो भावा रामैतानि जगन्ति च । ब्रह्मात्मकतयैवास्मिन् संविद्ब्रह्मणि संस्थितम्
निराकृत्य् अच्छचिन्मात्रं दृश्यं सङ्कल्प्य तद्वशम् । याति येनैव घटितो यक्षस् तं घट्टयेत् किल
अवयवावयविनोर् दृश्ययोर् वाप्य् अदृश्ययोः । एकात्मनोर् एव सदा न भेदो ऽस्ति कदाचन
इतो भाव इतो ऽभाव इतस् सर्ग इतẖ क्षयः । स्वभावम् एवानुभवद् इति ब्रह्माचलं स्थितम्
एवम्मये ऽपि परमे ब्रह्माकाशे न रञ्जनाः । काश्चिद् एवाङ्ग सन्तीन्दुबिम्बे विषलता यथा
निर्मले परमाकाशे क्व भावाभावरञ्जनाः । क्वादिमध्यान्तकलनाẖ क्व लोकान्तरविभ्रमः
अपरिज्ञानम् एवैकम् अत्र दोषवद् उत्थितम् । केवलं तत् परावृत्य प्रेक्षणात् परिशाम्यति
अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति । येनैवाभ्युत्थितं तेन पवनेनेव दीपकः
अज्ञानं सम्परिज्ञातं नासीद् एवेति बुध्यते । अबन्धमोक्षं ब्रह्मैव सर्वम् इत्य् अवगम्यते