पाषाणमौनप्रतिमं नकिञ्चिद् अभिशब्दितम् । यत् तत् किञ्चिद् इवोद्द्योतरूपं ब्रह्म जगत् स्मृतम्
विभात्य् अचेत्यचिद्व्योम्नि स्वसत्तैव जगत्तया । निराकारे निराकारा स्वप्नानुभवसन्निभा
अनन्यद् आत्मनो ब्रह्म सर्वं भामात्ररूपकम् । प्रकाशनम् इवालोकẖ करोति न करोति च
तेषु रामानुभूयन्ते जगल्लक्षेषु तत्र वै । उष्णानि चन्द्रवृन्दानि सूर्याश् शीतलमूर्तयः
प्रजास् तमसि पश्यन्ति पश्यन्त्य् एव न तेजसि । उलूकस्य समाचारास् तस्यैव सदृशस्वनाः
इतश् शुभेन नश्यन्ति यान्ति पापैस् तथा दिवम् । विषाशनेन जीवन्ति म्रियन्ते ऽमृतभोजनैः
यद् यथा बुध्यते बोधो यथोदेत्य् अथ वा स्वतः । तथाशु स्फुटताम् एति सद् वासद् वा सद् एव तत्
विटपाकारमूलौघदर्शनाद् वज्रशोभिभिः । घूर्णते पुष्पपत्त्राढ्यैḫ पादपैर् व्योम्नि काननम्
सिकताḫ पीडितास् सत्यस् स्रवन्ति स्नेहजं रसम् । शिलाफलहकेभ्यश् च जायन्ते कमलान्य् अलम्
दारुण्य् अश्मनि भित्तौ च चञ्चलास् सालभञ्जिकाः । गृहाङ्गनाभिस् सहिता गायन्ति कथयन्ति च
मेघान् परिदधत्य् उच्चैर् भूतान्य् उच्चैḫपटान् इव । प्रतिवर्षं विजातीयान्य् उत्पद्यन्ते फलान्य् अगे
सन्निवेशे न नियतैर् अङ्गानां विविधाङ्गकैः । शिरोभिस् सर्वभूतनि परिक्रामन्ति भूमिगैः
शास्त्रवेदविहीनानि निर्धर्माण्य् एव कानिचित् । यत्किञ्चनैककारीणि तिर्यग्वत् त्रिजगन्त्य् अधः
कामसंवित्तिहीनानि निस्स्त्रीजातीनि कानिचित् । भूतैस् संशुष्कहृदयैर् व्याप्तान्य् अश्ममयैर् इव
पवनाशनभूतानि समरत्नाश्मकानि च । अज्ञातार्थान्य् अलुब्धानि निर्गर्धानि च कानिचित्
क्वचित् प्रत्येकम् आत्मानं पश्यत्य् आप्नोति नेतरत् । बहुभूतकम् अप्य् अस्ति जगद् इत्य् एकभूतकम्
नखकेशादिके यद्वत् तद्वद् अन्यत्र संस्थितिः । आत्मवत् सर्वभूतानाम् एकभूतात्मभावना
अनन्तापारपर्यन्तं शून्यम् एव बहु क्वचित् । यन् न नस् संविद् आप्नोति तस्यान्ते ऽपि जगत् पुनः
अत्यन्ताबुद्धबुद्धीनि मोक्षशब्दार्थदृष्टिषु । दारुयन्त्रमयाशेषभूतौघान्य् एव कानिचित्
ऋक्षचक्रविहीनानि निष्कालकलनानि च । मूकसङ्केतसाराणि भूतजालानि कानिचित्
कानिचिद् वर्जितान्य् एव नेत्रशब्दार्थसंविदा । व्यर्थदीप्तार्कतेजांसि भूतानीत्य् एकचिन्तया
घ्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् । मूकानि शब्दवैयर्थ्याच् छ्रुतिहीनानि कानिचित्
वाक्यसंविद्विहीनत्वात् प्रमूकान्य् एव कानिचित् । स्पर्शसंविद्विहीनत्वाद् अश्माङ्गान्य् एव कानिचित्
संविन्मात्रमयान्य् एव दृष्टान्य् अपि च कानिचित् । व्यवहारीण्य् अथाग्राह्याण्य् एव नित्यं पिशाचवत्
भूमयान्य् एकनिष्ठानि निष्पिण्डान्य् एव कानिचित् । जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे
कानिचिद् वारिपूर्णानि वह्निपूर्णानि कानिचित् । जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे
धरापीठैकपूर्णेषु तिष्ठन्त्य् अन्येषु देहिनः । भेका इव शिलाकोशे कीटा इव धरोदरे
जलैकपरिपूर्णेषु निरब्ध्युर्वीवनाद्रिषु । भ्रमन्त्य् अन्येषु भूतानि नित्यम् एवोग्रमीनवत्
अन्येष्व् अग्न्येकपूर्णेषु जलादिरहितान्य् अपि । भूतान्य् अग्निमयान्य् एव स्फुरन्त्य् अलम् अलातवत्
अन्येष्व् अनिलपूर्णेषु भूतान्य् अस्तेतराण्य् अपि । वातमात्रमयाङ्गानि स्फुरन्त्य् अर्जुनवातवत्