चिति सर्वं चितस् सर्वं चित् सर्वं सर्वतश् च चित् । चित् सर्वैकात्मिकेत्य् एतद् दृष्टं तत्र मयाखिलम्
त्वं का चिद् इति चेद् वक्षि तन् न किञ्चिद् इवाङ्ग चित् । सा हि शून्यतमा व्योम्नो न च नाम नकिञ्चन
तद् आकाशम् इदं भाति जगद् इत्य् अभिशब्दितम् । तेनैव शब्दनभसा सर्वं हि परमं नभः
दृश्यदृष्टिर् इयं भ्रान्तिर् आकाशतरुमञ्जरी । चिद्व्योमाङ्गकम् एवेति तत्राहम् अनुभूतवान्
बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा । तत्रानन्ते नसङ्कल्पम् अनुभूतम् इदं मया
ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश । ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम्
तत्राहम् इव संसारशते सार्धे मुनीश्वराः । दृष्टा वसिष्ठनामानो ब्रह्मपुत्रा मदुत्तमाः
ब्रह्मद्वासप्ततेस् त्रेतास् सर्वा एव सराघवाः । तत्र दृष्टं कृतशतं द्वापराणां शतं तथा
भेदोदयेन चेद् दृष्टास् तास् तास् सर्गदशास् तथा । बोधेन चेत् तद् अत्यच्छम् एकं ब्रह्मनभस् ततम्
भेदब्रह्मणि नामास्ति जगद् ब्रह्मण्य् अथ त्व् इदम् । ब्रह्मैवाजम् अनाद्यन्तं तत् सर्वं त्वन्मदादिकम्
पाषाणमौनप्रतिमं नकिञ्चिद् अभिशब्दितम् । यत् तत् किञ्चिद् इवोद्द्योतरूपं ब्रह्म जगत् स्मृतम्
विभात्य् अचेत्यचिद्व्योम्नि स्वसत्तैव जगत्तया । निराकारे निराकारा स्वप्नानुभवसन्निभा
अनन्यद् आत्मनो ब्रह्म सर्वं भामात्ररूपकम् । प्रकाशनम् इवालोकẖ करोति न करोति च
तेषु रामानुभूयन्ते जगल्लक्षेषु तत्र वै । उष्णानि चन्द्रवृन्दानि सूर्याश् शीतलमूर्तयः
प्रजास् तमसि पश्यन्ति पश्यन्त्य् एव न तेजसि । उलूकस्य समाचारास् तस्यैव सदृशस्वनाः
इतश् शुभेन नश्यन्ति यान्ति पापैस् तथा दिवम् । विषाशनेन जीवन्ति म्रियन्ते ऽमृतभोजनैः
यद् यथा बुध्यते बोधो यथोदेत्य् अथ वा स्वतः । तथाशु स्फुटताम् एति सद् वासद् वा सद् एव तत्
विटपाकारमूलौघदर्शनाद् वज्रशोभिभिः । घूर्णते पुष्पपत्त्राढ्यैḫ पादपैर् व्योम्नि काननम्
सिकताḫ पीडितास् सत्यस् स्रवन्ति स्नेहजं रसम् । शिलाफलहकेभ्यश् च जायन्ते कमलान्य् अलम्
दारुण्य् अश्मनि भित्तौ च चञ्चलास् सालभञ्जिकाः । गृहाङ्गनाभिस् सहिता गायन्ति कथयन्ति च
मेघान् परिदधत्य् उच्चैर् भूतान्य् उच्चैḫपटान् इव । प्रतिवर्षं विजातीयान्य् उत्पद्यन्ते फलान्य् अगे
सन्निवेशे न नियतैर् अङ्गानां विविधाङ्गकैः । शिरोभिस् सर्वभूतनि परिक्रामन्ति भूमिगैः
शास्त्रवेदविहीनानि निर्धर्माण्य् एव कानिचित् । यत्किञ्चनैककारीणि तिर्यग्वत् त्रिजगन्त्य् अधः
कामसंवित्तिहीनानि निस्स्त्रीजातीनि कानिचित् । भूतैस् संशुष्कहृदयैर् व्याप्तान्य् अश्ममयैर् इव
पवनाशनभूतानि समरत्नाश्मकानि च । अज्ञातार्थान्य् अलुब्धानि निर्गर्धानि च कानिचित्
क्वचित् प्रत्येकम् आत्मानं पश्यत्य् आप्नोति नेतरत् । बहुभूतकम् अप्य् अस्ति जगद् इत्य् एकभूतकम्
नखकेशादिके यद्वत् तद्वद् अन्यत्र संस्थितिः । आत्मवत् सर्वभूतानाम् एकभूतात्मभावना
अनन्तापारपर्यन्तं शून्यम् एव बहु क्वचित् । यन् न नस् संविद् आप्नोति तस्यान्ते ऽपि जगत् पुनः
अत्यन्ताबुद्धबुद्धीनि मोक्षशब्दार्थदृष्टिषु । दारुयन्त्रमयाशेषभूतौघान्य् एव कानिचित्
ऋक्षचक्रविहीनानि निष्कालकलनानि च । मूकसङ्केतसाराणि भूतजालानि कानिचित्