यावत् तानि तथोग्राणि जगन्ति सकलानि खम् । शून्यम् एव यथा स्वप्ने सङ्कल्पकथने तथा
न पश्यन्ति न शृण्वन्ति कदाचित् कानिचित् क्वचित् । तानि कल्पमहाकल्पजातान् एकत्र तान् मिथः
प्रमत्तपुष्करावर्तान् उन्मत्तोत्पातमारुतान् । स्फुटिताद्रीन्द्रडाक्कारघट्टितब्रह्ममण्डपान्
ज्वलत्कल्पाग्निविस्फोटस्फुटदैडबिडास्पदान् । प्रतपद्द्वादशाकारकटुमार्ताण्डमण्डलान्
लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् । रणन्मेर्वादिकटकश्रेणीनिगरणोद्भटान्
कल्पाग्निज्वलनोल्लासपटत्पटपटारवान् । आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान्
देवासुरनरागारघर्घराक्रन्दकर्कशान् । सप्तार्णवमहापूरपूरितार्केन्दुमन्दिरान्
न विचेतन्ति कल्पान्तान् सर्वाण्य् एव परस्परम् । एकमन्दिरसंसुप्तास् स्वप्ने रणरयान् इव
तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च । दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्य् अलं मया
तत्र क्वचिद् अनादित्ये निरहोरात्रभूतले । अकल्पयुगवर्षान्ते जगद्व्यूहैẖ क्षयोदयः
चिति सर्वं चितस् सर्वं चित् सर्वं सर्वतश् च चित् । चित् सर्वैकात्मिकेत्य् एतद् दृष्टं तत्र मयाखिलम्
त्वं का चिद् इति चेद् वक्षि तन् न किञ्चिद् इवाङ्ग चित् । सा हि शून्यतमा व्योम्नो न च नाम नकिञ्चन
तद् आकाशम् इदं भाति जगद् इत्य् अभिशब्दितम् । तेनैव शब्दनभसा सर्वं हि परमं नभः
दृश्यदृष्टिर् इयं भ्रान्तिर् आकाशतरुमञ्जरी । चिद्व्योमाङ्गकम् एवेति तत्राहम् अनुभूतवान्
बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा । तत्रानन्ते नसङ्कल्पम् अनुभूतम् इदं मया
ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश । ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम्
तत्राहम् इव संसारशते सार्धे मुनीश्वराः । दृष्टा वसिष्ठनामानो ब्रह्मपुत्रा मदुत्तमाः
ब्रह्मद्वासप्ततेस् त्रेतास् सर्वा एव सराघवाः । तत्र दृष्टं कृतशतं द्वापराणां शतं तथा
भेदोदयेन चेद् दृष्टास् तास् तास् सर्गदशास् तथा । बोधेन चेत् तद् अत्यच्छम् एकं ब्रह्मनभस् ततम्
भेदब्रह्मणि नामास्ति जगद् ब्रह्मण्य् अथ त्व् इदम् । ब्रह्मैवाजम् अनाद्यन्तं तत् सर्वं त्वन्मदादिकम्
पाषाणमौनप्रतिमं नकिञ्चिद् अभिशब्दितम् । यत् तत् किञ्चिद् इवोद्द्योतरूपं ब्रह्म जगत् स्मृतम्
विभात्य् अचेत्यचिद्व्योम्नि स्वसत्तैव जगत्तया । निराकारे निराकारा स्वप्नानुभवसन्निभा
अनन्यद् आत्मनो ब्रह्म सर्वं भामात्ररूपकम् । प्रकाशनम् इवालोकẖ करोति न करोति च
तेषु रामानुभूयन्ते जगल्लक्षेषु तत्र वै । उष्णानि चन्द्रवृन्दानि सूर्याश् शीतलमूर्तयः
प्रजास् तमसि पश्यन्ति पश्यन्त्य् एव न तेजसि । उलूकस्य समाचारास् तस्यैव सदृशस्वनाः
इतश् शुभेन नश्यन्ति यान्ति पापैस् तथा दिवम् । विषाशनेन जीवन्ति म्रियन्ते ऽमृतभोजनैः
यद् यथा बुध्यते बोधो यथोदेत्य् अथ वा स्वतः । तथाशु स्फुटताम् एति सद् वासद् वा सद् एव तत्
विटपाकारमूलौघदर्शनाद् वज्रशोभिभिः । घूर्णते पुष्पपत्त्राढ्यैḫ पादपैर् व्योम्नि काननम्
सिकताḫ पीडितास् सत्यस् स्रवन्ति स्नेहजं रसम् । शिलाफलहकेभ्यश् च जायन्ते कमलान्य् अलम्
दारुण्य् अश्मनि भित्तौ च चञ्चलास् सालभञ्जिकाः । गृहाङ्गनाभिस् सहिता गायन्ति कथयन्ति च