शब्ददेशपतद्दृष्टिर् दृष्टवान् वनिताम् अहम् । पार्श्वे कनकनिष्ष्यन्दप्रभया भासिताम्बराम्
आलोलमाल्यवसनाम् अलकाकुललोचनाम् । लोलधम्मिल्लवलनाम् अन्यां श्रियम् इवागताम्
कान्तकाञ्चनगौराङ्गीम् अङ्गस्थनवयौवनाम् । वनदेवीम् इवामोदिसर्वावयवसुन्दरीम्
सा पूर्णचन्द्रवदना पुष्पप्रकरहासिनी । यौवनोद्दामवदना पक्ष्मलेक्षणशालिनी
आकाशकोशसदना शशाङ्ककरसुन्दरी । मुक्ताकलापरचना कान्ता मदनुसारिणी
स्वरेण मधुरेणेमाम् आर्याम् आर्यविलासिनी । पपाठाकठिनं वामा मत्पार्श्वे मृदुहासिनी
असदुदितरिक्तचेतनसंसृतिमृगसरिति मुह्यमानानाम् । अवलम्बनतटविटपिनम् अभिनौमि भवन्तम् एव मुने
इत्य् आकर्ण्याहम् आलोक्य तां चारुवचनस्वनाम् । ललनेयं किम् अनयेत्य् अनादृत्यैव तां गतः
ततो जगद्वृन्दमयीं मायां सम्प्रेक्ष्य विस्मितः । अनादृत्यैव तां व्योम्नि विहर्तुम् अहम् उद्यतः
ततस् तां तत्कृतां चिन्ताम् अलम् उत्सृज्य खे स्थिताम् । जगन्मायां कलयितुं व्योमात्माहं प्रवृत्तवान्
यावत् तानि तथोग्राणि जगन्ति सकलानि खम् । शून्यम् एव यथा स्वप्ने सङ्कल्पकथने तथा
न पश्यन्ति न शृण्वन्ति कदाचित् कानिचित् क्वचित् । तानि कल्पमहाकल्पजातान् एकत्र तान् मिथः
प्रमत्तपुष्करावर्तान् उन्मत्तोत्पातमारुतान् । स्फुटिताद्रीन्द्रडाक्कारघट्टितब्रह्ममण्डपान्
ज्वलत्कल्पाग्निविस्फोटस्फुटदैडबिडास्पदान् । प्रतपद्द्वादशाकारकटुमार्ताण्डमण्डलान्
लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् । रणन्मेर्वादिकटकश्रेणीनिगरणोद्भटान्
कल्पाग्निज्वलनोल्लासपटत्पटपटारवान् । आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान्
देवासुरनरागारघर्घराक्रन्दकर्कशान् । सप्तार्णवमहापूरपूरितार्केन्दुमन्दिरान्
न विचेतन्ति कल्पान्तान् सर्वाण्य् एव परस्परम् । एकमन्दिरसंसुप्तास् स्वप्ने रणरयान् इव
तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च । दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्य् अलं मया
तत्र क्वचिद् अनादित्ये निरहोरात्रभूतले । अकल्पयुगवर्षान्ते जगद्व्यूहैẖ क्षयोदयः
चिति सर्वं चितस् सर्वं चित् सर्वं सर्वतश् च चित् । चित् सर्वैकात्मिकेत्य् एतद् दृष्टं तत्र मयाखिलम्
त्वं का चिद् इति चेद् वक्षि तन् न किञ्चिद् इवाङ्ग चित् । सा हि शून्यतमा व्योम्नो न च नाम नकिञ्चन
तद् आकाशम् इदं भाति जगद् इत्य् अभिशब्दितम् । तेनैव शब्दनभसा सर्वं हि परमं नभः
दृश्यदृष्टिर् इयं भ्रान्तिर् आकाशतरुमञ्जरी । चिद्व्योमाङ्गकम् एवेति तत्राहम् अनुभूतवान्
बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा । तत्रानन्ते नसङ्कल्पम् अनुभूतम् इदं मया
ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश । ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम्
तत्राहम् इव संसारशते सार्धे मुनीश्वराः । दृष्टा वसिष्ठनामानो ब्रह्मपुत्रा मदुत्तमाः
ब्रह्मद्वासप्ततेस् त्रेतास् सर्वा एव सराघवाः । तत्र दृष्टं कृतशतं द्वापराणां शतं तथा
भेदोदयेन चेद् दृष्टास् तास् तास् सर्गदशास् तथा । बोधेन चेत् तद् अत्यच्छम् एकं ब्रह्मनभस् ततम्
भेदब्रह्मणि नामास्ति जगद् ब्रह्मण्य् अथ त्व् इदम् । ब्रह्मैवाजम् अनाद्यन्तं तत् सर्वं त्वन्मदादिकम्