ज्वलतस् सर्वतो ऽजस्रं चित्तस्थालीषु तिष्ठतः । यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम्
यं विनार्कादयो ऽप्य् एते प्रकाशास् तिमिरोपमाः । सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः
सस्पन्दे समुदेतीव निस्स्पन्दे ऽन्तर्गतेव च । इयं यस्मिञ् जगल्लक्ष्मीर् अलात इव चक्रता
जगन्निर्माणविलयविलासो व्यापको महान् । स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलो ऽक्षयः
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा । सत्ता नाम्नैव भिन्नेव व्यवहारान् न वस्तुतः
सर्वदैव प्रबुद्धो यस् सुप्तो यस् सर्वदैव च । न सुप्तो न प्रबुद्धश् च यस् सर्वत्रैव सर्वदा
यदस्पन्दश् शिवं शान्तं यत्स्पन्दस् त्रिजगत्स्थितिः । स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः
आमोद इव पुष्पेषु न नश्यति विनाशिषु । प्रत्यक्षस्थो ऽप्य् अथाग्राह्यश् शौक्ल्यं शुक्लपटेष्व् इव
मूकोपमो ऽपि यो वक्ता मन्ता यो ऽप्य् उपलोपमः । यो भोक्ता नित्यतृप्तो ऽपि कर्ता यश् चाप्य् अकिञ्चन
यो ऽनङ्गो ऽपि समस्ताङ्गस् सहस्रकरलोचनः । नकिञ्चित् संस्थितेनापि येन व्याप्तम् इदं जगत्
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः । यस्य निर्मनसो ऽप्य् एता मनोनिर्माणरीतयः
यदनालोचनाद् भान्ति संसारोरगभीतयः । यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः । सति यस्मिन् प्रवर्तन्ते चित्रेहास् स्पन्दपूर्विकाः
यस्माद् घटपटाकारपदार्थशतपङ्क्तयः । तरङ्गकणकल्लोलवीचयो वारिधेर् इव
स एवान्यतयोदेति यः पदार्थशतभ्रमैः । कटकाङ्गदकेयूरनूपुरैर् इव काञ्चनम्
यस् त्वम् एकावभासात्मा यो ऽहम् एते जनाश् च ये । यश् च न त्वम् अबुद्धात्मन् नाहं नैते जनाश् च ये
अन्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा । पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः
यतः कालस्य कलना यतो दृश्यस्य दृश्यता । मानसी कलना येन येन भासां विभासनम्
क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् । यद् वेत्सि तद् असौ देवो येन वेत्सि तद् अप्य् असौ
द्रष्टृदर्शनदृश्यानां मध्ये यद् दर्शनं स्थितम् । साधो तदवधानेन स्वात्मानम् अवबुध्यसे
अजम् अजरम् अजाड्यं शाश्वतं ब्रह्म नित्यं शिवम् अमलम् अनाद्यं वन्ध्यवेद्यैर् अनिन्द्यम् । सकलकलनशून्यं कारणं कारणानाम् अनुभवनम् अवेद्यं वेदनं वित्त्वम् अन्तः
महाप्रलयसम्पत्तौ यद् एतद् अवशिष्यते । भवत्व् एतद् अनाकारं नाम नास्त्य् अत्र संशयः
न शून्यं कथम् एतत् स्यान् न प्रकाशः कथं भवेत् । कथं वा न तमोरूपं कथं वा नैव खात्मकम्
कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् । कथं न बुद्धितत्त्वं स्यात् कथं वा न मनो भवेत्
कथं वा न नकिञ्चित् स्यात् कथं वा सर्वम् इत्य् अपि । अनया च वचोभङ्ग्या मम मोह इवोदितः
विषमो ऽयम् अति प्रश्नो भवता समुदाहृतः । भिनद्म्य् एनं त्व् अयत्नेन नैशं तम इवांशुमान्
महाकल्पान्तसम्पत्तौ यत् तत् सद् अवशिष्यते । तन् नाम न यथा शून्यं तद् इदं कथ्यते शृणु
अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका । तथा विश्वं स्थितं तत्र तेन शून्यं न तत् पदम्
अयम् इत्थं महाभोगो जगदाख्यो ऽवभासते । सत्यो भवत्व् असत्यो वा यत्र तत्र क्व शून्यता
यथा न पुत्रिकाशून्यस् स्तम्भो ऽनुत्कीर्णसालिकः । तथा तात जगद् ब्रह्म तेन शून्यं न तत् पदम्