मिथश् चान्यान्यशास्त्राणि मिथो ऽनन्तानि यानि च । अन्यान्यसन्निवेशानि मिथो ऽन्यान्यानि यानि च
अन्योऽन्यं परलोकानि मिथस् सिद्धपुराणि च । अन्यादृशमहाभूतान्य् अन्यादृक्षगिरीणि च
त्वादृशानुभवेहानाम् अगम्यान्य् आततानि च । असमञ्जसरूपाणि कथ्यमानानि मादृशैः
अणुवत् प्रोह्यमानानि चिदादित्यांशुमण्डले । परमार्थश्रियो व्योम्नि रश्मिजालानि कुण्डले
कानिचित् तानि तान्य् एव भूत्वा भूत्वा भवन्त्य् अलम् । कानिचित् तादृशान्य् एव जातानि वनपर्णवत्
अन्यान्य् अत्रार्धसदृशान्य् अन्यानि सदृशान्य् अपि । कञ्चित् कालं सुसदृशान्य् अन्यान्य् अनघ कानिचित्
अन्यान्य् अज्ञातकालानि यदृच्छावशतस् स्वयम् । जायमानानि पुष्यन्ति सुस्थिराणि स्थितानि च
फलानि तान्य् अनन्तानि परमार्थमहातरोः । अनन्यान्य् एव चान्यानि तन्मयान्य् एव वै ततः
कानिचित् स्वल्पकल्पानि दीर्घकल्पानि कानिचित् । अन्यान्य् अनियतं भूरि नियतं भूरि कानिचित्
तानि शून्यत्वजालानि परमाकाशकोशके । अपरिज्ञातकालानि दृढान्य् अज्ञातदोषके
अब्ध्यर्काकाशमेर्वादिशतैर् आवलितान्य् अलम् । चिच्चमत्कारखे स्वप्नजालान्य् आभान्ति चाबिलम्
अनुभूतेर् भ्रमात्मत्वात् कारणानाम् अभावतः । पृथ्व्यादीनाम् अहेतूनाम् अत्यन्तं सन्त्य् असन्ति च
मृगतृष्णाम्बुभरवद् द्विचन्द्रव्योमवर्णवत् । सम्पन्नानि न सत्यानि सत्यान्य् अप्य् अनुभूतितः
चित्सङ्कल्पनभस्य् एव भासमानानि भूरिशः । वासनावातनुन्नानि विनुन्नान्य् आत्मचेष्टितैः
सुरासुरादिमषकान्य् आकाशोडुम्बरद्रुमे । फलानि रसपूर्णानि घूर्णमानानि मारुतैः
अभिजातस्वभावस्य सर्वारम्भकरस्य च । शुद्धचित्तत्त्वबालस्य सङ्कल्पनगराणि खे
त्वम् अहं स इदं चेति धियाचलदृढान्य् अलम् । सम्पन्नान्य् अर्कदीप्त्येव पङ्कक्रीडनकानि च
धृतानि रसशालिन्या नियत्या नित्यतृप्तया । वनान्य् उग्रफलानीव वसन्तरसलेखया
महाकर्तॄण्य् अकर्तॄणि न कृतान्य् एव खानि च । स्वयंसम्पन्नरूपाणि चिद्व्योम्नैव कृतानि च
परमार्थमयान्य् एव तदन्यत्वोदितानि च । अलब्धान्य् एव लब्धानि सदासन्त्य् एव सन्ति च
चतुर्दशदशैकादिविधभूतगणानि च । पुनस् तान्य् एव तान्य् अन्तर् अन्यान्य् अन्यान्य् अथो बहिः
नरकस्वर्गपातालबन्धुमित्रमयान्य् अपि । महारम्भमयान्य् एव शून्यानि परमार्थतः
क्षीराम्बुधेर् जलानीव स्नेहसाराणि सर्वतः । तरङ्गभङ्गुराण्य् अन्तर् बहिश् चावृत्तिमन्ति च
आभासमात्ररूपाणि तेजांस्य् आत्मविवस्वतः । जातानीव स्वतस् तानि स्पन्दनानि नभस्वतः
वृक्षरूपाणि पत्त्राणां बुद्ध्यहङ्कारचेतसाम् । असताम् अप्य् असन्त्य् एव स्वप्नो ऽन्यस्थो नृणाम् इव
पुराणवेदसिद्धान्तकल्पनातल्पपालिषु । घननिद्राणि सुप्तानि बिभ्रन्ति शवताम् इव
परमार्थमहारण्ये चिद्गन्धर्वकृताणि खे । सूर्यदीपकदीप्तीनि गृहाणि गहनान्य् अति
प्रजायमानानि नभस्य् अनन्ते विशीर्यमाणानि च निर्निमित्तम् । तदा त्व् अहं तैमिरिकाक्षदृष्टकेशोण्डुकानीव जगन्त्य् अपश्यम्
ततो ऽहम् अभितो भ्रान्तस् तादृशḫ प्रविचारयन् । बहुकालम् असंरुद्धसंविदाकाशतां गतः
शब्दं पश्चात् तम् अश्रौषम् अहं वीणास्वनोपमम् । क्रमात् स्फुटपदं जातं तत आर्यात्वम् आगतम्