तद् आकर्ण्याशु तत्रेदम् अहं चिन्तितवान् अथ । शब्दकर्त्रीक्षणात् पश्यन् दिशो दश सविस्मयः
व्योम्नो ऽयं सिद्धसञ्चारमार्गशून्यम् अनन्तरम् । भागो योजनलक्षाणि समतिक्रम्य संस्थितः
तद् इहेदृग्विधस्यास्य कुतश् शब्दस्य सम्भवः । शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन्
अनन्तम् इदम् आशून्यं पुरो मे निर्मलं नभः । इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते
यदेति चिन्तयित्वाहं भूयो भूयो विलोकयन् । शब्देश्वरं न पश्यामि तदा चिन्तितवान् इदम्
आकाश एव भूत्वाहम् आकाशेनैकतां गतः । आकाशगुणशब्दार्थान् करोम्य् आकाशकोशके
देहाकाशम् इदं स्थाप्य ध्यानेनेह यथास्थितम् । चिदाकाशवपुर् व्योम्ना याम्य् ऐक्यं वार् इवाम्बुना
चिन्तयित्वेत्य् अहं त्यक्तुं देहं पद्मासने स्थितः । आसं समाधिम् आधातुं पुनर् आमीलितेक्षणः
त्यक्त्वा बाह्यान् अपि स्पर्शान् ऐन्द्रियान् आन्तरान् अपि । चित्ताकाशे ऽहम् अभवं संवित्स्पन्दमयात्मकः
क्रमात् तद् अपि सन्त्यज्य बुद्धितत्त्वपदं गतः । सम्पन्नो ऽहं चिदाकाशो जगज्जालैकदर्पणः
ततस् तेन स्वभावेन भूतव्योमैकताम् अहम् । सम्प्रयातो ऽम्बुनेवाम्बु सौरभं सौरभेण वा
सम्पन्नो ऽथ महाकाशो व्याप्य् अनन्तो ऽथ सर्वगः । अनाकारो ऽप्य् अनाधारस् सर्वार्थाधारतां गतः
यावत् त्रैलोक्यवृन्दानि संसाराणां शतानि च । तत्र ब्रह्माण्डलक्षाणि पश्याम्य् अगणितान्य् अपि
परस्परम् अदृष्टानि मिथẖ खान्य् अमलानि च । नानाचारविचाराणि शून्यान्य् एव परस्परम्
स्वप्नरूपाणि सुप्तानां तुल्यकालं नृणाम् इव । महारम्भाण्य् अदृष्टानि शून्यानि च परस्परम्
जायमानानि नश्यन्ति वर्धमानानि भूरिशः । वर्तमानान्य् अतीतानि भविष्यन्ति च सर्वशः
अनेकचित्तजातानि महाभित्तीनि खानि च । मनस्य् एवोग्रराज्यानि कृतानि विविधैर् जनैः
निरावरणरूपाणि तथैकावरणानि च । पञ्चावरणरूपाणि षडेकावरणानि च
दशावरणचित्राणि षोडशावरणानि च । चतुर्विंशत्यावृतीनि षट्त्रिंशत्यावृतीनि च
शून्यानि भूतपूर्णानि पञ्चभूतमयानि च । एकपृथ्व्यादिभूतानि चतुष्पृथ्व्यादिकानि च
त्रिपृथ्व्यादीनि चान्यानि द्विपृथ्व्यादीन्य् अथापि च । तथा सप्तमहाभूतान्य् एकजातिमयानि च
त्वादृशानुभवाभोगविरुद्धानीदृशानि तु । तथा नित्यान्धकाराणि सूर्यादिरहितानि च
तथा मीलितसर्गाणि एकनाथावृतानि च । विलक्षणप्रजेशानि विचित्राचारवन्ति च
जात्यन्धपारम्पर्येण सङ्केताचारवन्ति च । तथा नित्यप्रकाशानि ज्वलिताग्निमयानि च
तथा जलैकपूर्णानि पवनैकात्मकानि च । स्तब्धानि परमाकाशे वहन्ति च तथानिशम्
जायमानानि पुष्यन्ति परिपुष्टानि चाभितः । तिर्यग् गच्छन्ति चान्यानि मूकसर्गमयान्य् अपि
देवमात्रैकसर्गाणि नरमात्रमयानि च । दैत्यवृन्दमयान्य् एव क्रिमिनिर्विवराणि च
अन्तर् अन्तस् तदन्तश् च स्वकोशेष्व् अणुकं प्रति । जातानि जायमानानि कदलीदलपीठवत्
परस्परम् अदृष्टानि नानुभूतानि वै मिथः । सैनिकस्वप्नजालानि जातानीव महान्त्य् अपि
विविधान्य् अप्य् अनन्तानि स्वच्छाकाशात्मकान्य् अलम् । अन्योऽन्यम् अन्यवृत्तीनि न मिथो ऽन्यस्थितीनि च