आदाव् एव हि नोत्पन्नम् अद्यापि च न विद्यते । दृश्यं यच् चावभातीदं तद् ब्रह्म ब्रह्मणि स्थितम्
नास्ति भूर् अणुमात्रापि सर्गैर् निर्विवरा न या । न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत्
वारिणो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः । न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत्
न तेजसो ऽणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः । न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत्
न वायोर् अणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः । न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत्
खं नाणुमात्रम् अप्य् अस्ति सर्गैर् निर्विवरं न यत् । न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत्
न सा महाभूततास्ति सर्गैर् निर्विवरा न या । न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव ते
प्राण्यङ्गो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः । न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत्
शैलानां नाणुर् अप्य् अस्ति स सर्गैर् यो न निर्घनः । न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत्
ब्रह्मणो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः । न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत्
सर्गेषु नाणुर् अप्य् अस्ति न ब्रह्मात्मैव यस् सदा । ब्रह्म सर्गस् तथा त्व् एष वाचि भेदो न वस्तुनि
सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गता । मनाग् अप्य् अस्ति न द्वैतम् अत्राग्न्यर्कौष्ण्ययोर् इव
इमे सर्गा इदं ब्रह्म चेत्य् एता वाक्यदृष्टयः । विदार्यदारुरववद् भान्त्य् अर्थपरिवर्जिताः
द्वैतम् ऐक्यं च यत्रास्ति न मनाग् अपि तत्र ते । सर्गब्रह्मादिशब्दार्थाẖ कथं कस्येव भान्तु ते
शान्तम् एकम् अनाद्यन्तम् इदम् अच्छम् अनामयम् । व्यवहारवतो ऽप्य् अङ्ग ज्ञस्य मौनं शिलाघनम्
निर्वाणम् एवम् अखिलं नभ एव दृश्यं त्वं चाहम् अद्रिनिचयाश् च सुरासुराश् च । तादृग् जगत् समवलोकय यादृग् अङ्ग स्वप्ने ऽन्यजन्तुमनसि व्यवहारजालम्
अनन्तरं नभẖकोशकुटीकोटरके मुने । तव ध्यानात् प्रबुद्धस्य वृत्तं वर्षशतेन किम्
ततो ध्यानात् प्रबुद्धो ऽहं श्रुतवांस् तत्र निस्स्वनम् । मृद्व् अव्यक्तपदं हृद्यं न च वाद्यान् न गेयतः
स्त्रीस्वभावाद् इव मृदु मधुरं चानिनादि च । स्वल्पाङ्गत्वाद् अनिर्ह्रादि मया तद् वाक्यम् ऊहितम्
इन्दिन्दिररुताकारं तन्त्रीरणनरञ्जनम् । न रोदनं न पठनं वंशकोशसमस्वनम्
तद् आकर्ण्याशु तत्रेदम् अहं चिन्तितवान् अथ । शब्दकर्त्रीक्षणात् पश्यन् दिशो दश सविस्मयः
व्योम्नो ऽयं सिद्धसञ्चारमार्गशून्यम् अनन्तरम् । भागो योजनलक्षाणि समतिक्रम्य संस्थितः
तद् इहेदृग्विधस्यास्य कुतश् शब्दस्य सम्भवः । शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन्
अनन्तम् इदम् आशून्यं पुरो मे निर्मलं नभः । इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते
यदेति चिन्तयित्वाहं भूयो भूयो विलोकयन् । शब्देश्वरं न पश्यामि तदा चिन्तितवान् इदम्
आकाश एव भूत्वाहम् आकाशेनैकतां गतः । आकाशगुणशब्दार्थान् करोम्य् आकाशकोशके
देहाकाशम् इदं स्थाप्य ध्यानेनेह यथास्थितम् । चिदाकाशवपुर् व्योम्ना याम्य् ऐक्यं वार् इवाम्बुना
चिन्तयित्वेत्य् अहं त्यक्तुं देहं पद्मासने स्थितः । आसं समाधिम् आधातुं पुनर् आमीलितेक्षणः
त्यक्त्वा बाह्यान् अपि स्पर्शान् ऐन्द्रियान् आन्तरान् अपि । चित्ताकाशे ऽहम् अभवं संवित्स्पन्दमयात्मकः
क्रमात् तद् अपि सन्त्यज्य बुद्धितत्त्वपदं गतः । सम्पन्नो ऽहं चिदाकाशो जगज्जालैकदर्पणः