बीजात् कारणतẖ कार्यम् अङ्कुरẖ किल जायते । न बीजम् अपि यत्रास्ति तत्र स्याद् अङ्कुरẖ कुतः
कारणेन विना कार्यं न च नामोपपद्यते । कदा क इव खे केन दृष्टो लब्धस् स्फुटो द्रुमः
सङ्कल्पेनाम्बरे यद् वा दृश्यते विटपादिकम् । स सङ्कल्पस् तथाभूतो न त्व् अत्रास्ति पदार्थता
यो ऽयम् एवं चिदाकाशे सर्गादाव् अनुभूयते । शून्ये कूप इवाकाशस् सर्गस् स्थितिनिरर्गलः
सम एव चिदाकाशẖ कचत्य् आत्मनि तत्तया । स्वभाव एव सर्गाख्यश् चित्त्वाच् चैतन्यम् ईश्वरः
स्वप्नसर्गो ऽत्र दृष्टान्तḫ प्रत्यहं यो ऽनुभूयते । स्वयं संवेदनं स्वप्ने स्फुरत्य् अद्रिपुराकृति
चित्स्वभावो यथा स्वप्न आस्ते सर्ग इवेह वः । असर्गे सर्गवद् भातस् तथा पूर्वं महाम्बरे
अवेद्यं वेदनं शुद्धम् एव भात्य् अजम् अव्ययम् । सर्गादौ यद् अनाद्यन्तं स्थितस् सर्गस् स एव वः
नेह सर्गो ऽस्ति नैवायं पृथ्व्यादिगणगोलकः । सर्वं शान्तम् अनालम्बं ब्रह्मैव ब्रह्मणि स्थितम्
सर्वशक्त्यात्म तद् ब्रह्म यथा कचति यादृशम् । रूपम् अत्यजद् एवाच्छं तथा भवति तादृशम्
यथा स्वप्नपुरं जन्तोश् चिन्मात्रप्रविजृम्भितम् । तथैव सर्गस् सर्गादौ शुद्धचिन्मात्रजृम्भितः
स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः । स्वभाव एव सर्गो ऽसाव् इति तेनैव भावितः
भाव्यभावकभावादिभूमीनां भवनं भृशम् । सर्वं चिन्नभ एवाच्छम् आत्मनात्मनि संस्थितम्
एवं स्थिते कुतस् सर्गẖ कुतो ऽविद्या क्व चाज्ञता । ब्रह्म शान्तं घनं सर्वं क्वाहङ्कारादयस् स्थिताः
अहम्भावस्य संशान्तिर् एषासौ कथिता तव । अहम्भावḫ परिज्ञातḫ पिशाच इव शाम्यति
मया त्व् एवम् अहम्भावḫ परिज्ञातो यदाखिलः । तदा मे विद्यमानो ऽपि निष्फलश् शरदभ्रवत्
चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः । तथाहम्भावसर्गादि ज्ञातं विफलताम् इयात्
इति मे ऽहङ्कृतेस् त्यागे रागे च समता यदि । तदा व्योम्न इव व्योम्नि सर्गे ऽसर्गे च मे स्थितिः
अहम्भावस्य नैवाहं नाहम्भावो ममेति च । तेन विद्धि चिदाकाशम् एवेदम् इति निर्घनम्
यथा मम तथान्येषाम् इति बोधवताम् इह । अग्नित्वम् इव चित्राग्नेर् नास्त्य् अहम्बोधविभ्रमः
नाहम् अस्मि न चान्यो ऽस्ति सर्वं वास्तीतिनिश्चयः । प्रकृतव्यवहारस् त्वं शिलामौनमयो भव
आकाशकोशविशदाकृतिर् एव तिष्ठ निर्देहवच् चिरम् अपह्नुतसर्वभावः । अद्यादितश् च किल चिन्मयम् एव सर्वं नो दृश्यम् अस्ति शिवम् एवम् अशेषम् इत्थम्
अहो नु विततोदारा विपुला विमलाचला । भवता भगवन् भूत्यै भूयो दृष्टिर् उदाहृता
सर्वथा सर्वदा सार्वं सर्वं सर्वत्र सर्वदम् । सद् इत्य् एव स्थितं सत्यं समं समनुभूतितः
अयम् अस्ति मम ब्रह्मन् संशयस् तं निवारय । किम् इदं भगवन् नाम पाषाणाख्यानम् उच्यते
सर्वत्र सर्वदा सर्वम् अस्तीति प्रतिपादने । पाषाणाख्यानदृष्टान्तो मयायं तव कथ्यते
नीरन्ध्रैकघनाङ्गस्य पाषाणस्यापि कोटरे । सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते
भूताकाशे महत्य् अस्मिन् स्वं शून्यत्वम् अनुज्झति । सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते
कुड्यादौ सन्ति सर्गौघा इति चेत् कथ्यते मुने । तत् खे विभान्ति सर्गौघा इति किं न प्रदर्श्यते
एतत् ते वर्णितं राम मुख्यम् एव मयाखिलम् । यो ऽयम् आलक्ष्यते सर्गस् सर्ग एव खम् आस्थितम्