तन् महाप्रलये प्राप्ते रुद्रादिपरिणामिनि । भवत्य् असद् अदृश्यं च क्वापि याति विनश्यति
ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् । अनाख्यम् अनभिव्यक्तं सत् किञ्चिद् अवशिष्यते
न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् । न च भूतपदार्थौघो यद् अनन्ततया स्थितम्
किम् अप्य् अव्यपदेशात्म पूर्णात् पूर्णतराक्र्टि । न सन् नासन् न सदसन् नाभावो भवनं न च
चिन्मात्रं चेत्यरहितम् अनन्तम् अजरं शिवम् । अनादिमध्यपर्यन्तं यद् अनाधि निरामयम्
यस्मिञ् जगत् प्रस्फुरति दृष्टिमौक्तिकहंसवत् । यश् चेदं यश् च नैवेदं देवस् सदसदात्मकः
अकर्णजिह्वो ऽनासात्वङ्नेत्रस् सर्वत्र सर्वदा । यश् शृणोत्य् आस्वादयति जिघ्रन् स्पृशति पश्यति
स एव सदसद्रूपं येनालोकेन लक्ष्यते । सर्गचित्रम् अनाद्यन्तं खरूपं चाप्य् अरञ्जनम्
अर्धोन्मीलितदृग् भ्रूभूमध्यतारकवज् जगत् । व्योमात्मैव सदाभासं स्वरूपं यो ऽभिपश्यति
यस्यान्यद् अस्ति न विभोः कारणं शशशृङ्गवत् । यस्येदं च जगत् कार्यं तरङ्गौघ इवाम्भसः
ज्वलतस् सर्वतो ऽजस्रं चित्तस्थालीषु तिष्ठतः । यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम्
यं विनार्कादयो ऽप्य् एते प्रकाशास् तिमिरोपमाः । सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः
सस्पन्दे समुदेतीव निस्स्पन्दे ऽन्तर्गतेव च । इयं यस्मिञ् जगल्लक्ष्मीर् अलात इव चक्रता
जगन्निर्माणविलयविलासो व्यापको महान् । स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलो ऽक्षयः
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा । सत्ता नाम्नैव भिन्नेव व्यवहारान् न वस्तुतः
सर्वदैव प्रबुद्धो यस् सुप्तो यस् सर्वदैव च । न सुप्तो न प्रबुद्धश् च यस् सर्वत्रैव सर्वदा
यदस्पन्दश् शिवं शान्तं यत्स्पन्दस् त्रिजगत्स्थितिः । स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः
आमोद इव पुष्पेषु न नश्यति विनाशिषु । प्रत्यक्षस्थो ऽप्य् अथाग्राह्यश् शौक्ल्यं शुक्लपटेष्व् इव
मूकोपमो ऽपि यो वक्ता मन्ता यो ऽप्य् उपलोपमः । यो भोक्ता नित्यतृप्तो ऽपि कर्ता यश् चाप्य् अकिञ्चन
यो ऽनङ्गो ऽपि समस्ताङ्गस् सहस्रकरलोचनः । नकिञ्चित् संस्थितेनापि येन व्याप्तम् इदं जगत्
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः । यस्य निर्मनसो ऽप्य् एता मनोनिर्माणरीतयः
यदनालोचनाद् भान्ति संसारोरगभीतयः । यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः । सति यस्मिन् प्रवर्तन्ते चित्रेहास् स्पन्दपूर्विकाः
यस्माद् घटपटाकारपदार्थशतपङ्क्तयः । तरङ्गकणकल्लोलवीचयो वारिधेर् इव
स एवान्यतयोदेति यः पदार्थशतभ्रमैः । कटकाङ्गदकेयूरनूपुरैर् इव काञ्चनम्
यस् त्वम् एकावभासात्मा यो ऽहम् एते जनाश् च ये । यश् च न त्वम् अबुद्धात्मन् नाहं नैते जनाश् च ये
अन्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा । पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः
यतः कालस्य कलना यतो दृश्यस्य दृश्यता । मानसी कलना येन येन भासां विभासनम्
क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् । यद् वेत्सि तद् असौ देवो येन वेत्सि तद् अप्य् असौ
द्रष्टृदर्शनदृश्यानां मध्ये यद् दर्शनं स्थितम् । साधो तदवधानेन स्वात्मानम् अवबुध्यसे