त्वाम् अप्य् उदितनिर्वाणम् अहङ्कारपिशाचकः । बाधते किम् इति ब्रूहि मुने मन्मोहशान्तये
अहम्भावं विना देहस्थितिस् तज्ज्ञाज्ञयोर् इह । आधेयस्य निराधारा न संस्थेवोपपद्यते
अयं त्व् अत्र विशेषस् तं शृणु विश्रान्तचेतसः । श्रुतेन येनाहम्भावपिशाचश् शान्तिम् एति ते
अहम्भावपिशाचो ऽयम् अज्ञानशिशुनामुना । अविद्यमान एवान्तẖ कल्पितस् तेन सूत्थितः
अज्ञानम् अपि नास्त्य् एव प्रेक्षितं यन् न लभ्यते । विचारिणा दीपवता स्वरूपं तमसो यथा
यथा यथा विलोक्यते तथा तथा विलीयते । इहाज्ञतापिशाचिका तथाविचारिता सती
विलसन्त्याम् अविद्यायाम् अज्ञतोदेति शाश्वती । बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि
सति सर्गे त्व् अविद्यायास् सम्भवो नासति क्वचित् । सति द्वितीये शशिनि द्वितीयो विद्यते शशः
सर्गस् त्व् अयम् अजातत्वाद् अज्ञज्ञातो न विद्यते । न जातẖ कारणाभावात् पूर्वम् एव खवृक्षवत्
परमाकाशकोशान्तर् आदिसर्गे निरामये । पृथ्व्यादेर् उपलम्भस्य भवेत् किम् इव कारणम्
बीजात् कारणतẖ कार्यम् अङ्कुरẖ किल जायते । न बीजम् अपि यत्रास्ति तत्र स्याद् अङ्कुरẖ कुतः
कारणेन विना कार्यं न च नामोपपद्यते । कदा क इव खे केन दृष्टो लब्धस् स्फुटो द्रुमः
सङ्कल्पेनाम्बरे यद् वा दृश्यते विटपादिकम् । स सङ्कल्पस् तथाभूतो न त्व् अत्रास्ति पदार्थता
यो ऽयम् एवं चिदाकाशे सर्गादाव् अनुभूयते । शून्ये कूप इवाकाशस् सर्गस् स्थितिनिरर्गलः
सम एव चिदाकाशẖ कचत्य् आत्मनि तत्तया । स्वभाव एव सर्गाख्यश् चित्त्वाच् चैतन्यम् ईश्वरः
स्वप्नसर्गो ऽत्र दृष्टान्तḫ प्रत्यहं यो ऽनुभूयते । स्वयं संवेदनं स्वप्ने स्फुरत्य् अद्रिपुराकृति
चित्स्वभावो यथा स्वप्न आस्ते सर्ग इवेह वः । असर्गे सर्गवद् भातस् तथा पूर्वं महाम्बरे
अवेद्यं वेदनं शुद्धम् एव भात्य् अजम् अव्ययम् । सर्गादौ यद् अनाद्यन्तं स्थितस् सर्गस् स एव वः
नेह सर्गो ऽस्ति नैवायं पृथ्व्यादिगणगोलकः । सर्वं शान्तम् अनालम्बं ब्रह्मैव ब्रह्मणि स्थितम्
सर्वशक्त्यात्म तद् ब्रह्म यथा कचति यादृशम् । रूपम् अत्यजद् एवाच्छं तथा भवति तादृशम्
यथा स्वप्नपुरं जन्तोश् चिन्मात्रप्रविजृम्भितम् । तथैव सर्गस् सर्गादौ शुद्धचिन्मात्रजृम्भितः
स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः । स्वभाव एव सर्गो ऽसाव् इति तेनैव भावितः
भाव्यभावकभावादिभूमीनां भवनं भृशम् । सर्वं चिन्नभ एवाच्छम् आत्मनात्मनि संस्थितम्
एवं स्थिते कुतस् सर्गẖ कुतो ऽविद्या क्व चाज्ञता । ब्रह्म शान्तं घनं सर्वं क्वाहङ्कारादयस् स्थिताः
अहम्भावस्य संशान्तिर् एषासौ कथिता तव । अहम्भावḫ परिज्ञातḫ पिशाच इव शाम्यति
मया त्व् एवम् अहम्भावḫ परिज्ञातो यदाखिलः । तदा मे विद्यमानो ऽपि निष्फलश् शरदभ्रवत्
चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः । तथाहम्भावसर्गादि ज्ञातं विफलताम् इयात्
इति मे ऽहङ्कृतेस् त्यागे रागे च समता यदि । तदा व्योम्न इव व्योम्नि सर्गे ऽसर्गे च मे स्थितिः
अहम्भावस्य नैवाहं नाहम्भावो ममेति च । तेन विद्धि चिदाकाशम् एवेदम् इति निर्घनम्
यथा मम तथान्येषाम् इति बोधवताम् इह । अग्नित्वम् इव चित्राग्नेर् नास्त्य् अहम्बोधविभ्रमः