क्वचिद् भ्रमत्सिद्धगणं क्वचिद् उद्गर्जदम्बुदम् । क्वचिद् विद्याधरधरं यक्षोत्क्षिप्तक्षयं क्वचित्
क्वचित् भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् । क्वचिद् द्रवज्जलधरं क्वचिद् उन्नृत्तयोगिनि
क्वचिद् दैत्यपुरोड्डीनं सगन्धर्वपुरं क्वचित् । क्वचिद् भ्रमद्ग्रहगणं तारकाकुलितं क्वचित्
क्वचित् खखगसङ्घुष्टं क्वचित् क्षुब्धमहानिलम् । क्वचिद् उत्पातवलितं क्वचिन् मङ्गलमण्डितम्
क्वचिच् चापूर्वभूतौघं नागैश् चागोपितं क्वचित् । क्वचिद् अर्करथाक्रान्तं क्वचिद् अर्करथोद्धुरम्
क्वचिद् आदित्यदाहार्तं शशिशैत्यान्वितं क्वचित् । क्वचित् क्षुद्रजनासह्यं क्वचिद् अग्न्यौष्ण्यदुर्गमम्
क्वचिद् उत्तालवेतालं गरुडोड्डामरं क्वचित् । क्वचित् सप्रलयाम्भोदं क्वचित् सप्रलयानिलम्
ततो भूतगणांस् त्यक्त्वा दूराद् दूरतरं गतः । प्राप्तवान् अहम् एकान्तं शून्यम् अत्यन्तविस्तृतम्
अत्यन्तमन्दपवनं स्वप्ने ऽप्य् अप्राप्तभूतकम् । मङ्गलोत्पातरहितम् अगम्यं सिद्धसन्ततेः
कल्पिताथ मया तत्र कुटी प्रकटकोटरा । नीरन्ध्रकुड्यनिबिडा पद्मकुट्मलसुन्दरी
घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा । कल्हारकुन्दमन्दारपुष्पश्रीकोशशोभिता
समग्रभूतागम्यत्वं तत्र सङ्कल्प्य चेतसा । अगम्ये सर्वभूतानाम् अहम् आसं तदा ततः
बद्धपद्मासनश् शान्तमनाḫ परममौनवान् । संवत्सरशतान्तेन निर्णीयोत्थानम् आत्मनः
निर्विकल्पसमाधिस्थो निद्रामुद्राम् इवागतः । समस् सोम्यो नभस्स्वच्छस् समुत्कीर्ण इवाम्बरात्
शुद्धं यद् अनुसन्धत्ते चेतḫ पश्यति तत् क्षणात् । चिरेण वा शापवरव्यक्तिवद् विततं यदा
तदा वर्षशतेनात्र बोधबीजं धृताङ्कुरम् । आसीन् मे हृदयक्षेत्रे कालसेकविकासतः
सम्प्रबुद्धो ऽभवन् मे ऽथ जीवो सम्बुद्धवेदनः । शिशिरक्षीणगात्रस्य मधाव् इव रसस् तरोः
तच् छतं तत्र वर्षाणां निमेष इव मे गतम् । बह्व्यो ऽपि कालगतयो भवन्त्य् एकधियां मनाक्
विकासम् आगतो बाह्यं ततो बुद्धीन्द्रियक्रमः । वासन्तḫ पुष्परूपेण द्रुमस्येव रसो मम
मां प्राणपूरितम् उपागतसंविदंशम् अभ्यागतस् त्व् अहम् इति प्रसृतḫ पिशाचः । इच्छाङ्गनाविवलितो ऽथ कुतो ऽपि सद्म प्रोन्नामसन्नमनवायुर् इवाग्रवृक्षम्
त्वाम् अप्य् उदितनिर्वाणम् अहङ्कारपिशाचकः । बाधते किम् इति ब्रूहि मुने मन्मोहशान्तये
अहम्भावं विना देहस्थितिस् तज्ज्ञाज्ञयोर् इह । आधेयस्य निराधारा न संस्थेवोपपद्यते
अयं त्व् अत्र विशेषस् तं शृणु विश्रान्तचेतसः । श्रुतेन येनाहम्भावपिशाचश् शान्तिम् एति ते
अहम्भावपिशाचो ऽयम् अज्ञानशिशुनामुना । अविद्यमान एवान्तẖ कल्पितस् तेन सूत्थितः
अज्ञानम् अपि नास्त्य् एव प्रेक्षितं यन् न लभ्यते । विचारिणा दीपवता स्वरूपं तमसो यथा
यथा यथा विलोक्यते तथा तथा विलीयते । इहाज्ञतापिशाचिका तथाविचारिता सती
विलसन्त्याम् अविद्यायाम् अज्ञतोदेति शाश्वती । बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि
सति सर्गे त्व् अविद्यायास् सम्भवो नासति क्वचित् । सति द्वितीये शशिनि द्वितीयो विद्यते शशः
सर्गस् त्व् अयम् अजातत्वाद् अज्ञज्ञातो न विद्यते । न जातẖ कारणाभावात् पूर्वम् एव खवृक्षवत्
परमाकाशकोशान्तर् आदिसर्गे निरामये । पृथ्व्यादेर् उपलम्भस्य भवेत् किम् इव कारणम्