पाषाणाख्यानम् अत्रेदं शृणु श्रुतिरसायनम् । पूर्वं मयैव यद् दृष्टं चित्रं प्रकृतम् एव वा
अहं विदितवेद्यत्वात् कदाचित् पूर्णमानसः । त्यक्तुम् इच्छुर् इमं लोकं व्यवहारघनभ्रमम्
ध्यानैकनिष्ठताम् एत्य शनैर् विश्रान्तये चिरम् । त्यक्ताजवञ्जवीभाव एकान्तार्थी शमं व्रजन्
इदं चिन्तितवान् अस्मि कस्मिंश्चिद् अमरालये । संस्थितो विविधाḫ पश्यन् भङ्गुरा जागतीर् गतीः
विरसा खल्व् इयं लोकस्थितिर् आपातसुन्दरी । न जातु सुखदा मन्ये कस्यचित् केनचित् क्वचित्
उद्वेगं जनयन्त्य् अन्तस् तीव्रसंवेगखेदतः । इमा दृश्यदृशो द्रष्टुर् इष्टानिष्टफलप्रदाः
किम् इदं दृश्यते किं वा प्रेक्ष्यते को ऽहम् एव वा । सर्वं शान्तम् अजं व्योम चिन्मात्रात्म निरिङ्गनम्
तस्मात् समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् । सुप्रदेशम् इतो गत्वा सङ्गोप्यात्मानम् आत्मना
अदृश्यस् सर्वभूतानां निर्विकल्पसमाधिगः । समे स्वच्छे पदे शान्ते आसे विगतवेदनम्
तस्मात् को नु प्रदेशस् स्याद् अत्यन्तं शून्यतां गतः । यत्रैता नानुभूयन्ते पञ्चबाह्यार्थवेदनाः
शब्दकाननवार्यब्दभूता ध्यानिनम् आकुलाः । क्षोभयन्त्य् अप्य् असङ्क्षुब्धास् तस्मान् मे गिरयो ऽरयः
नानाविधा नगेन्द्राणाम् अन्तरा वलिता जनैः । देशा विषमया एव निश्शेषा विषयाहिभिः
जनैर् जलचरैर् व्याप्तास् सागरागारकुक्षयः । विविधारम्भसंरब्धैर् नगराणीव नागरैः
तटान्य् अद्र्यम्बुराशीनां लोकपालपुराणि च । भूताकुलानि शृङ्गाणि पातालकुहराणि च
गायन्त्य् अनिलशीत्कारैर् नृत्यन्ति लतिकाकरैः । पुष्पैर् हसन्त्य् अगेन्द्राणां गुहा गहनकोटराः
मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः । सरस्यो विरसा एव वार्यावर्तविराविताः
पवनस्पन्दसङ्क्षुब्धतृणपांसुपताकिनी । रटत्य् अनिलभाङ्कारैर् निर्जनोर्व्य् अप्य् असंयता
तस्माद् आकाशम् आशून्यं कस्मिंश्चिद् दूरकोणके । अत्र तिष्ठाम्य् अवष्टभ्य योगयुक्तिम् अनिन्दिताम्
कस्मिंश्चिद् एककोणे ऽत्र कृत्वा कल्पनया कुटीम् । वज्रोदरदृढां तस्याम् अन्तस् तिष्ठाम्य् अवासनम्
इति सञ्चिन्त्य यातो ऽहम् आकाशम् असिनिर्मलम् । यावत् तद् अपि पश्यामि सकलं विततान्तरम्
क्वचिद् भ्रमत्सिद्धगणं क्वचिद् उद्गर्जदम्बुदम् । क्वचिद् विद्याधरधरं यक्षोत्क्षिप्तक्षयं क्वचित्
क्वचित् भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् । क्वचिद् द्रवज्जलधरं क्वचिद् उन्नृत्तयोगिनि
क्वचिद् दैत्यपुरोड्डीनं सगन्धर्वपुरं क्वचित् । क्वचिद् भ्रमद्ग्रहगणं तारकाकुलितं क्वचित्
क्वचित् खखगसङ्घुष्टं क्वचित् क्षुब्धमहानिलम् । क्वचिद् उत्पातवलितं क्वचिन् मङ्गलमण्डितम्
क्वचिच् चापूर्वभूतौघं नागैश् चागोपितं क्वचित् । क्वचिद् अर्करथाक्रान्तं क्वचिद् अर्करथोद्धुरम्
क्वचिद् आदित्यदाहार्तं शशिशैत्यान्वितं क्वचित् । क्वचित् क्षुद्रजनासह्यं क्वचिद् अग्न्यौष्ण्यदुर्गमम्
क्वचिद् उत्तालवेतालं गरुडोड्डामरं क्वचित् । क्वचित् सप्रलयाम्भोदं क्वचित् सप्रलयानिलम्
ततो भूतगणांस् त्यक्त्वा दूराद् दूरतरं गतः । प्राप्तवान् अहम् एकान्तं शून्यम् अत्यन्तविस्तृतम्
अत्यन्तमन्दपवनं स्वप्ने ऽप्य् अप्राप्तभूतकम् । मङ्गलोत्पातरहितम् अगम्यं सिद्धसन्ततेः
कल्पिताथ मया तत्र कुटी प्रकटकोटरा । नीरन्ध्रकुड्यनिबिडा पद्मकुट्मलसुन्दरी