यथा शून्यत्वम् आकाशे द्रवत्वं च यथा जले । अनन्यात्ममये शुद्धा सर्गतेयं तथात्मनि
भारूपम् इदम् आशान्तं जगद् ब्रह्मैव नस् ततम् । अनादिनिधनं सत्यं नोदेति न च नश्यति
देशाद् देशान्तरप्राप्तौ क्षणान् मध्ये विदो वपुः । यत् तज् जगद् इतीवेदं व्योमात्मात्मन्य् अवस्थितम्
यथा स्पन्दो ऽनिले तोये द्रवत्वं व्योम्नि शून्यता । तथा जगद् इदं भातम् अनन्यत् त्व् इदम् आत्मनि
संविन्नभो ननु जगन्नभ इत्य् अनङ्कम् आत्मन्य् अवस्थितम् अनस्तमयोदयाङ्कम् । तत्राङ्गभूतम् अखिलं तदनन्यद् एव शून्यं निरस्तकलनो ऽम्बरशान्तम् आस्स्व
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः । आदाव् एव हि नोत्पन्नास् सर्गादौ कारणं विना
न त्व् अमूर्तो हि चिद्धातुẖ कारणं भवितुं क्वचित् । खात्माशक्तस् समूर्तीनां बीजम् उर्वीरुहाम् इव
स्वभावम् एव सततं भावयन् भावनात्मकम् । आत्मन्य् एव हि चिद्धातुस् सर्गानुभववत् स्थितः
आस्वादयन् निजं भावं चिद्धातुर् गगनात्मकः । बद्धस् सर्गप्रलापेन क्षीवẖ क्षुब्धतया यथा
यदा सर्वम् अनुत्पन्नं नास्त्य् एवापि च दृश्यते । तदा ब्रह्मैव विद्धीदं समं शान्तम् असत्समम्
चिन्नभश् चिन्नभस्य् एव पयसीव पयोद्रवः । चित्त्वात् कचति यत् तेन तद् एव च जगत् कृतम्
स्वप्ने चिद् एव जगद् इत्य् उदेति विमला यथा । काचकच्येन कचति तथेत्थं सादिसर्गखे
चित्काचकच्यकचनं यथा स्वप्ने जगद् भवेत् । तथैव जाग्रदभिधं तत्खमात्रम् इदं स्थितम्
आदिसर्गे हि चित्स्वप्नो जाग्रद् इत्य् अभिशब्द्यते । अद्यरात्रौ चितेस् स्वप्नस् स्वप्न इत्य् अभिशब्द्यते
पूर्वप्रवृत्ता सरितां रूढाद्यापि यथा स्थिता । तरङ्गलेखा सृष्टीनां पदार्थरचना तथा
यथा वारि तरङ्गश्रीस् सरितां रचनाम् इता । तथा चिद्व्योम्नि चिद्बीजसत्तान्तस् सृष्टिताम् इता
मृतस्यानन्तनाशश् चेत् तन् निद्रासुखम् एव तत् । भूयश् चेद् एति संसारस् तत् सुखं नवम् एव तत्
कुकर्मभ्यस् तु चेद् भीतिस् सा समेह परत्र च । तस्माद् एते समसुखे सर्वेषां मृतिजन्मनी
मरनं जीवितं वास्तु सदृक्षे वासने तयोः । इति विश्रान्तचित्तो यस् सो ऽन्तश्शीतल उच्यते
अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् । उदेत्य् अपास्तसंवेद्यं सति चासति सर्गके
यन् न चेत्यं न चिद्रूपं यच् चित्तैर् अप्य् अचेतितम् । तद्भावैक्यं गतास् तज्ज्ञाश् शान्ता व्यवहृतौ स्थितेः
चित्काचकाचकच्यं यज् जगन् नाम्ना तद् उच्यते । अत्यच्छे परमाकाशे बन्धमोक्षदृशẖ कुतः
चिन्नभस्स्पन्दमात्रात्म सङ्कल्पात्मतया जगत् । सभूतमयम् एवेदं न पृथ्व्यादिमयं क्वचित्
नेह देशो न कालो ऽस्ति न द्रव्यं न क्रिया न खम् । सद् इवाखिलम् उच्छूनं चाप्य् अनुच्छूनम् अप्य् असत्
भाति केवलम् एवेत्थं परमार्थघनं घनम् । यन् न शून्यं न चाशून्यम् अत्यच्छं गगनाद् अपि
साकारम् अप्य् अनाकारम् असद् एवातिभासुरम् । अतिशुद्धैकचिन्मात्रं स्फारं स्वप्नपुरं यथा
निर्वाणम् एवम् इदम् आततम् इत्थम् अन्तश् चिद्व्योम्न आबिलम् अनाबिलरूपम् एव । नानेव न क्वचिद् अपि प्रसृतं न नाना शून्यत्वम् अम्बर इवाम्बुनि वा द्रवत्वम्
सर्वत्र सर्वदा सर्वं सर्वथा व्योम्नि चिन्मये । साधु सम्भवति स्वच्छं शून्यत्वम् ख इवाखिले
यत्र वित् तत्र सर्गश्रीर् अव्योम्नि व्योम्नि चास्ति वित् । चिन्मयत्वात् पदार्थानां सर्वेषां नास्त्य् अवित् क्वचित्
पदार्थजातं शैलादि यथा स्वप्ने पुरादि वा । चिद् एवैकं परं व्योम तथा जाग्रत्पदार्थभूः