विद्यते वटबीजे ऽन्तर् यथा भावी महाद्रुमः । परमाणौ तथा सर्गो ब्रह्मन् कस्मान् न विद्यते
यत्रास्ति बीजं तत्र स्याच् छाखा विततरूपिणी । जन्यते कारणैस् सा च वितता सहकारिभिः
समस्तभूतप्रलये बीजम् आकारि किं भवेत् । सहकार्य् अथ किं तस्य जायते यद्वशाज् जगत्
यत् तु ब्रह्म परं शान्तं का तत्राकारकल्पना । परमाणुत्वयोगो ऽपि नात्र केवात्र बीजता
कारणस्येति बीजस्य सत्यासत्यैककारिणः । असम्भवाज् जगत्सत्ता कथं केन कुतẖ क्व वा
जगद् आस्ते परस्याणोर् अन्तर् इत्य् अपि नोचितम् । सार्षपे कणके मेरुर् आस्त इत्य् अज्ञकल्पना
सति बीजे प्रवर्तन्ते कार्यकारणदृष्टयः । निराकारस्य किं बीजं क्व जन्यजनकक्रमः
अतो यत् परमं तत्त्वं तद् एवेदं जगत् स्थितम् । नेह प्रजायते किञ्चिन् न च किञ्चन नश्यति
चिदाकाशश् चिदाकाशे हृदि चित्त्वाज् जगद्भ्रमम् । अशुद्धवद् इवाशुद्धे शुद्धश् शुद्धे प्रपश्यति
स्वम् एव भासते तस्य रूपं स्पन्द इवानिले । सर्गशब्दार्थकलना नेह काश्चन सन्ति नः
यथा शून्यत्वम् आकाशे द्रवत्वं च यथा जले । अनन्यात्ममये शुद्धा सर्गतेयं तथात्मनि
भारूपम् इदम् आशान्तं जगद् ब्रह्मैव नस् ततम् । अनादिनिधनं सत्यं नोदेति न च नश्यति
देशाद् देशान्तरप्राप्तौ क्षणान् मध्ये विदो वपुः । यत् तज् जगद् इतीवेदं व्योमात्मात्मन्य् अवस्थितम्
यथा स्पन्दो ऽनिले तोये द्रवत्वं व्योम्नि शून्यता । तथा जगद् इदं भातम् अनन्यत् त्व् इदम् आत्मनि
संविन्नभो ननु जगन्नभ इत्य् अनङ्कम् आत्मन्य् अवस्थितम् अनस्तमयोदयाङ्कम् । तत्राङ्गभूतम् अखिलं तदनन्यद् एव शून्यं निरस्तकलनो ऽम्बरशान्तम् आस्स्व
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः । आदाव् एव हि नोत्पन्नास् सर्गादौ कारणं विना
न त्व् अमूर्तो हि चिद्धातुẖ कारणं भवितुं क्वचित् । खात्माशक्तस् समूर्तीनां बीजम् उर्वीरुहाम् इव
स्वभावम् एव सततं भावयन् भावनात्मकम् । आत्मन्य् एव हि चिद्धातुस् सर्गानुभववत् स्थितः
आस्वादयन् निजं भावं चिद्धातुर् गगनात्मकः । बद्धस् सर्गप्रलापेन क्षीवẖ क्षुब्धतया यथा
यदा सर्वम् अनुत्पन्नं नास्त्य् एवापि च दृश्यते । तदा ब्रह्मैव विद्धीदं समं शान्तम् असत्समम्
चिन्नभश् चिन्नभस्य् एव पयसीव पयोद्रवः । चित्त्वात् कचति यत् तेन तद् एव च जगत् कृतम्
स्वप्ने चिद् एव जगद् इत्य् उदेति विमला यथा । काचकच्येन कचति तथेत्थं सादिसर्गखे
चित्काचकच्यकचनं यथा स्वप्ने जगद् भवेत् । तथैव जाग्रदभिधं तत्खमात्रम् इदं स्थितम्
आदिसर्गे हि चित्स्वप्नो जाग्रद् इत्य् अभिशब्द्यते । अद्यरात्रौ चितेस् स्वप्नस् स्वप्न इत्य् अभिशब्द्यते
पूर्वप्रवृत्ता सरितां रूढाद्यापि यथा स्थिता । तरङ्गलेखा सृष्टीनां पदार्थरचना तथा
यथा वारि तरङ्गश्रीस् सरितां रचनाम् इता । तथा चिद्व्योम्नि चिद्बीजसत्तान्तस् सृष्टिताम् इता
मृतस्यानन्तनाशश् चेत् तन् निद्रासुखम् एव तत् । भूयश् चेद् एति संसारस् तत् सुखं नवम् एव तत्
कुकर्मभ्यस् तु चेद् भीतिस् सा समेह परत्र च । तस्माद् एते समसुखे सर्वेषां मृतिजन्मनी
मरनं जीवितं वास्तु सदृक्षे वासने तयोः । इति विश्रान्तचित्तो यस् सो ऽन्तश्शीतल उच्यते
अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् । उदेत्य् अपास्तसंवेद्यं सति चासति सर्गके