मिथस् सम्पन्नयोर् द्रष्टृदृश्ययोर् एकसङ्क्षये । द्वयाभावे स्थितिं याते निर्वाणम् अवशिष्यते
दृश्यस्य जगतस् तस्माद् अत्यन्तानुद्भवो यथा । ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा
कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति । एतस्मिंस् तु मुने सिद्धे न साध्यम् अवशिष्यते
बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका । नूनं विचारमन्त्रेण निर्मूलम् उपशाम्यति
न शक्यते झगित्य् एव समुच्छेदयितुं क्षणात् । समप्रयतने ह्य् अद्रौ समारोहावरोहणे
तस्माद् अभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः । जगद्भ्रान्तिर् यथा शाम्येत् तथेदं कथ्यते शृणु
वदाम्य् आख्यायिकां राम याम् इमां बोधसिद्धये । तां चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान्
अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते । यः किलोत्पद्यते राम तेन मुक्तेन भूयते
इयम् इत्थं जगद्भ्रान्तिर् भात्य् अजातैव खात्मिका । इत्य् उत्पत्तिप्रकरणे कथ्यते ऽस्मिन् मयाधुना
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम्
तन् महाप्रलये प्राप्ते रुद्रादिपरिणामिनि । भवत्य् असद् अदृश्यं च क्वापि याति विनश्यति
ततस् स्तिमितगम्भीरं न तेजो न तमस् ततम् । अनाख्यम् अनभिव्यक्तं सत् किञ्चिद् अवशिष्यते
न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् । न च भूतपदार्थौघो यद् अनन्ततया स्थितम्
किम् अप्य् अव्यपदेशात्म पूर्णात् पूर्णतराक्र्टि । न सन् नासन् न सदसन् नाभावो भवनं न च
चिन्मात्रं चेत्यरहितम् अनन्तम् अजरं शिवम् । अनादिमध्यपर्यन्तं यद् अनाधि निरामयम्
यस्मिञ् जगत् प्रस्फुरति दृष्टिमौक्तिकहंसवत् । यश् चेदं यश् च नैवेदं देवस् सदसदात्मकः
अकर्णजिह्वो ऽनासात्वङ्नेत्रस् सर्वत्र सर्वदा । यश् शृणोत्य् आस्वादयति जिघ्रन् स्पृशति पश्यति
स एव सदसद्रूपं येनालोकेन लक्ष्यते । सर्गचित्रम् अनाद्यन्तं खरूपं चाप्य् अरञ्जनम्
अर्धोन्मीलितदृग् भ्रूभूमध्यतारकवज् जगत् । व्योमात्मैव सदाभासं स्वरूपं यो ऽभिपश्यति
यस्यान्यद् अस्ति न विभोः कारणं शशशृङ्गवत् । यस्येदं च जगत् कार्यं तरङ्गौघ इवाम्भसः
ज्वलतस् सर्वतो ऽजस्रं चित्तस्थालीषु तिष्ठतः । यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम्
यं विनार्कादयो ऽप्य् एते प्रकाशास् तिमिरोपमाः । सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः
सस्पन्दे समुदेतीव निस्स्पन्दे ऽन्तर्गतेव च । इयं यस्मिञ् जगल्लक्ष्मीर् अलात इव चक्रता
जगन्निर्माणविलयविलासो व्यापको महान् । स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलो ऽक्षयः
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा । सत्ता नाम्नैव भिन्नेव व्यवहारान् न वस्तुतः
सर्वदैव प्रबुद्धो यस् सुप्तो यस् सर्वदैव च । न सुप्तो न प्रबुद्धश् च यस् सर्वत्रैव सर्वदा
यदस्पन्दश् शिवं शान्तं यत्स्पन्दस् त्रिजगत्स्थितिः । स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः
आमोद इव पुष्पेषु न नश्यति विनाशिषु । प्रत्यक्षस्थो ऽप्य् अथाग्राह्यश् शौक्ल्यं शुक्लपटेष्व् इव
मूकोपमो ऽपि यो वक्ता मन्ता यो ऽप्य् उपलोपमः । यो भोक्ता नित्यतृप्तो ऽपि कर्ता यश् चाप्य् अकिञ्चन
यो ऽनङ्गो ऽपि समस्ताङ्गस् सहस्रकरलोचनः । नकिञ्चित् संस्थितेनापि येन व्याप्तम् इदं जगत्