पूर्णात् पूर्णं प्रसरति पूर्णे पूर्णं विराजते । पूर्णम् एवोदितं पूर्णात् पूर्णे पूर्णं व्यवस्थितम्
शान्तं समं समुदयास्तमयैर् विहीनम् आकारमुक्तम् अजम् अम्बरम् अच्छम् एव । सर्वं सदा सदसद् एव तथोदितात्म निर्वाणम् आद्यम् इदम् उत्तमबोधरूपम्
जगन्नाम नभस् स्वच्छं सद् ब्रह्म नभसि स्थितम् । नभो नभसि भातीदं जगच्छब्दार्थ इत्य् अजम्
त्वम् अहं जगद् इत्यादिशब्दार्थैर् ब्रह्म ब्रह्मणि । शान्तं समसमाभासं स्थितम् अस्थितम् एव सत्
समुद्रगिरिमेघोर्वीविस्फोटमयम् अप्य् अजम् । काष्ठमौनवद् एवेदं जगद् ब्रह्मावतिष्ठते
द्रष्टाद्रष्टैव दृश्यस्याभावात् स्वात्मनि संस्थितः । कर्ताकर्तैव कर्तव्याभावतẖ करणाद् ऋते
न ज्ञत्वं न च कर्तृत्वं न जडत्वं न भोक्तृता । न शून्यता न चार्थत्वम् इह नापि नञर्थता
शिलाजठरवत् सत्यं घनम् एकम् अजं ततम् । सर्वं शान्तम् अनाद्यन्तम् एकं विधिनिषेधयोः
मरणं जीवितं सत्यम् असत्यम् अशुभं शुभम् । सर्वम् एकम् अजं व्योम वीचिजालं जलं यथा
विद्भाग एव दृश्यत्वं द्रष्टृत्वं चैव गच्छति । एतच् च कल्पनं स्वप्नपुरादिष्व् अनुभूयते
एवम् अच्छं पराकाशे स्वप्नपत्तनवज् जगत् । भाति प्रथमम् एवेदं ब्रह्मैवेत्थम् अतस् स्थितम्
तद् इदं तादृशं विद्धि सर्वं सर्वात्मकं च यत् । देशाद् देशान्तरप्राप्तौ विदो मध्यम् अनङ्कितम्
चिद्व्योम्नश् शान्तशान्तस्य मध्यम् एवैवम् आस्थितम् । जगत्तयेव सलिलम् एवोर्म्यादितया यथा
यद् उदेत्य् उदितं यच् च यच् च नोदेति नोदितम् । देशाद् देशान्तरप्राप्तौ विदो मध्यान् न भेदि तत्
अतẖ किलास्य सर्गस्य कारणं शशशृङ्गवत् । प्रयत्नेनापि चान्विष्टं न किञ्चिद् उपलभ्यते
यद् अकारणकं भाति तद् अभातं भ्रमात्मकम् । भ्रमस्यासत्यरूपस्य सत्यता कथम् उच्यते
कारणेन विना कार्यं किल किं नाम विद्यते । यद् अपुत्रस्य सत्पुत्रदर्शनं स भ्रमो न सत्
यस् त्व् अकारणको भाति स स्वभावो विजृम्भते । सर्वरूपेण सङ्कल्पगन्धर्वनगरादिवत्
देशाद् देशान्तरप्राप्तौ क्षणान् मध्यं विदो वपुः । स्वरूपम् अजहत् त्व् एव राजते ऽर्थविवर्तवत्
बोध एव कचत्य् अर्थरूपेण स च खाद् अणुः । दृष्टान्तो ऽत्रानुभूतो ऽन्तस् स्वप्नसङ्कल्पपर्वतः
विद्यते वटबीजे ऽन्तर् यथा भावी महाद्रुमः । परमाणौ तथा सर्गो ब्रह्मन् कस्मान् न विद्यते
यत्रास्ति बीजं तत्र स्याच् छाखा विततरूपिणी । जन्यते कारणैस् सा च वितता सहकारिभिः
समस्तभूतप्रलये बीजम् आकारि किं भवेत् । सहकार्य् अथ किं तस्य जायते यद्वशाज् जगत्
यत् तु ब्रह्म परं शान्तं का तत्राकारकल्पना । परमाणुत्वयोगो ऽपि नात्र केवात्र बीजता
कारणस्येति बीजस्य सत्यासत्यैककारिणः । असम्भवाज् जगत्सत्ता कथं केन कुतẖ क्व वा
जगद् आस्ते परस्याणोर् अन्तर् इत्य् अपि नोचितम् । सार्षपे कणके मेरुर् आस्त इत्य् अज्ञकल्पना
सति बीजे प्रवर्तन्ते कार्यकारणदृष्टयः । निराकारस्य किं बीजं क्व जन्यजनकक्रमः
अतो यत् परमं तत्त्वं तद् एवेदं जगत् स्थितम् । नेह प्रजायते किञ्चिन् न च किञ्चन नश्यति
चिदाकाशश् चिदाकाशे हृदि चित्त्वाज् जगद्भ्रमम् । अशुद्धवद् इवाशुद्धे शुद्धश् शुद्धे प्रपश्यति
स्वम् एव भासते तस्य रूपं स्पन्द इवानिले । सर्गशब्दार्थकलना नेह काश्चन सन्ति नः