तव तावन् महाबुद्धे सर्वार्थोपशमात्मकम् । न सम्यग्ज्ञानम् उत्पन्नं संशयो ऽत्र निदर्शनम्
यḫ प्रबुद्धो निराभासं परम् आभासम् आगतः । स्वस्थान्तẖकरणश् शान्तस् तं स्वभावं स पश्यति
अयं त्वम् अहम् इत्यादिस् त्रिकालगजगद्भ्रमः । तत्रास्ति हेमपिण्डे ऽन्तर् इव रूपकजालकम्
हेमपिण्डाद् यथा भाण्डजालं नानुपलभ्यते । तथा न लभ्यते भिन्नं परमार्थघनाज् जगत्
सर्वदैवापि भिन्नात्मा स्वाङ्गभूतोपलम्भदृक् । सजगच् चाजगच् चैतद् धेमेवाङ्गदरूपकम्
रिक्तं देशादिशब्दार्थैर् देशकालक्रियात्मकम् । यथास्थितम् इदं तत्र सर्वम् अस्ति न चास्ति च
यथोर्म्यादि समे तोये चित्रं चित्रकृदीहिते । भाण्डवृन्दम् अयḫपिण्डे तथेदं ब्रह्मणि स्थितम्
यथैतद् अत्र नो भिन्नं नाभिन्नं नास्ति चास्ति च । नित्यं तन्मयम् एवाच्छं शान्ते शान्तम् इदं तथा
अनिखातैव भातीयं त्रिजगत्सालभञ्जिका । सुरसस्यैव दृश्यत्वम् इता ब्रह्मणि दारुणि
निखाता दृश्यतां यान्ति स्तम्भस्थास् सालभञ्जिकाः । अखाता एव भान्त्य् अत्र त्रिजगत्सालभञ्जिकाः
अस्मिन्न् अक्षोभ्य एवान्तस् तरङ्गास् सृष्टिदृष्टयः । सरस्य् अतिरसे भान्ति चिद्घनामृतवृष्टयः
अविभागे विभागस्था अक्षोभे क्षुभिता इव । अविभाता विभान्तीव चिद्घने सृष्टिवृष्टयः
परमाणौ परमाणाव् अत्र संसारमण्डलम् । विभाति भासुरारम्भैर् अपि भाति न किञ्चन
आकाशकालपवनादिपदार्थजातम् अप्य् अङ्गम् अङ्गरहितस्य तद् अप्य् अनङ्गम् । सर्वात्मकं सकलभावविकारशून्यम् अप्य् एतद् आहुर् अजरं परमात्मतत्त्वम्
यथाचेत्ये चेतनता यथाकाले च कालता । यथा च व्योमताव्योम्न्य् अजडे च जडता यथा
यथावायौ च वायुत्वम् अभूतादौ च भूतता । यथास्पन्दात्मनि स्पन्दो यथामूर्ते च मूर्तता
यथाभिन्ने च भिन्नत्वं यथानन्ते च सान्तता । यथादृश्ये च दृश्यत्वं यथासर्गेषु सर्गता
एतत् क्रमेण हे ब्रह्मन् वद मे वदतां वर । आदितḫ परिपाट्यैव बोध्यन्ते ह्य् अल्पबोधिनः
तद् अनन्तं महाकाशं महाचिद्घनम् उच्यते । अवेद्यविद्रसमयं शान्तम् एकं समस्थिति
ब्रह्मविष्ण्वीश्वराद्यन्ते महाप्रलयनामनि । शब्दार्थे रूढिम् आपन्ने यच् छुद्धम् अवशिष्यते
सर्गस्य कारणं तत्र न किञ्चिद् उपपद्यते । मलम् आकारबीजादि मायामोहभ्रमादिकम्
केवलं शान्तम् अत्यच्छम् आद्यन्तपरिवर्जितम् । तद् विद्यते यत्र किल खम् अपि स्थूलम् अश्मवत्
न च नास्तीति तद् वक्तुं शक्यते विद्वपुर् यतः । न चैवास्तीति तद् वक्तुं युक्तं शान्तम् अलं यतः
निमेषयोजनशतं प्राप्तायाम् आत्मसंविदि । मध्ये तस्यां तु यद् रूपं रूपं तस्य पदस्य तत्
तस्मिन् पदे जगद्रूपं यद् इदं दृश्यते स्फुरत् । सकारणम् इवाकारकरालम् इव भेदवत्
तत् सर्वं कारणाभावान् न जातं न च विद्यते । नाकारयुक्तं न जगन् न च द्वैतैक्यसंयुतम्
यद् अकारणकं तस्य सत्ता नेहोपपद्यते । स्वयं नित्यानुभूते ऽर्थे को ऽत्रापह्नवशक्तिमान्
न च शान्तम् अनाद्यन्तं जगतẖ कारणं भवेत् । ब्रह्मामूर्तं सुमूर्तस्य दृश्यस्याब्रह्मरूपिणः
तस्मात् तत्र जगद्रूपं यद् आभानं तद् एव तत् । स्वयम् एव तद् आभाति चिदाकाशं चिति स्थितम्
जगच् चिद् ब्रह्म भावाश् च तथाभावो भ्रमादि च । सर्वम् एकम् अजं शान्तम् अद्वैतैक्यम् अनामयम्