कुत एषा कथं चेति विकल्पान् अनुदाहरन् । नेदम् एषा न चास्तीति स्वयं ज्ञास्यसि बोधतः
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वविकाराढ्यं कल्पान्ते तद् विनश्यति
अस्य भागविभागात्मा नाशो ऽवश्यम् अवारितः । बिन्दुना बिन्दुनाम्भोधेर् उद्धृतस्यास्ति हि क्षयः
एवं स्थिते द्रव्यनाशे ब्रह्मणस् तन्मयत्वतः । नानन्तत्वं न चास्तित्वं न चैतत् सम्भवत्य् अलम्
मदशक्तिर् इव ज्ञानम् इति नास्मासु सिध्यति । देहावज्ञानतो ऽस्माकं स्वप्नवत् तन् न तत्त्वतः
नश्यत्य् एति च दृश्यश्रीस् सैवान्यैव नवैव वा । इत्थं भवेत् समुचितं कृतं शास्त्रं न चान्यथा
सैवैतीत्य् असमुल्लेखं कथं नष्टस्य सम्भवः । तद्रूपान्येति युक्तं स्याद् अनुभूतार्थगा वयम्
सैव व्योमतयैवासीद् इत्य् असत् सैव सा कथम् । तथैव व्योमसंस्था चेन् नाशं तर्हि न सा गता
कार्यकारणयोर् एकरूपतैवं यदा तदा । कार्यकारणताभावाद् ऐक्यम् एवास्मदागमः
शून्यं त्व् अनुपलम्भत्वं यद् गतं नष्टम् एव तत् । अन्यस् तर्हि भवेन् नाशẖ कीदृशẖ किल कथ्यताम्
नष्टं भूयस् तद् उत्पन्नम् इति तत् प्रत्ययो ऽत्र कः । नश्यत्य् अवश्यं तेनेदं पुनर् अन्यत् प्रवर्तते
मध्यमध्योद्यदुत्सेधफलाद्यवयवैकिका । आदाहं बीजसत्तास्ति कार्यकारणता कुतः
देशकालक्रियात्मैकं यथादृष्टम् इह स्थितम् । बीजम् एवैककम् अतो न घटḫ पटकार्यकृत्
सर्वदर्शनविश्रान्ते नाम्नि भेदो न वस्तुनि । परमार्थमये तेन विवादेन किम् अत्र नः
इदं शान्तम् अनाद्यन्तं तद्रूपत्वाद् विचारतः । व्योमाभं बोधतामात्रम् अनुभूतिप्रमाणतः
यथैतन् नानुभूतं सद् यथैतन् नानुभूयते । यथैतत् सिद्धिम् आप्नोति तद् इदं कथ्यते क्रमात्
महाकल्पान्त उन्नष्टे सर्वस्मिन् दृश्यमण्डले । आमहादेवपर्यन्तं समनोबुद्धिकर्मणि
व्योमन्य् अपि शमं याते काले ऽप्य् अकलितस्थितौ । वायाव् अपि क्वापि गते तेजस्य् अत्यन्तम् अस्थिते
तमस्य् उपगते ध्वंसं वार्यादौ सुचिरं क्षते । अलम् अन्तम् अनुप्राप्ते सर्वशब्दार्थसञ्चये
शिष्यते शान्तबोधात्म सद् अच्छं बोध्यवर्जितम् । अनादिनिधनं बोध्यं किम् अप्य् अमलम् अव्ययम्
अवाच्यम् अनभिव्यक्तम् अतीन्द्रियम् अनामकम् । सर्वभूतात्मकं शून्यं सद् असच् च परं पदम्
तन् न वायुर् न चाकाशं न बुद्ध्यादि न शून्यकम् । न किञ्चिद् अथ सर्वात्म किम् अप्य् अन्यत् परं नभः
तद्विदा तत्पदस्थेन तन् मुक्तेनानुभूयते । अन्यैẖ केवलम् आम्नातैर् आगमैर् एव वर्ण्यते
न कालो न तमो नात्मा न सन् नासन् न देशदिक् । न मध्यम् एतयोर् नान्तो न बोधो नाप्य् अबोधितम्
किम् अप्य् एतद् अत्यच्छं च बुध्यते बोधपारगैः । शान्तसंसारविसरैḫ परां भूमिम् उपागतैः
प्रतिषिद्धा मयैते तु ये ऽर्थास् सर्वे ऽत्र ते स्थिताः । अस्मद्बुद्ध्यापरिच्छेद्यास् सोम्याम्बोधेर् इवोर्मयः
यथास्थितं स्थितास् सर्वे भावास् तत्र तथा यथा । अनुत्कीर्णा महास्तम्भे विविधास् सालभञ्जिकाः
एवं तत्र स्थितास् सर्वे भावास् तत्र न च स्थिताः । असर्वात्मैव सर्वात्म तद् एतद् अतद् एव च
पदं यथैतत् सर्वात्म सर्वार्थपरिवर्जितम् । यथावत् तत् प्रपश्यन्ति तत्रैकपरिणामिनः
सर्वार्थास्तमये जाते सर्वार्थरहितं पदम् । सर्वार्थपरिपूर्णं च तद् आद्यं परिदृश्यते