भवत्य् एकसमाधानस् सोम्यात्मा व्योमनिर्मलः । तिष्ठत्य् अपगतासङ्गस् स्थित एवाप्य् असत्समः
अस्तङ्गतमना मौनी निरोधपदवीं गतः । तीर्णस् संसारजलधेẖ कर्मणाम् अन्तम् आगतः
तनुभुवनगगनगिरिगणकरणपरं परमम् अज्ञानम् । विगलति गलिते तस्मिन् सकलम् इदं विद्यमानम् अपि
शान्ततरान्तẖकरणो गलितविकल्पस् स्वरूपसारमयः । परमशमामृततृप्तस् तिष्ठति विद्वान् निरावरणः
बोधो जगद् इवाभाति मुने येन क्रमेण हे । तं क्रमेण क्रमं ब्रूहि भूयो ऽबोधनिवृत्तये
दक्षस्येव विमूढस्य यद् दृष्टौ तत् स्वचेतसि । यन् न दृष्टं न तच् चित्ते भवत्य् अल्पतरस्मृतेः
भव्यḫ पश्यति शास्त्रार्थम् एव पूर्वापरान्वितम् । न दृष्टिविषयं वस्तु यत् पश्यति करोति तत्
भव्यानुष्ठाननिष्ठस् सञ् शास्त्रार्थैकमना मुनिः । भूत्वोपदेशं त्वम् इमं शृणु श्रवणभूषणम्
इयं दृश्यभरभ्रान्तिर् नन्व् अविद्येति योच्यते । वस्तुतो विद्यते नैषा तापनद्यां यथा पयः
उपदेश्योपदेशार्थम् एनां मदुपरोधतः । सत्याम् इव क्षणं तावद् आश्रित्य श्रूयताम् इदम्
कुत एषा कथं चेति विकल्पान् अनुदाहरन् । नेदम् एषा न चास्तीति स्वयं ज्ञास्यसि बोधतः
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वविकाराढ्यं कल्पान्ते तद् विनश्यति
अस्य भागविभागात्मा नाशो ऽवश्यम् अवारितः । बिन्दुना बिन्दुनाम्भोधेर् उद्धृतस्यास्ति हि क्षयः
एवं स्थिते द्रव्यनाशे ब्रह्मणस् तन्मयत्वतः । नानन्तत्वं न चास्तित्वं न चैतत् सम्भवत्य् अलम्
मदशक्तिर् इव ज्ञानम् इति नास्मासु सिध्यति । देहावज्ञानतो ऽस्माकं स्वप्नवत् तन् न तत्त्वतः
नश्यत्य् एति च दृश्यश्रीस् सैवान्यैव नवैव वा । इत्थं भवेत् समुचितं कृतं शास्त्रं न चान्यथा
सैवैतीत्य् असमुल्लेखं कथं नष्टस्य सम्भवः । तद्रूपान्येति युक्तं स्याद् अनुभूतार्थगा वयम्
सैव व्योमतयैवासीद् इत्य् असत् सैव सा कथम् । तथैव व्योमसंस्था चेन् नाशं तर्हि न सा गता
कार्यकारणयोर् एकरूपतैवं यदा तदा । कार्यकारणताभावाद् ऐक्यम् एवास्मदागमः
शून्यं त्व् अनुपलम्भत्वं यद् गतं नष्टम् एव तत् । अन्यस् तर्हि भवेन् नाशẖ कीदृशẖ किल कथ्यताम्
नष्टं भूयस् तद् उत्पन्नम् इति तत् प्रत्ययो ऽत्र कः । नश्यत्य् अवश्यं तेनेदं पुनर् अन्यत् प्रवर्तते
मध्यमध्योद्यदुत्सेधफलाद्यवयवैकिका । आदाहं बीजसत्तास्ति कार्यकारणता कुतः
देशकालक्रियात्मैकं यथादृष्टम् इह स्थितम् । बीजम् एवैककम् अतो न घटḫ पटकार्यकृत्
सर्वदर्शनविश्रान्ते नाम्नि भेदो न वस्तुनि । परमार्थमये तेन विवादेन किम् अत्र नः
इदं शान्तम् अनाद्यन्तं तद्रूपत्वाद् विचारतः । व्योमाभं बोधतामात्रम् अनुभूतिप्रमाणतः
यथैतन् नानुभूतं सद् यथैतन् नानुभूयते । यथैतत् सिद्धिम् आप्नोति तद् इदं कथ्यते क्रमात्
महाकल्पान्त उन्नष्टे सर्वस्मिन् दृश्यमण्डले । आमहादेवपर्यन्तं समनोबुद्धिकर्मणि
व्योमन्य् अपि शमं याते काले ऽप्य् अकलितस्थितौ । वायाव् अपि क्वापि गते तेजस्य् अत्यन्तम् अस्थिते
तमस्य् उपगते ध्वंसं वार्यादौ सुचिरं क्षते । अलम् अन्तम् अनुप्राप्ते सर्वशब्दार्थसञ्चये
शिष्यते शान्तबोधात्म सद् अच्छं बोध्यवर्जितम् । अनादिनिधनं बोध्यं किम् अप्य् अमलम् अव्ययम्