यादृक् स्यात् कारणे कार्यं स्थितं कारणतास्य का । कार्यम् एवोपलम्भान्तर् असद् द्वयम् अवेदनात्
सोम्यस्यान्तर् यथैवाब्धेर् ऊर्म्यावर्तादयस् स्थिताः । ब्रह्मण्य् असम्भवत्क्षोभे जगच्चित्तादयस् तथा
सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् । नानाभाण्डात्म हेमैव यथान्तस्स्थितरूपकम्
स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् । जाग्रत्काले जाग्रद् एव स्वप्नो ऽसत्यावबोधतः
चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत् स्थितम् । जाग्रत् स्वप्नत्वम् आयाति विचारविकलीकृतम्
सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह । पीठबन्धं विमुञ्चन्ति गतकाला इवाम्बुदाः
यथा गलितुम् आरब्धो घनो गगनताम् इयात् । तथा सत्यावबोधेन शाम्येत् सात्मग्रहं जगत्
शरदभ्रवद् आलूना मृगतृष्णाम्बुवत् तथा । पुरस् सन्दृश्यमानैव बोधाद् गलति दृश्यता
यथा दीप्तानले लीनं सुवर्णं घृतम् इन्धनम् । एकतां याति विज्ञाने तथा भुवनचित्तदृक्
बोधेन तनुताम् एति पिण्डबन्धो जगत्त्रये । पिशाचबुद्धिस् सदने बोधितस्य यथा शिशोः
बोधस्यानन्तरूपस्य स्वयम् एवात्मनात्मनि । जगच्चित्तादिता भाति पिण्डबन्धẖ किलात्र कः
बोधबोधनम् एवेदं जगच् चित्तम् इवोदितम् । तद् एवास्तङ्गतं बोधात् पिण्डबन्धस्य कास्तिता
जहाति पिण्डकाठिन्यं जगत् स्वप्नावबोधतः । परां पेलवताम् एति हेम द्रुतम् इवाग्निना
यथास्थितो बोध एव घनताम् एष गच्छति । विनैव देशकालाभ्यां तौ विनिर्माय हेमवत्
जाग्रत्य् एवं विचारेण स्वप्नाभे पेलवे स्थिते । क्षीयमाणे शरत्काले इवैति तनुतां रसः
परां पेलवतां याता दृश्यलक्ष्म्यस् स्थिता अपि । स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः
क्व किल स्वान्तविश्रान्तिẖ क्वैतद् विषयवेदनम् । सुषुप्तजाग्रतोर् ऐक्यं क्व च्छायातपयोẖ क्व वा
द्रष्टृदृश्यदशा भ्रान्तिर् अभ्रान्तिस् स्वात्मनिष्ठता । कथं सदसतोर् ऐक्यं भ्रान्ताभ्रान्तात्मनोर् भवेत्
चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते । जगतीह पदार्थेभ्यस् सत्यबुद्धिर् निवर्तते
कस्य स्वदन्ते ऽसत्यानि कथम् अप्य् अमहामतेः । मृगतृष्णाजलानीव दृश्यान्य् अपि पुरस्स्थितेः
सत्यबुद्धौ विलीनायां जगत् पश्यति शान्तधीः । जलदीपांशुजालाभम् अपिण्डात्माम्बरात्मकम्
जगतो ऽवस्तुनश् शून्यात् परिज्ञानान् निवर्तते । चित्तभ्रमात्मनो भ्रान्तिरूपा स्वदनभावना
यद् अवस्त्व् इति विज्ञातं तत्रोपादेयता कुतः । केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते
स्वप्नाद् इव परिज्ञाताद् रसो दृश्यान् निवर्तते । द्रष्टृदृश्यदशादोषग्रन्थिच्छेदḫ प्रवर्तते
नीरसश् शान्तमननो निर्वाणाहङ्कृतिẖ कृती । वीतरागो निरायासश् शान्तस् तिष्ठति बुद्धधीः
रसे नीरसतां याते वासना प्रविलीयते । शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा
बोधाद् दीपांशुजालाभम् अघनं व्योम दृश्यते । भ्रान्तिरूपं जगत् कृत्स्नं गन्धर्वनगरं यथा
नैवात्मानं न चाकाशं न शून्यं न च वेदनम् । अत्यन्तपरिणामेन पश्यन् पश्यति तत् पदम्
यत्र नात्मा न शून्यं च न जगत् कलना न च । न चित्तदृश्योदयधीस् सर्वं चास्ति यथास्थितम्
भूम्यादिताज्ञसम्बुद्धा ज्ञानाद् अस्तम् उपागता । ज्ञस्य शून्यैव सम्पन्ना संस्थितापि न विद्यते