अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः । नानापदार्थरूपेण कम् ऊर्म्यादितया यथा
बाह्यं न विद्यते किञ्चिद् बोधस् स्फुरति बाह्यवत् । उदेति बोधो हृदयाद् बीजाद् इव वरद्रुमः
बोधस्यान्तर् इदं विश्वं स्थितम् एव रघूद्वह । स्तम्भस्यान्तर् यथा सालभञ्जिका प्रकटीकृता
सबाह्याभ्यन्तरात्मैकम् अनन्तं देशकालतः । बोधामोदप्रसरणं जगद् इत्य् अवबुध्यताम्
अयम् एव परो लोको भाव्यतां वासनाक्षयः । शाम्यतां परलोकास्थं काẖ किलायान्ति वासनाः
देशकालक्रियालोकरूपचित्तात्मसम्पदाम् । देशकालादिशब्दार्थरहितं न च शून्यकम्
पदे पदविदाम् एव तस्मिञ् शून्ये गतिर् भवेत् । द्रष्टॄणां शान्तदृश्यानाम् एवान्येषां न राघव
ये वै तरलगम्भीरम् अहन्तागर्तम् आश्रिताः । पश्यन्ति ते तम् आलोकं न कदाचन केचन
चतुर्दशविधानन्तभूतजातसघुङ्घुमा । जगद्दृष्टिर् इयं ज्ञस्य शरीरावयवोपमा
कारणाभावतस् सृष्टिर् नोदिता न च शाम्यति । यादृशं कारणं वा स्यात् तादृग् भवति कार्यकम्
यादृक् स्यात् कारणे कार्यं स्थितं कारणतास्य का । कार्यम् एवोपलम्भान्तर् असद् द्वयम् अवेदनात्
सोम्यस्यान्तर् यथैवाब्धेर् ऊर्म्यावर्तादयस् स्थिताः । ब्रह्मण्य् असम्भवत्क्षोभे जगच्चित्तादयस् तथा
सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् । नानाभाण्डात्म हेमैव यथान्तस्स्थितरूपकम्
स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् । जाग्रत्काले जाग्रद् एव स्वप्नो ऽसत्यावबोधतः
चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत् स्थितम् । जाग्रत् स्वप्नत्वम् आयाति विचारविकलीकृतम्
सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह । पीठबन्धं विमुञ्चन्ति गतकाला इवाम्बुदाः
यथा गलितुम् आरब्धो घनो गगनताम् इयात् । तथा सत्यावबोधेन शाम्येत् सात्मग्रहं जगत्
शरदभ्रवद् आलूना मृगतृष्णाम्बुवत् तथा । पुरस् सन्दृश्यमानैव बोधाद् गलति दृश्यता
यथा दीप्तानले लीनं सुवर्णं घृतम् इन्धनम् । एकतां याति विज्ञाने तथा भुवनचित्तदृक्
बोधेन तनुताम् एति पिण्डबन्धो जगत्त्रये । पिशाचबुद्धिस् सदने बोधितस्य यथा शिशोः
बोधस्यानन्तरूपस्य स्वयम् एवात्मनात्मनि । जगच्चित्तादिता भाति पिण्डबन्धẖ किलात्र कः
बोधबोधनम् एवेदं जगच् चित्तम् इवोदितम् । तद् एवास्तङ्गतं बोधात् पिण्डबन्धस्य कास्तिता
जहाति पिण्डकाठिन्यं जगत् स्वप्नावबोधतः । परां पेलवताम् एति हेम द्रुतम् इवाग्निना
यथास्थितो बोध एव घनताम् एष गच्छति । विनैव देशकालाभ्यां तौ विनिर्माय हेमवत्
जाग्रत्य् एवं विचारेण स्वप्नाभे पेलवे स्थिते । क्षीयमाणे शरत्काले इवैति तनुतां रसः
परां पेलवतां याता दृश्यलक्ष्म्यस् स्थिता अपि । स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः
क्व किल स्वान्तविश्रान्तिẖ क्वैतद् विषयवेदनम् । सुषुप्तजाग्रतोर् ऐक्यं क्व च्छायातपयोẖ क्व वा
द्रष्टृदृश्यदशा भ्रान्तिर् अभ्रान्तिस् स्वात्मनिष्ठता । कथं सदसतोर् ऐक्यं भ्रान्ताभ्रान्तात्मनोर् भवेत्
चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते । जगतीह पदार्थेभ्यस् सत्यबुद्धिर् निवर्तते
कस्य स्वदन्ते ऽसत्यानि कथम् अप्य् अमहामतेः । मृगतृष्णाजलानीव दृश्यान्य् अपि पुरस्स्थितेः