ते स्वप्नजागराẖ केचित् केचित् सङ्कल्पजागराः । केचित् केवलजाग्रत्स्थास् चिरजाग्रत्स्थिताḫ परे
घनजाग्रत्स्थिताश् चान्ये जाग्रत्स्वप्नास् तथेतरे । क्षीणजागरकाẖ केचिज् जीवास् सप्तविधास् स्मृताः
एतेषां भगवन् भेदो बोधाय मम कथ्यताम् । जीवानां सप्तरूपाणां जलानाम् अर्णवेष्व् इव
कस्मिंश्चित् प्राक्तने कल्पे कस्मिंश्चिज् जगति क्वचित् । केचित् सुप्तास् स्थिता देहैर् जीवा जीवितधर्मिणः
ये स्वप्नम् अभिपश्यन्ति तेषां स्वप्नम् इदं जगत् । विद्धि ते हि खलूच्यन्ते जीवकास् स्वप्नजागराः
क्वचिद् एव प्रसुप्तानां यस् स्वप्नस् स्वयम् उत्थितः । विषये सो ऽयम् अस्माकं तेषां स्वप्ननरा वयम्
तेषां चिरतया स्वप्नस् स जाग्रत्त्वम् उपागतः । स्वप्नजागरकास् ते तु जीवा ये तद्गतास् स्थिताः
सर्वज्ञत्वात् सर्वगस्य सर्वं सर्वत्र विद्यते । तेन स्वप्नवतां तेषां वयं स्वप्ननरास् स्थिताः
येषु कल्पेषु ते जाताẖ क्षीयन्ते कल्पकल्पनाः । यदि तास् तत् कथं तेषां प्रबुद्धानाम् अवस्थितिः
इह स्वप्नभ्रमात् ते तु मुच्यन्ते वा विनिद्रताम् । प्राप्य सङ्कल्प्य ते देहांस् तथैवान्याञ् श्रयन्त्य् अलम्
तथैवान्यं च पश्यन्ति जगत्कल्पं प्रकल्पितम् । कल्पनाभासनभसो न हि सङ्कटता भवेत्
स्वकल्पनात्मकजगज्जीर्णोदुम्बरकीटकाः । स्वप्नजागरकाḫ प्रोक्ताश् शृणु सङ्कल्पजागरान्
कस्मिंश्चित् प्राक्तने कल्पे कस्मिंश्चिज् जगति क्वचित् । अनिद्रालव एवान्तस् सङ्कल्पैकपरास् स्थिताः
ध्यानाद् विलुठिता वाथ मनोराज्यवशानुगाः । सङ्कल्पदार्ढ्यम् आपन्ना गलिताग्रानुभूतयः
सङ्कल्प एव जाग्रत्त्वं येषां चिरतया गतः । तत्रास्तमितचेष्टानां ते हि सङ्कल्पजागराः
कल्पनोपशमे भूयस् तम् अन्यं वा श्रयन्ति ते । देहं तेषां वयम् इमे सङ्कल्पपुरुषास् स्थिताः
सङ्कल्पजागराḫ प्रोक्ता एते सङ्कल्पशायिनः । जीवा जीवितहेवाकाश् शृणु केवलजागरान्
प्राथम्येनावतीर्णास् ते ब्रह्मणो बृंहितात्मनः । प्रोक्ताẖ केवलजागर्याḫ प्रागुत्पत्त्यविकासिनः
भूयोजन्मान्तरगतास् त एव चिरजागराः । कथ्यन्ते प्रौढिम् आयाताẖ कार्यकारणचारिणः
त एव दुष्कृतावेशाज् जडास् स्थावरतां गताः । घनजाग्रतयḫ प्रोक्ता जाग्रत्सु घनतां गताः
ये तु शास्त्रार्थसत्सङ्गबोधिता बोधम् आगताः । पश्यन्ति स्वप्नवज् जाग्रज् जाग्रत्स्वप्ना भवन्ति ते
ये तु सम्प्राप्तसम्बोधा विश्रान्ताḫ परमे पदे । क्षीणजाग्रत्प्रभृतयस् ते तुर्यां भूमिकाम् इताः
इति सप्तविधो भेदो जीवानां कथितस् तव । समुद्राणाम् इव मया बुद्ध्वा श्रेयḫपरो भव
भ्रान्तिं परित्यज जगद्गणनात्मिकां त्वं बोधैकरूपघनताम् अलम् आगतो ऽसि । शून्यत्ववर्जितम् अशून्यतया च मुक्तम् एतद् द्वयैक्यकविमुक्तवपुस् त्वम् आद्यम्
कथं केवलजाग्रत्त्वम् अकारणम् अकर्मकम् । पराद् विकसति ब्रह्मन् गगनाद् इव पादपः
अकारणं महाबुद्धे न कार्यम् उपलभ्यते । तज् जाग्रतẖ केवलस्य न कश्चिद् इह सम्भवः
तस्यातो ऽसम्भवाद् अन्ये जीवभेदास् सजीवकाः । सर्वे न सम्भवन्त्य् एव कारणाभावविक्षताः
नेह प्रजायते किञ्चिन् नेह किञ्चन नश्यति । उपदेश्योपदेशार्थं शब्दार्थकलनोदयः
कẖ करोति शरीराणि मनोबुद्ध्यादिचेतनैः । को मोहयति भूतानि स्नेहरागादिबन्धनैः
न कश्चिद् एव कुरुते शरीराणि कदाचन । न मोहयति भूतानि कश्चिद् एव कदाचन