बहिर् अन्तश् च बोधस्य भात्य् आत्मैवार्थदृष्टिभिः । अन्तस्त्वेन बहिष्ट्वेन चैवास्य मनसो यथा
बोधस्याकाशकल्पत्वात् कालाकाशादि तद्वपुः । पदार्थाश् चैव खात्मानस् स्वप्नवन् नार्थरूपि खम्
बाह्यार्थतां चान्तरत्वं बोधो ऽबोधवशाद् व्रजेत् । नासद् दृश्यं हि बोधत्वं गन्तुं शक्तं जडं क्वचित्
बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् । सद् यथास्थितम् एवास्ते मनाग् अप्य् एति नान्यताम्
अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये । बोधाबोधार्थशब्दानां स्मृतिर् अप्य् अस्तम् एष्यति
आतिवाहिकदेहानां चित्तानाम् एव जायते । आधिभौतिकताबोधो दृढभावनया स्वयम्
आकाशविशदैश् चित्तैर् भावितैषातिवाहिकैः । आधिभौतिकता मिथ्या नटैर् इव पिशाचता
भ्रान्तिर् अभ्रमणाभ्यासात् प्रज्ञातैषोपशाम्यति । नोन्मत्तो ऽस्मीति सम्बोधाच् छाम्यत्य् उन्मत्तता किल
भ्रान्तेस् स्वयं परिज्ञानाद् वासना विनिवर्तते । स्वप्ने स्वप्नतया बुद्धे कस्य स्यात् किल भावना
वासनातानवेनैव संसार उपशाम्यति । वासनैव महान् ग्रन्थिर् एतच्छेदपरा बुधाः
अज्ञानोन्मत्तता पुंसा यथाभ्यासेन भाविता । तथैव बोधस्वभ्यासात् सा कालेनोपशाम्यति
आतिवाहिकदेहो ऽयम् आधिभौतिकतां यथा । नीयते भावनात् तज्ज्ञैर् बोधसत्तां प्रसादतः
आतिवाहिकदेहो ऽपि नीत्वा जीवपदं तथा । दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मताम् अपि
स्वयम्भुवश् चेद् उत्पत्तिर् बुध्यते बोधरूपिणी । तदातिवाहिका बुद्धिẖ कथम् इत्य् अपि बुध्यते
नो चेत् तत् प्रति वाक्यार्थं न ग्रन्थिर् विनिवर्तते । भूतोत्सादनसूत्रस्य प्रति मन्त्रपदं यथा
जगद्बोधैकता बुद्ध्या बोद्धव्या तावद् अव्रणम् । अत्यन्तपरिणामेन यावत् सापि न बुध्यते
सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता । शीतलां व्योमनिर्भासां ताम् एवाश्रित्य शाम्यताम्
ज्ञानवाञ् ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् । जगद् विजित्य यजति सर्वत्यागैकदक्षिणः
पतत्य् अङ्गारवर्षे वा वाति वा प्रलयानिले । भूतले व्रजति व्योम्नि समम् आस्ते ज्ञ आत्मनि
वैतृष्ण्यशान्तमनसो निरोधम् अलम् ईयुषः । स्थितिर् वज्रसमाधानं विनान्या नोपपद्यते
यथा बाह्यार्थवैतृष्ण्येनोपशाम्यत्य् अलं मनः । न तथा शास्त्रसन्दर्भैर् नोपदेशतपोदमैः
मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर् विबोध्यताम् । सर्वत्यागानिलैस् सम्पद् अत्यापद् इति भावनात्
बहिर् अन्तश् च मोहश् च पिण्डग्राहो ऽर्थवेदनम् । ज्ञप्तिर् एवेति कचति ज्ञत्वान् मणिर् इवात्मनि
नरनागसुरागारगिरिगह्वरदृष्टिभिः । चितिर् एवातिविसृता धूमो ऽम्बुदतयेव खे
चोपन्ति विद्रवत्वेन ब्रह्माण्डजडभाण्डगाः । स्वविवर्ततरङ्गिण्यो जीवशक्त्या पतद्रसाः
जीवका जीर्णशफरा व्योमवारिविहारिणः । मोहजालेन वलिता न स्मरन्त्य् आत्मनि स्थितिम्
घनीभूता घनत्वेन चिद्घना गगनाङ्गने । नानापदार्थरूपेण स्फुरन्ति स्वात्मनात्मनि
सर्व एवम् अमी जीवा वासनावातरेणवः । शुष्कपर्णवद् उद्ग्रीवा जडाश् श्वसनवेणवः
आहृत्य पौरुषबलान्य् अवजित्य तन्द्रीम् उत्थाय तर्जितसमर्जितवासनौघम् । संसारपाशघनपञ्जरम् अञ्जसैव भङ्क्त्वाभ्युदेयम् इति नाज्ञसमेन भाव्यम्
इमे ये जीवसङ्घाता दृश्यन्ते दशदिग्गताः । नरनागसुरागेन्द्रगन्धर्वाद्यभिधानकाः