सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् । रुद्रस् सर्वान् संहरति सर्वान् सृजति पद्मभूः
खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् । कुलाचलगणो भूत्वा लोकपालपुरास्पदम्
भूमिर् भूत्वा बिभर्तीमां लोकस्थितिम् अखण्डिताम् । तृणगुल्मलता भूत्वा ददाति फलसन्ततिम्
बिभ्रज् जलानलाकारञ् ज्वलति द्रवति द्रुतः । चन्द्रो ऽमृतं प्रसवति मृतिं हालाहलं विषम्
तेजः प्रकटयत्य् आशास् तनोत्य् आन्ध्यं तमो भवन् । शून्यं सन् व्योमताम् एति गिरिस् सन् रोधयत्य् अलम्
करोति जङ्गमं चित्त्वे स्थावरं स्थावराक्र्टिः । भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा
परमार्कवपुर् भूत्वा प्रकाशे ऽन्तर् विसारयन् । त्रिजगत्त्रसरेण्वोघं शान्तम् एवावतिष्ठति
यत् किञ्चिद् इदम् आभाति भातं वा भाम् उपैष्यति । कालत्रयगतं दृश्यं तद् असौ सर्वम् एव वा
कथम् एवं वद ब्रह्मन् भूयते विषमा हि मे । दृष्टिर् एषा तु दुष्प्रापा दुराक्रम्येति निश्चयः
मुक्तिर् एषोच्यते राम ब्रह्मैतत् समुदाहृतम् । निर्वाणम् एतत् कथितं शृणु सम्प्राप्यते कथम्
यद् इदं दृश्यते दृश्यम् अहन्त्वत्तादिसंयुतम् । सतो ऽप्य् अस्याप्य् अनुत्पत्त्या बुद्धयैतद् अवाप्यते
विदेहमुक्तास् त्रैलोक्यं सम्पद्यन्ते यदा तदा । मन्ये ते सर्गताम् एव गता वेद्यविदां वर
विद्यते चेत् त्रिभुवनं तत् तत्तां सम्प्रयान्तु ते । यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन
तत्र त्रिलोकतां यातं ब्रह्मेत्य् उक्त्यर्थधीः कुतः । तस्मान् नो सम्भवत्य् अन्या जगच्छब्दार्थकल्पना
अनन्यच् छान्तम् आभासमात्रम् आकाशनिर्मलम् । ब्रह्मैव जगद् इत्य् एव सत्यं सत्यावबोधिनः
यथा हि हेमकटके विचार्यापि न दृश्यते । कटकत्वं क्वचिन् नाम ऋते निर्मलहाटकम्
जलाद् ऋते पयोवीचौ नाहं पश्यामि किञ्चन । वीचित्वं त्वादृशैर् दृष्टं यत् तु नास्त्य् एव तत्र हि
स्पन्दत्वं पवनाद् अन्यन् न कदाचन कुत्रचित् । स्पन्द एव सदा वायुर् जगत् तस्मान् न विद्यते
यथा शून्यत्वम् आकाशस् ताप एव मरौ जलम् । तेज एव यथालोको ब्रह्मैव त्रिजगत् तथा
अत्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता । ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम्
मिथस् सम्पन्नयोर् द्रष्टृदृश्ययोर् एकसङ्क्षये । द्वयाभावे स्थितिं याते निर्वाणम् अवशिष्यते
दृश्यस्य जगतस् तस्माद् अत्यन्तानुद्भवो यथा । ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा
कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति । एतस्मिंस् तु मुने सिद्धे न साध्यम् अवशिष्यते
बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका । नूनं विचारमन्त्रेण निर्मूलम् उपशाम्यति
न शक्यते झगित्य् एव समुच्छेदयितुं क्षणात् । समप्रयतने ह्य् अद्रौ समारोहावरोहणे
तस्माद् अभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः । जगद्भ्रान्तिर् यथा शाम्येत् तथेदं कथ्यते शृणु
वदाम्य् आख्यायिकां राम याम् इमां बोधसिद्धये । तां चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान्
अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते । यः किलोत्पद्यते राम तेन मुक्तेन भूयते
इयम् इत्थं जगद्भ्रान्तिर् भात्य् अजातैव खात्मिका । इत्य् उत्पत्तिप्रकरणे कथ्यते ऽस्मिन् मयाधुना
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम्