भ्रमन्मनḫपिशाचे ऽस्मिन् कल्लोलजलदाकुले । संसाररात्रितिमिरे स्वात्मैवापूर्णचन्द्रमाः
अबोधमरणावर्ते कल्लोलाकुलकोटरे । तृष्णाकल्लोलतरले स्वमनश्चण्डमारुते
महाजडजवाधारे संसारविषमार्णवे । इन्द्रियग्राहगहने विवेकḫ पोतको महान्
पूर्वं यथाभिमतपूजनसुप्रसन्नो दत्त्वा विवेकम् इह पावनदूतम् आत्मा । जीवं पदं नयति निर्मलम् एकम् आद्यं सत्सङ्गशास्त्रपरमार्थपरावबोधैः
परिपुष्टविवेकानां वासनामलम् उज्झताम् । महत्ता महताम् अन्तẖ काप्य् अपूर्वैव जायते
औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् । महतां नावगाहन्ते भुवनानि चतुर्दश
चित्तभ्रान्तिर् जगद् इति प्ररूढे प्रत्यये सताम् । बाह्यञ् चान्तश् चरन्न् अर्थग्रहो मोहश् च शाम्यति
द्वीन्दुवत् तापजलवत् केशोण्डुकवद् अम्बरे । विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययẖ कुतः
वासनाप्रत्ययशमे शून्यं व्योमैव शिष्यते । साप्य् अवस्था मनो ऽसच् चेत् ततस् त्याज्या विवेकिना
त्रयम् एतत् तु यावस्था त्रयेणानेन वर्जिता । पश्यन्तीवाप्य् अपश्यन्ती सावस्था परमोदिता
विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् । आभासमात्रं नाम्ब्वात्म न घनं न च पार्थिवम्
रूपालोकमनोमात्रं शून्यम् एव जगत् स्थितम् । खे विचित्रमणिव्यूहकरजालम् इवोत्थितम्
नेह सत्यानि भूतानि न जगत्ता न शून्यता । इदं ब्रह्माख्यरत्नेशप्रभाजालविजृम्भितम्
सृष्टयो दृष्टयो ब्राह्म्यो नानातामननात्मकाः । अमूर्ता एव भासन्ते कल्पान्तार्कगणाघनाः
एवं तावद् घनीभूतḫ पिण्डग्राहो न विद्यते । सङ्कल्पिते ऽर्थे व्योम्नीव शून्यतैवावगम्यते
अस्याम् अवस्तुभूतायां कथं भावनिबन्धनम् । भविष्यदाकाशतरौ विश्रान्तẖ को विहङ्गमः
पिण्डत्वं नास्ति भूतानां शून्यता न च विद्यते । चित्तम् अप्य् अत एवास्तं शेषं सत् तत्र वस् स्थितिः
अनाना समम् एवास्ते नानारूपो विबोधवान् । अन्तरालीननानार्थो यथा कनकपिण्डकः
यथास्थितस्य साहन्त्वं विश्वं चित्रं विलीयते । ज्ञस्यावाच्यम् अचित्तं सत्स्वरूपम् अवशिष्यते
क्लिष्यते केवलं बुद्धिर् उत्तराधरदर्शनैः । स्तोकयाभ्यस्तया बुद्ध्या सत्यो ऽर्थो ह्य् अवगम्यते
विराडोजो विरहितं कार्यकारणतादिभिः । भूतभव्यभविष्यत्स्थं जगद् अङ्ग ह्य् असम्भवम्
येन बोधात्मना बुद्धं स ज्ञ इत्य् अभिधीयते । अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते
पूर्वोक्तास् सर्व एवैते उपदेशविशेषणाः । ज्ञस्यानुभवम् आयान्ति सतस् साधुकथा इव
पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्य् असम्भवम् । अत एव मनो नास्ति शेषं सत् तत्र वस् स्थितिः
चेत्योन्मुखत्वम् एवान्तश् चेतनस्यास्य चेतनम् । उदितं तद् अनर्थाय श्रेयसे ऽनुदितं भवेत्
तस्यानुदयसंवित्तेर् भव नित्यं समाहितः । सस्पन्दो वा गतस्पन्दश् शङ्काम् उत्सृज्य तां भवे
उदितं बाह्यताम् एत्य तत्र गच्छति पिण्डताम् । स्वयं संवेदनाद् एव जाड्याद् अम्ब्व् इव शैलताम्
स्वप्नाद्यर्थवद् आदत्ते बोधो ऽबोधेन पिण्डताम् । तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम्
एतावतीष्व् अवस्थासु बोधस्योदेति नान्यता । शब्दकल्पनया भेदẖ केवलं परिकल्पितः
बहिर् अन्तश् च बोधस्य भात्य् आत्मैवार्थदृष्टिभिः । कुतो ऽन्या चेत्यता तस्य स्याद् यद्य् उन्मुखतात्मनः