ज्ञेनामलपदस्थेन दीपेनेव न चेत्यते । तमो हार्दं यथा बाह्यं रागद्वेषभयादिवत्
रजोरहितसर्वाशं सत्त्वात् परम् उपागतम् । असम्भवत्तमोरूपं प्रणमेत् तज्ज्ञभास्करम्
भेदप्रविलये जाते चित्ते चादृश्यतां गते । या स्थितिḫ प्राप्तबोधस्य न वाग्गोचरम् एति सा
ददात्य् एतन्मयबुद्धेर् निर्वाणं परमेश्वरः । अहर्निशं परमया चिरं भक्त्या प्रसादितः
ईश्वरẖ को मुनिश्रेष्ठ कथं भक्त्या प्रसाद्यते । एतन् मे तत्त्वतो ब्रूहि सर्वतत्त्वविदां वर
ईश्वरो न महाबुद्धे दूरे न च सुदुर्लभः । महाबोधमयैकात्मा स्वात्मैव परमेश्वरः
तस्मिन् सर्वं ततस् सर्वं स सर्वं सर्वतश् च सः । सो ऽन्तस् सर्वमयो नित्यं तस्मै सर्वात्मने नमः
तस्माद् इमाḫ प्रतीयन्ते सर्गप्रलयविक्रियाः । अकारणं कारणतो गतयḫ पवनाद् इव
अनिशं पूजयन्त्य् एनं सर्वास् स्थावरजङ्गमाः । यथाभिमतदानेन सर्वतो भूतजातयः
सुबहून्य् एष जन्मानि यथाभिमतयेच्छया । यदा सम्पूजितस् तेन प्रसादम् अधिगच्छति
प्रसन्नस् सन् महादेवस् स्वयम् आत्मा महेश्वरः । बोधाय प्रेरयत्य् आशु दूतं पूतं शुभेहितैः
आत्मना परमेशेन को दूतḫ प्रेर्यते मुने । स दूतो बोधनं चापि करोति वद मे कथम्
आत्मसम्प्रेरितो दूतो विवेको नाम नामतः । हृद्गुहायां स वरदस् तिष्ठतीन्दुर् इवाम्बरे
स एष वासनात्मानं जन्तुं बोधयति क्रमात् । संसारसागरात् तस्मात् तारयत्य् अविवेकिनम्
बोधात्मैषो ऽन्तरात्मैव परमḫ परमेश्वरः । अस्यैव वाचको राम प्रणवो वेदसम्मतः
जपहोमतपोदानपाठयज्ञक्रियाक्रमैः । एष प्रसाद्यते नित्यं नरनागसुरासुरैः
द्यौर् मूर्धा पृथिवी पादौ तारका रोमराजयः । भूतान्य् अस्थीनि हृदयं व्योमास्य परमेष्ठिनः
सर्वत्रैष चिदात्मत्वाद् वाति जिघ्रति पश्यति । तेनैष सर्वतोलक्ष्यकरकर्णाक्षिपादभृत्
विवेकदूतम् उद्बोध्य हत्वा चित्तपिशाचकम् । आत्मना पदवीं स्फारां जीवẖ काम् अपि नीयते
त्यक्त्वा सर्वविकल्पौघान् विधूयानर्थसङ्कटम् । पौरुषेणात्मनैवात्मा स्वयम् एव प्रसाद्यताम्
भ्रमन्मनḫपिशाचे ऽस्मिन् कल्लोलजलदाकुले । संसाररात्रितिमिरे स्वात्मैवापूर्णचन्द्रमाः
अबोधमरणावर्ते कल्लोलाकुलकोटरे । तृष्णाकल्लोलतरले स्वमनश्चण्डमारुते
महाजडजवाधारे संसारविषमार्णवे । इन्द्रियग्राहगहने विवेकḫ पोतको महान्
पूर्वं यथाभिमतपूजनसुप्रसन्नो दत्त्वा विवेकम् इह पावनदूतम् आत्मा । जीवं पदं नयति निर्मलम् एकम् आद्यं सत्सङ्गशास्त्रपरमार्थपरावबोधैः
परिपुष्टविवेकानां वासनामलम् उज्झताम् । महत्ता महताम् अन्तẖ काप्य् अपूर्वैव जायते
औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् । महतां नावगाहन्ते भुवनानि चतुर्दश
चित्तभ्रान्तिर् जगद् इति प्ररूढे प्रत्यये सताम् । बाह्यञ् चान्तश् चरन्न् अर्थग्रहो मोहश् च शाम्यति
द्वीन्दुवत् तापजलवत् केशोण्डुकवद् अम्बरे । विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययẖ कुतः
वासनाप्रत्ययशमे शून्यं व्योमैव शिष्यते । साप्य् अवस्था मनो ऽसच् चेत् ततस् त्याज्या विवेकिना
त्रयम् एतत् तु यावस्था त्रयेणानेन वर्जिता । पश्यन्तीवाप्य् अपश्यन्ती सावस्था परमोदिता